160 शृङ्गारस्तदाभासोऽपि तामेव भूमिकामालम्बते । अत एव शुक्तिरजतवद्भावोदयेऽपि दोषमहिम्नैव काव्यमहिम्ना तव्द्यञ्जनात् । तत्समानभूमिकया हास्यो रसः प्रादुर्भवतीत्यभिसंधायाह—‘शृङ्गाराद्धि भवेद्धास्यम्’ इति भरतमुनिः । तेन विकासभूमिकौ शृङ्गारहास्यौ । विकासात्प्रच्युतमप्राप्तगुणान्तरप्रादुर्भावं विक्षिप्तं चित्तमुच्यते । तत्रोचितविभावादिवैचित्र्यादाविर्भवद्रजोगुणस्य चेतसो विक्षेपप्रच्युतिदशायां रौद्ररसोन्मेषः । अत एव समानभूमिकया ‘रौद्राच्च करुणो रसः’ इत्याह । यदा तु सत्त्वतमोनिमीलनेन केवलरजःप्रतिष्ठं चेतस्तदा बहुमुखव्यापारोन्मेषाद्विस्तराख्यामवस्थामासादयति । तद्भूमिको वीररसस्तदवस्थामेवास्थायाद्भुतोऽपि प्रथत इति ‘वीराच्चैवाद्भुतोत्पत्तिः’ इत्युक्तम् । न्यग्भूतरजोगुणस्य प्रबुद्धतमसश्चेतसोऽवस्थाविशेषः ससंकोचस्तमालम्ब्य बीभत्सः प्रादुरास्ते तदेकभूमिकश्च भयानक इति ‘बीभत्साच्च भयानकः’ इत्याह ॥
तेऽमी चत्वारश्चित्तावस्थाविशेषाः कथमविशेषणादेव संदर्भाद्भवन्तीत्याशङ्क्य विभागेनोत्तरमाह—
कैशिक्येति । शुद्धिसंकराभ्यां रीतिवदत्रापि षट् प्रकाराः ॥
सुकुमारेति । चित्तद्रुतिकारित्वं सौकुमार्यं सुकुमारावर्थसंदर्भौ यस्यामिति विग्रहः । एवं प्रौढार्थसंदर्भेत्यपि । चित्तदीप्तिविधायिता प्रौढिः । अर्थसौकुमार्यादिना विशेष्यमाणसंदर्भः सुकुमारत्वादिः शब्दालंकारतां प्रयोजयति । कोमलप्रौढो मध्यमः । प्रकारान्तरविरहाच्च मध्यमभारत्यादयो न संभवन्ति ॥
- ‘सात्वती भारती तथा’ क↩