259
स चाव्यवहितो व्यस्तः समस्त उभयः पुनः ।
उभयं चक्रवालं च गर्भश्चैवाभिधीयते ॥ १०३ ॥

स चेत्यनुक्तव्यवहितसमुच्चये चकारः । लाटानुप्रासः सामान्यतो द्विधा—अव्यवहितः, व्यवहितश्च । अनावृत्तशब्दानन्तरितोऽव्यवहितः, तदन्तरितश्च व्यवहितः । तयोरव्यवहितः षोढा भवति । व्यस्तः समस्तो द्वावुभयाविति तावच्च त्वारः । तत्रोभयद्वयं द्विप्रकारकमिति सामान्यविशेषभावाभ्यां षड्भेदा व्याख्येयाः । उभयः पुनरिति । पुनःशब्दो व्यावृत्तौ । पूर्वस्मादन्य एवायमेकशब्दाभिलष्य इत्यर्थः । आद्योभयद्वयमग्रे वक्ष्यते ॥

यस्तु व्यवहितो नाम नेयता तस्य शक्यते ।
कर्तुमेकादिगणना पदवृत्त्यादिभङ्गिभिः ॥ १०४ ॥

द्वितियं तु चक्रवालै गर्भश्चेत्युक्त व्यवहितस्य तर्हि कियन्तो भेदा अत आह—यस्त्विति । तेन बहुभावावान्तरविशेषतया नायं समशीर्षिकया गणित इत्यर्थः ॥

तेष्वव्यवहितभेदेषु व्यस्तो यथा—

‘उअहिस्स जसेण जसं धीरं धीरेण गरुइआइ वि गरुअम् ।
रामो ठिएअ वि ठिइं भणइ रवेण अ रवं समुप्फुन्दन्तो ॥ २४० ॥’
[उदधेर्यशसा यशो धैर्यं धैर्येण गुरुतयापि गुरुताम् ।
रामः स्थित्यापि स्थितिं भणति रवेण रवेण च रवं समभिक्रामन् ॥]

अत्राव्ययानां द्योतकादित्वादिवादिभिर्व्यवधानं नाश्रीयते । न हीवादेः प्रकृतेऽपि पृथक्पदत्वमस्ति । यद्येवामिदमिहोदाहरणं युज्यते—

‘त्वन्मुखं त्वन्मुखमिव त्वद्दृशौ त्वद्दृशाविव ।
त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ॥ २४१ ॥’ इति ।

अस्त्येवैतत् । किं तु यथा—‘अमृतममृतं चन्द्रश्चन्द्रः—’ इत्यादिकमभेदेऽपि भेदोपचारान्नामद्विरुक्तिस्तथेयमित्युत्प्रेक्षते ॥

तेष्विति । द्विरुक्तशब्दरूपेषु पूर्वपरयोर्नैकमपि समासान्तर्गतमिति व्यस्तः । एतेन समस्तादयो व्याख्याताः । धैर्यगुरुतास्थितिगाम्भीर्यानुनिष्पादी वागनुभावो रसपूर्णकुम्भोच्छलनन्यायेन साक्षादिव तत्तत्प्रकर्षमर्पयन् शोभाविकासहेतुः ।