394
कशेरुशृङ्गाटकपद्मगुन्द्राः सशैवलाः सोत्पलकर्दमाश्च ॥
वस्त्रान्तराः पित्तकृते विसर्पे लेपा विधेयाः सघृताः सुशीताः ॥ ७ ॥
प्रदेहाः परिषेकाश्च शस्यन्ते पञ्चवल्कलैः ॥
पद्मकोशीरमधुकचन्दनैर्वा प्रशस्यते ॥ ८ ॥
पैत्ते तु पद्मिनीपङ्कपिष्टं वा शङ्खशैवलम् ॥
गुन्द्रामूलं तु शुक्तिर्वा गैरिकं वा घृतान्वितम् ॥ ९ ॥
न्यग्रोधपादा गुन्द्रा च कदलीगर्भ एव च ॥
बिसग्रन्थिश्च लेपः स्याच्छतधौतघृतप्लुतः ॥ १० ॥
हरेणवो मसूराश्च मुद्गाश्चैव सशालयः ॥
पृथक्पृथक्प्रदेहाः स्युः सर्वे वा सर्पिषा सह ॥ ११ ॥
द्राक्षारग्वधकाश्मर्यत्रिफलामण्डपीलुभिः ॥
त्रिवृद्धरीतकीभिश्च विसर्पे शोधनं हितम् ॥ १२ ॥
गायत्रीसप्तपर्णाब्दवासारग्वधदारुभिः ॥
कुटन्नटैर्भवेल्लेपो विसर्पे श्लेष्मसंभवे ॥ १३ ॥
अजाऽश्वगन्धा सरलाऽथ काला सैकेषिका चाप्यथ वाऽजशृङ्गी ॥
गोमूत्रपिष्टो विहिमः प्रदेहो हन्याद्विसर्पं कफजं सुशीघ्रम् ॥ १४ ॥