161

तत्र कैशिकी यथा—

‘शशिरुचिषु दलेषु नागवल्ल्या विचकिलदामनि चन्दने च हृद्ये ।
कुवलयिनि पुराणसीधुपात्रे तरलदृशामपतन्दृशः प्रिये च ॥ ३१ ॥’

सेयमर्थस्य च संदर्भस्य च सौकुमार्यात्कैशिकी नाम वृत्तिः ॥

शशिरुचिष्विति । नियमितादिषु मुग्धाङ्गनाचुम्बनरसोत्सुकानामतिमनोज्ञाधररागसमर्पकेषु नागलतादलेषु, ततो मानपरिग्रहे वलितकादिचुम्बनविशेषार्थिनीनां कचग्रहसौभाग्यसुन्दरे मल्लिकादाम्नि, ततः सर्वाङ्गीणाश्लेषसौभाग्यार्थकचन्दनरसेऽनन्तरमीर्ष्यारोषवासनानिःशेषकेलियन्त्रणरतोत्कण्ठितानां सीधुपात्रे, ततः सर्वोपकरणजीवितसर्वस्वे प्रियतमे समकक्षतयैव दृष्टयः पेतुरिति । ‘कुवलयिनि’ इति युक्तः पाठः । ‘कुवलयित—’ इति पाठे विशेषणाङ्गप्राधान्यविवक्षायां समासे गुणीभावस्यानुचितत्वात् । सेयं कैशिकी मसृणे शृङ्गारादौ विनियुज्यत इति ॥

आरभटी यथा—

‘यो यः शस्त्रं बिभर्ति स्वभुजगुरु118मदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ॥ ३२ ॥’

सेयं प्रौढार्थसंदर्भारभटी नाम वृत्तिः ॥

यो य इति । ओजःप्रधानतया प्रौढः संदर्भः । यस्मादियमारभटी दीप्ते रौद्रादौ विनियुक्ता, तेन युक्तं शब्दार्थयोः प्रौढत्वमिति ॥

भारती यथा—

‘उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ ३३ ॥’

सेयमतिसुकुमारार्थे नातिसुकुमारसंदर्भा भारती नाम वृत्तिः ॥

  1. ‘मदात् पा’ इति पाठः