535
पिप्पल्यो लवणं स्नेहाश्चत्वारो दधिमस्तकम् ॥
पीतामैकध्यमेतद्धि सद्यःस्नेहनमुच्यते ॥ १६ ॥
विवर्जयेत्स्नेहपानमजीर्णी तरुणज्वरी ॥
दुर्बलोऽरोचकी स्थूलो मूर्छार्त्रो मदपीडितः ॥ १७ ॥
छर्द्यर्दितस्तु तृषितः श्रान्तः पानक्लमान्वितः ॥
दत्तबस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः ॥
अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत् ॥ १८ ॥
रूक्षं पुरीषं ग्रथितं कृच्छ्रादन्नं विपच्यते ॥ १९ ॥
उरो विदह्यते वायुः कोष्ठादुपरि धावति ॥
दुर्वर्णो दुर्बलश्चैव रूक्षो भवति मानवः ॥ २० ॥
ग्लानिः सदनमङ्गानामधस्तात्स्नेहदर्शनम् ॥
सम्यक्स्निग्धस्य लिङ्गानि स्नेहद्वेषस्तथैव च ॥ २१ ॥
भक्तद्वेषोऽसुखास्रावो गुदे दाहः प्रवाहिका ॥
पुरीषातिप्रवृत्तिश्च भृशं स्निग्धस्य लक्षणम् ॥ २२ ॥