496
मुद्गमाषस्य निर्यूहे रास्नाचित्रकनागरैः ॥
सिद्धं सपिप्पलीविश्वैः सर्पिः श्रेष्ठमसृग्दरे ॥ २० ॥
शतावरीरसप्रस्थं क्षोदयित्वाऽवपीडयेत् ॥
घृतप्रस्थसमायुक्तं क्षीरद्विगुणितं भिषक् ॥ २१ ॥
अतः कल्कानिमान्दद्यात्स्थूलोदुम्बरसंमितान् ॥
जीवनीयानि यान्यष्टौ यष्टीचन्दनपद्मकैः ॥ २२ ॥
श्वदंष्ट्रा चाऽऽत्मगुप्ता च बला नागबला तथा ॥
शालिपर्णी पृष्ठपर्णी विदारी सारिवाद्वयम् ॥ २३ ॥
शर्करा च समा देया काश्मर्याश्च फलानि च ॥
सम्यक्सिद्धं च विज्ञाय तद्धृतं चावचारयेत् ॥ २४ ॥
रक्तपित्तविकारेषु वातपित्तकृतेषु च ॥
वातरक्तं क्षयं श्वासं हिक्कां कासं च दुस्तरम् ॥ २५ ॥
अङ्गदाहं शिरोदाहं रक्तपित्तसमुद्भवम् ॥
असृग्दरं सर्वभवं मूत्रकृच्छ्रं च दारुणम् ॥
एतान्रोगाञ्शमयति भास्करस्तिमिरं यथा ॥ २६ ॥
कुमुदं पद्मकोशीरं गोधूमा रक्तशालयः ॥ २७ ॥
मुद्गपर्णी पयस्या च काश्मरी मधुयष्टिका ॥
बलातिबलयोर्मूलमुत्पलं तालमस्तकम् ॥ २८ ॥
विदारी शतपु(प)त्री च शालिपर्णी सजीवका ॥
फलं त्रपुसबीजानि प्रत्यग्रं कदलीफलम् ॥ २९ ॥
एषामर्धपलान्भागान्गव्यक्षीरं चतुर्गुणम् ॥
पानीयं द्विगुणं दत्त्वा घृतप्रस्थं विपाचयेत् ॥ ३० ॥
प्रदरे रक्तगुल्मे च रक्तपित्ते हलीमके ॥
बहुरूपं च यत्पित्तं कामलायां सशोणिते ॥ ३१ ॥
अरोचके ज्वरे जीर्णे पाण्डुरोगे मदे भ्रमे ॥
तरुणी चाल्पपुष्पा च या च गर्भं न विन्दति ॥ ३२ ॥