151

तत्रेति । वर्णनियतं छन्दोवृत्तम् । मात्रानियतं जातिः । समप्रस्तावं समम् । प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च तुल्यप्रस्तावमर्धसमम् । उभयबहिरर्धं विषमम् ॥

गद्यमुत्कलिकाप्रायं पद्यगन्धीति च द्विधा ।
द्विधैव गद्यपद्यादिभेदान्मिश्रमपीष्यते ॥ २५ ॥

गद्यमिति । उत्कलिका कल्लोलस्तत्प्रायम् । उच्चावचमिव प्रतिभासमानमित्यर्थः । यथा—‘सलीलकरकमलतालिकातरलवलयावलीकम्’ इति । वृत्तगन्धि प्रतिभातवृत्तैकदेशम् । तदेतदल्पाख्यायामुत्पन्नेन समासान्तेन व्यञ्जितम् । तदयमर्थः— सामान्यतः पद्यादिभेदेन गतिस्त्रिधा । तत्रापि जात्यादिभेदेन षट्प्रकाराः । तेऽपि द्रुतादिभेदेन षट्त्रिंशदिति ॥

ननु ललितादयो गद्यभेदाः कैश्चिदलंकारकारैः परिसंख्यातास्ते कस्मान्नोच्यन्त इत्यत आह—

ललितं निष्ठुरं चूर्णमाविद्धं चेति योऽपरः ।
विशेषः स तु गद्यस्य रीतिवृत्त्योर्भविष्यति ॥ २६ ॥

ललितमिति । सुकुमारसंदर्भं ललितम् । यथा—‘कमलिनीवनसंचरणव्यतिकरलग्ननलिननालकण्टके वने क्वचिन्निर्भरं पदमादधाति’ इति । प्रस्फुटसंदर्भं निष्ठुरम् । यथा—‘उत्तम्भितकुटिलकुन्तलकलापः श्मशानवाटमवतरति’ इति । अनुल्लिखितसमासं चूर्णम् । यथा—‘अभ्यासो हि कर्मणः कौशलमादधाति । न खलु संनिपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति’ इति । उद्भटसभासमाविद्धम् । यथा—‘कुलिशशिखरखरतरस्वरप्रचयप्रचण्डचपेटपाटितमत्तमातङ्गमदच्छटाच्छुरितचारुकेसरभारभासुरमुखे केसरिणि’ इति । रीतिवृत्त्योरिति विषयसप्तमी । तथा ललितं कैशिक्यादौ, निष्ठुरभारभट्यादौ, चूर्णं वैदर्भ्यादौ, आविद्धं गौडीयाप्रभृतौ, यथायथमन्तर्भवतीति नोक्तभेदाः परिसंख्याता इत्यर्थः ॥

उक्तप्रकारेषु किंचिदुदाहरति—

तत्र पद्यभेदेषु समवृत्ते द्रुता गतिर्यथा—

‘अयि विजहीहि दृढोपगूहनं त्यज नवसंगमभीरु वल्लभम् ।
अरुणकरोद्गम एष वर्तते वरतनु संप्रवदन्ति कुक्कुटाः ॥ १३ ॥’

सेयं समवृत्ते लघुसंयुक्ताक्षरभूयस्त्वाद्द्रुता गतिः ॥

तत्रेति । नवसंगमभीर्विति संबोधनम् । भीरुशब्दादूंङ्, तस्मात्संबोधनह्रस्वे