264

अत्र पादापेक्षया व्यवहितत्वमर्घापेक्षया पुनरव्यवहितत्वं भवति ॥

एवं श्लोकार्धाभ्यासो व्यवहिताव्यवहितभेद एव भवतीत्याह—योऽपीति ॥

द्विभागाभ्यासस्तु व्यवहित एव स्वदते । यथा—

‘श्रद्धायत्नौ यदि स्यातां मेधया किं प्रयोजनम् ।
तावुभौ यदि न स्यातां मेधया किं प्रयोजनम् ॥ २५५ ॥’

श्रद्धायत्नाविति । अत्र यदि स्यातामिति पादभागेन सह पदावृत्तिस्त्रिभागावृत्तिर्भवति ॥

पदाभ्यासः पुनरव्यवहितो व्यवहितश्च दृश्यते । तयोरव्यवहितो यथा—

‘सन्तः श्रृणुध्वं हृदये निधद्ध्वमुत्क्षिप्य बाहुं परिरारटीमि ।
न सुभ्रुवां तुल्यमिहास्ति रम्यं न सुभ्रुवां तुल्यमिहास्ति रम्यम् २५६’

व्यवहितो यथा—

‘मुखेन लक्ष्मीर्जयति फुल्लपङ्कजचारुणा ।
दक्षिणेन करेणापि फुल्लपङ्कजचारुणा ॥ २५७ ॥’

मुखेनेति । फुल्लपङ्कजमिव चारु फुल्लेन पङ्कजेन चारुरिति यद्यपि वृत्त्यर्थौ भिद्येते, तथापि पदानामभिन्नार्थत्वादुदाहरणता ॥

इवाद्यावृत्तयोऽपि चात्रैव द्रष्टव्याः । यथा—

‘लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च ।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्जभि- श्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥ २५८ ॥’

अर्थाभेद इति नार्थशब्दोऽभिधेयवचनः किंतु शब्दप्रतिपाद्यमात्रवचन इत्याशयवानाह—इवादीति ॥

यमकानां हि यावन्त्यो वर्ण्यन्ते भेदभक्तयः ।
अनुप्रासस्य लाटानां भिदास्तावन्त्य एव हि ॥ १०५ ॥