गौणवृत्तिव्यपाश्रयेणेति । निर्माल्यादिपदानामत्यन्ततिरस्कृतवाच्यानामतिविच्छायत्वादिलक्षणाद्वारेण लावण्यविशेषध्वननात्सहृदयहृदयावर्जकानां निवेशो दृश्यते ।

एवम्—

‘ताला जाअन्ति गुणा जाला ते सहिँअएहिँ धेय्यन्ति ।
रविकिरणाणुग्गहिआइँ होन्ति कमलाइँ कमलाइँ ॥’

तथा—

‘अमृतमभृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं
रतिरपि रतिः कामः कामो मधूनि मधून्यपि ।’

इत्यादावर्थान्तरसंक्रमणादिना तत्प्रकाश्यो ध्वनिरनुसंधेयः ॥