Adhikāra 82

654
वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः ॥
एते पादाश्चिकित्सायाः कर्मसाधनहेतवः ॥ १ ॥
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयंकृती ॥
लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः ॥ २ ॥
प्रत्युत्पन्नमतिर्धीमान्व्यवसायी विशारदः ॥
सत्यधर्मपरो यश्च स भिषक्पाद उच्यते ॥ ३ ॥
655
आयुष्मान्सत्त्ववान्साध्यो द्रव्यवानात्मवानपि ॥
उच्यते व्याधितः पादो वैद्यवाक्यकृदास्तिकः ॥ ४ ॥
प्रशस्तदेशसंभूतं प्रशस्तेऽहनि चोद्धृतम् ॥
अल्पमात्रं महावीर्यं गन्धवर्णरसान्वितम् ॥ ५ ॥
दोषघ्नमग्लानिकरमविकारि विपर्यये ॥
समीक्ष्य काले दत्तं च भेषजं पाद उच्यते ॥ ६ ॥
स्निग्धोऽजुगुप्सुर्बलवान्युक्तो व्याधितरक्षणे ॥
वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ॥ ७ ॥
स्वदेशे निचिता दोषा अन्यस्मिन्कोपमागताः ॥
बलवन्तस्तथा न स्युर्जलजा वा स्थलाहृताः ॥ ८ ॥
उचिते वर्तमानस्य नास्ति देशकृतं भयम् ॥
आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति ॥ ९ ॥
656
विकारेऽल्पे महत्कर्म क्रिया लघ्वी महागदे ॥
द्वयमेतदकौशल्यं कौशल्यं युक्तकर्मता ॥ १० ॥
क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत् ॥
पूर्वस्यां शान्तवेगायां न क्रियासंकरो मतः ॥ ११ ॥
657
गुणालाभेऽपि कर्तव्या विश्रामान्तरितक्रिया ॥
सैव सैवान्यथा तस्याः पूर्ववत्संकराद्भयम् ॥ १२ ॥
षड्भिः केचिदहोरात्रैः केचित्सप्तभिरेव च ॥
इच्छन्ति मुनयः प्रायो रसस्य परिवर्तनम् ॥ १३ ॥
परिवृत्या रसस्यैव शान्तवेगा क्रिया मता ॥ १४ ॥
चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च ॥
सद्वैद्यनृपतिद्वेष्टा तद्द्विष्टः शोकपीडितः ॥
यादृच्छिको मुमूर्षुश्च विहीनः करणैश्च यः ॥ १५ ॥
वैरी वैद्यविदग्धश्च श्रद्धाहीनः सुशङ्कितः ॥
भिषजामविधेयश्च नोपक्रम्या भिषग्वरैः ॥ १६ ॥
एतानुपाचरेद्वैद्यो बहून्दोषानवाप्नुयात् ॥
एभ्योऽन्ये समुपक्रम्या नराः सर्वैरुपक्रमैः ॥ १७ ॥
658
चिकित्सितं शरीरं यो न निष्क्रीणाति दुर्मतिः ॥
स यत्करोति सुकृतं तत्सर्वं भिषगश्नुते ॥ १८ ॥
नैव कुर्वीत लोभेन चिकित्सापण्यविक्रयम् ॥
ईश्वराणां वसुमतां लिप्सेतार्थं तु वृत्तये ॥ १९ ॥
गुञ्जाभिः सप्तभिर्माषः शाणो माषचतुष्टयम् ॥
द्वौ शाणौ वटकः कोलस्तौ द्वौ कर्ष उदुम्बरः ॥ २० ॥
अक्षं पाणितलं ज्ञेयं सुवर्णं कवलग्रहः ॥
पिचुर्बिडालपदकं शुक्तिः पाणितलद्वयम् ॥ २१ ॥
तद्द्वयेन पलं मुष्टिः प्रकुञ्चो बिल्वमुच्यते ॥
द्वे पले प्रसृतं विद्यात्तद्द्वयं कुडवोऽञ्जलिः ॥ २२ ॥
मानिकाऽष्टपलं ते द्वे प्रस्थस्तस्माच्चतुर्गुणम् ॥
आढकं कंसपात्रे च चतुर्भिर्द्रोण उच्यते ॥ २३ ॥
तत्पर्याया घटोन्माननल्वणार्मणसूर्पकाः ॥
तुला पलशतं ताभिर्विंशत्या भार उच्यते ॥ २४ ॥
659
शुष्कद्रव्येष्विदं मानं द्विगुणं तु द्रवार्द्रयोः ॥
ज्ञातव्यं कुडवादूर्ध्वं प्रस्थादिश्रुतमानतः ॥ २५ ॥
द्वैगुण्यं न तुलामान इति मानविदो विदुः ॥ २६ ॥
गोणी द्रोणाढकप्रस्थाः कुडवश्च पलं पिचुः ॥
शाणको माषकश्चैव यथापूर्वं चतुर्गुणाः ॥ २७ ॥
660

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

661

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

662

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

663

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

664

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

665
सम्यक्प्रयोगं सर्वेषां सिद्धिराख्याति कर्मणाम् ॥
सिद्धिराख्याति सर्वैश्च गुणैर्युक्तं भिषक्तमम् ॥ २८ ॥
इति विविधमुनीनां वाक्यमालोक्य यत्ना-
त्स्वमतिपरिमितैर्विख्यातिमद्भिः प्रयोगैः ॥
ग्रथित इह मयाऽयं संग्रहो वृन्दनाम्ना
सपदि स हि लिखित्वा सिद्धयोगः समाप्तः ॥ २९ ॥