ननु हर्षादीनां महाकविप्रबन्धेषु द्विरुक्तिरुपलभ्यते । सा कथमुपग्राह्येत्यत आह—हर्षेति । हर्षादयोऽपि संभ्रमप्रयोजकास्तैरसाधारणतामापन्नैरवच्छिद्यमानः संभ्रमोऽन्योन्यो भवति न च संभ्रमता जहातीति संभ्रमद्विरुक्तिप्रकार एवायमित्यर्थः ॥