537
तप्तैः सैकतपाणिकांस्यवसनैः स्वेदोऽथ वाऽङ्गारकै-
र्लेपाद्वातहरैः सहाम्ललवणस्नेहैः सुखोष्णैस्तथा ॥
एवं तप्तपयोऽम्बुवातशमनक्वाथादिसेकादिभि-
स्तप्तैस्तोयनिषेचनोद्भवबृहद्बाष्पैः शिलाद्यैः क्रमात् ॥ १ ॥
तापोपनाहद्रवबाष्पपूर्वाः स्वेदास्ततोऽन्त्यप्रथमौ कफे स्तः ॥
वायौ द्वितीयः पवने कफे च पित्तोपसृष्टे विहितस्तृतीयः ॥ २ ॥