250

स नैषधेत्यादौ निषधरूपो वर्णसमुदायः पदैकदेशतामापन्नः साधारण एव । तदत्र दन्तुरता कीदृशीत्यत आह—अत्र निषिद्धेति ।

श्लक्ष्णो यथा—

‘अप्येहि कान्ते वैदेहि देहि प्रतिवचो मम ।
अरविन्दाक्षि दाक्षिण्यमलंकारो हि योषिताम् ॥ २१८ ॥’

अत्र स्वरेण सहावृत्तेः श्लक्ष्णता । सोऽयं पदानुप्रासः श्लक्ष्ण इत्युच्यते ॥

संपुटं यथा—

‘सदर्प इव कंदर्पस्तरला मादृशां मतिः ।
असार इव संसारः कुरुष्व मदनुग्रहम् ॥ २१९ ॥’

अत्रेवशब्दस्यापवादत्वेनाव्यवधायकत्वादनुप्रासोऽयं संपुट इत्युच्यते ॥

संपुटवदेकरूपस्यैव खण्डस्य निरन्तरमावर्तनं संपुटम् । तत्कथमिव कंसंशब्दैरन्तराये संपद्यत इत्यत आह—अत्रेवशब्दस्येति ॥

संपुटावली यथा—

‘करोति किं किरातोऽयं समाकृष्य शिलीमुखान् ।
शिलीमुखान्समाकृस्य किङ्किरातः करोति यत् ॥ २२० ॥’

अत्र करोति करोतीत्येकं संपुटम्, किं किरातः किङ्किरात इति द्वितीयम्, समाकृष्य समाकृष्येति तृतीयम्, शिलीमुखाञ्छिलीमुखानिति चतुर्थम् । सोऽयं पदानुप्रासः संपुटावलीत्युच्यते ॥

करोति किं किरातोऽयमित्यादौ मध्ये शिलीमुखाञ्छिलीमुखानिति प्रथमं संपुटम् । तस्य बहिरावरणभूतं समाकृष्य समाकृष्येति द्वितीयम् । तस्यापि किं किरातः किङ्किरात इति तृतीयम् । तस्यापि करोतीति चतुर्थम् । तदेतद्विपरीतव्याख्यया व्यञ्जयन्नाह—अत्र करोतीत्यादि ॥