बालेत्यादि । बाला षोडशवर्षदेशीया शोभनकृष्णकेशी कान्तिप्रदचूर्णकुन्तलशोभिता सस्वा आत्मसंपद्युक्ता सुतवती पुत्रयुक्ता उत्कृष्टाभिमानात्मकशृङ्गारवती अभिलषितस्वविवाहादिव्रताकाङ्क्षा अतस्तं भजस्वेति । हृदये इति शेषः ॥ न्यासमाह—क्रमादिति । ललितो मनोज्ञस्तीव्रः प्रवीणः स्व आत्मा यस्याः । रागेण प्रेम्णा तर्पयति या । शोभनदन्तयुक्ता । वर्धितावासा संपूर्णीकृतसकलस्थाना । कालो भृषाव्याहारस्तेन सह वर्तते या । तले लासका नर्तका यस्याः सा तथाभूता । अधःकृतसकलनर्तकलोकेत्यर्थः । एवंभूता सा बाला त्वयोपभुक्तेति वाक्यार्थः ॥