152 रूपम् । गर्भगृहस्था108 नालोकयति चेत्तदाह—संप्रवदन्तीति । अत्र प्रतिपादमष्टौ लघवश्चत्वारो गुरव इति लघुबाहुल्ये संयोगाक्षराणामुद्रेके च ताललयवदतिव्यक्त एव द्रुतभावः ॥

समवृत्ते विलम्बिता यथा—

‘प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः ।
पदार्थधर्मसंग्रहः 109प्रवक्ष्यते महोदयः ॥ १४ ॥’

सेयं स्थाने स्थाने गुर्वक्षरयोगाद्विलम्बिता गतिः ।

प्रणम्येति । अत्र यद्यपि पदचतुष्टये गुरुलघूनां समसंख्यत्वमेव, तथापि संयोगाक्षरैरन्तरान्तरा पठितिदीर्घाभावोन्मेषादारोहप्राधान्ये विलम्बिता । एवं व्युत्क्रमेण समानिकायामपि विलम्बितैव । यथा—‘मीनजालघटितानि सूर्यरश्मिबोधितानि । मत्तषट्पदाकुलानि पश्य भीरु पङ्कजानि ॥’ इति ।

तदिदमाह—सेयमिति । तेन विभागसूत्रे गुरुलघुमिश्रणमेवंरूपमपि बोद्धव्यमिति ॥

तत्रैव मध्या यथा—

‘आसीद्दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः ।
वदन्ति स्म बलं बाह्वोः सितच्छत्रस्मिताः श्रियः ॥ १५ ॥’

सेयं 110नातिलघ्वक्षरत्वान्मध्या गतिः ॥

आसीदिति । अत्र यद्यपि गुरवो बहवस्तथापि न द्रुतिर्न विलम्बनं पठितेरित्यनुभवसाक्षिकोऽयमर्थस्तदेतदाह—नातिलघ्वक्षरेति ॥

द्रुतविलम्बिता यथा—

‘अवतु वः सवितुस्तुरगावली स्फुरितमध्यगतारुणनायका ।
111समविलङ्घिततुङ्गपयोधरा मरकतैकलतेव नभःश्रियः ॥ १६ ॥’

सेयं द्रुताया विलम्बितायाश्च गतेरन्तरानुप्रवेशाद्द्रुतविलम्बिता गतिः ।

अवतु व इति । अरुणो गरुडाग्रजः शोणश्च । नायको नेता हारमध्यमणिश्च ।

  1. ‘गृहस्थो नालो’ इति पाठः
  2. ‘प्रचक्षते’ क
  3. ‘लघ्वक्षरप्रायत्वा’ क
  4. ‘समभिल’ ख