प्रणम्येति । अत्र यद्यपि पदचतुष्टये गुरुलघूनां समसंख्यत्वमेव, तथापि संयोगाक्षरैरन्तरान्तरा पठितिदीर्घाभावोन्मेषादारोहप्राधान्ये विलम्बिता । एवं व्युत्क्रमेण समानिकायामपि विलम्बितैव । यथा—‘मीनजालघटितानि सूर्यरश्मिबोधितानि । मत्तषट्पदाकुलानि पश्य भीरु पङ्कजानि ॥’ इति ।

तदिदमाह—सेयमिति । तेन विभागसूत्रे गुरुलघुमिश्रणमेवंरूपमपि बोद्धव्यमिति ॥