277 स्थिर । अक्षीणेनोपचितेन चञ्चद्भुवा साह्लादेन गवा वृषेण लक्षित । तथ्यमिति क्रियाविशेषणम् । चिन्तिता गुप्तिर्भूतानां रक्षा येन । चारो रमणीयः । उग्रो महादेवः । त्वमप्रांशुः सर्वस्मादुच्चैःपदे स्थितः । भवानीरुचा वामार्धस्थितपार्वतीकान्त्या रम्यस्तन्विति संबन्धः ॥ अत्र पूर्ववदेव न्यासः । अङ्कास्तु चत्वार इति विशेषः ॥

गतिचित्रेषु गतप्रत्यागतं यथा—

‘वारणागगभीरा सा साराभीगगणारवा ।
कारितारिवधा सेना नासेधावरितारिका ॥ २९९ ॥’

अत्रायुक्पादयोर्गतिः, युक्पादयोः प्रत्यागतिः ॥

इदानीं गतिचित्रप्रस्तावः—वारणेत्यादि । वारणा एव अगाः पर्वतास्तैर्गभीरा दुरवगाहा । सारा श्रेष्ठा । भियं येन यान्ति तादृशानां गणानामारवो यत्र । सारो वा भीगगणारवो यत्र । कारितः कृतोऽरीणां वधो यया । स्वार्थे णिच् । आसेधः परैः प्रतिषेधस्तेन हीना । वरिताः सुभटैर्युद्धार्थमाहूता अरयो यस्यां सा तथा । ‘वर ईप्सायाम्’ इति धातोः क्तप्रत्यये वरितेति रूपसिद्धिः । अत्रायुक्पादयोः प्रथमतृतीययोरानुलोम्येन वर्णावलीं गृहीत्वा तत्प्रतिलोमरूपौ युक्पादौ द्वितीयचतुर्थौ गृह्येते । पठितेर्वर्णाद्वर्णान्तरसंचारो गतिस्तन्नियमनेन चित्रं गतिचित्रं स चात्र यथोक्तरूप एव ॥

तदक्षरगतं यथा—

‘निशितासिरतोऽभीको न्येजतेऽमरणा रुचा ।
चारुणा रमते जन्ये को भीतो रसिताशिनि ॥ ३०० ॥’

अत्र गतप्रत्यागताभ्यां स एव श्लोकः ॥

हे अमरणा मरणरहिताः, निशितखङ्गरतो भयशून्यश्च रुचा तेजसा न्येजते न कम्पते । यो हि भीतः स कथं शब्दायमानाशनशीलरक्षःपिशाचादिसंकुले जन्ये सङ्ग्रामे चारुणा करितुरगादिना रमते । न कथंचिदित्यर्थः । अत्र संदर्भसमाप्तिपर्यन्तं या वर्णमाला गृहीता सैव समाप्तेरारभ्य प्रत्यागत्या यावदारम्भं समाप्यत इति पूर्वं त्वर्धेनैवमिति ॥

श्लोकान्तरं यथा—

‘वाहनाजनि मानासे साराजावनमा ततः ।
मत्तसारगराजेभे भारीहावज्जनध्वनि ॥ ३०१ ॥’