302

संबंन्धगूढं यथा—

‘न मयागोरसाभिज्ञं चेतः कस्मात्प्रकुप्यसि ।
अस्थानरुदितैरेभिरलमालोहितेक्षणे ॥ ३६८ ॥’

अत्र न मे आगोरसाभिज्ञं चेत इति संबन्धिपदस्य मयेति तृतीयाभ्रान्त्या गोपितत्वादिदं संबन्धगूढम् ॥

पादगूढं यथा—

‘द्युवियद्गामिनी तारसंरावविहतश्रुतिः ।
हैमीषु माला शुशुभे’ (विद्युतामिव संहतिः) ॥ ३६९ ॥’

अत्र पूर्वार्धस्थितैर्द्वितीयप्रथमसप्तमपञ्चमैकादशनवमत्रयोदशषोडशाक्षरैश्चतुर्थपादो गूढ उत्थाप्यः । यथा—‘विद्युतामिव संहतिः’ इति । इदं पादगूढम् ॥

अभिप्रायगूढं यथा—

‘जइ देअरेण भणिआ खग्गं घेत्तूण राउलं वच्च ।
ता किं सेवअवहुए हसिऊण वलोइअं सअणम् ॥ ३७० ॥’
[यदि देवरेण भणिता खङ्गे गृहीत्वा राजकुलं व्रज ।
तत्किं सेवकवध्वा हसित्वावलोकितं शयनम् ॥]

अत्र निरीक्षितमनेनात्र पुरुषायितलक्ष्म पादलाक्षादिकं, तेन नियुङ्क्ते मां न कर्मणीत्यभिप्रायेण वध्वाः शयनावलोकनमित्यभिप्रायगूढम् ॥

वस्तुगूढं यथा—

‘पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।
यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम् ॥ ३७१ ॥’

अत्र दास्यसीति दासीलक्षणस्य वस्तुनो गूढत्वादिदं वस्तुगूढम् ॥

यस्तु पर्यनुयोगस्य निर्भेदः क्रियते पदैः ।
विदग्धगोष्ठ्यां वाक्यैर्वा तं हि प्रश्नोत्तरं विदुः ॥ १३६ ॥