दुर्गे इति । संबोधनैरिति । अत्र हि स्रग्धराभिधाने छन्दसि पादत्रयपदानुरोधेनान्त्यपादद्वयेनैकैकमेव पदं तुर्यपादे परिकल्प्यमिति सर्वत्र नवसु पदेषु स्थितेषु पदचतुष्टये पदपञ्चके चोपादीयमाने प्रथमे आपातलिकायां पञ्चविंशतौ द्वितीये एकया प्राच्यवृत्त्या सह वैतालीयके यदि वा पञ्चभिः प्राच्यवृत्तिभिः सममौपच्छन्दसिके चतुर्विंशतौ तृतीयवैतालीय एव चतुर्विंशतौ चतुर्थे च पादे प्राच्यवृत्तिद्वये सममापातलिकायां षोडशभिरेकया प्राच्यवृत्त्या वैतालीयप्राच्यवृत्त्या सह वैतालीयैः षङ्भिस्तथैवौपच्छन्दसिके द्वाभ्यामिति चतुर्विंशतौ विकल्पेषु प्रभवत्सु पञ्चविंशत्याहतेषु चतुर्विंशतौ शतानि षट् । षङ्भिश्च शतैराहतेषु पञ्चविंशतौ सहस्राणि पञ्चदश । तैराहतेषु चतुर्विंशतौ लक्षाणि त्रीणि सहस्राणि च षष्टिः तर्णकाः श्लोकाः समुत्पद्यन्त इतीयं लक्षधेनुः । एषेति । तथा ह्यत्र पादत्रये नवसु तुर्यपादे च दशसु । त्रये पदचतुष्के पदपञ्चके चोपादीयमाने प्रथम औपच्छन्दसिक एकस्य पदस्य द्विरुक्त्या विंशतौ यदि वा आपातलिकायां दश । वैतालीये पञ्चदशसु औपच्छन्दसिके उदीच्यवृत्तिद्वयेन यद् वैतालीये चतसृभिरुदीच्यवृत्तिभिः सममेकोनविंशतिरिति च पञ्चविंशतौ तृतीयस्मिन्नौपच्छन्दसिके पञ्चभिः प्राच्यवृत्तिभिः सममेकादश । वेतालीये तथैव चतुर्दश औपच्छन्दसिके तिसृभिः प्राच्यवृत्तिभिः सह षडिति विंशतौ तृतीयास्मिन्नौपच्छन्दसिके तिसृभिरुदीच्यवृत्तिभिः समं पञ्चविंशतौ चतुर्थे त्वापातलिकायामेक एव । द्विरुक्त्यादिना षोडशभिः प्राच्यवृत्तिभिः सममशीतौ विकल्पेषु प्रभवत्सु विंशत्याहतपञ्चविंशतौ पञ्चविंशत्या द्वाविंशतौ पञ्चशताधिकानि द्वादशसहस्राणि तैरप्याहतेषु अशीतौ दशलक्षाणि तर्णकाः श्लोकाः समुत्पद्यन्त इतीयं प्रयुतधेनुः ॥