Adhikāra 7

पारसीययवानी पीता पर्युषितवारिणा प्रातः ॥
गुडपूर्वा कृमिजालं कोष्ठगतं पातयत्याशु ॥ १ ॥
पारिभद्रकपत्रोत्थं रसं क्षौद्रयुतं पिबेत् ॥
कम्बुकस्य रसं वाऽपि पत्तूरस्याथवा रसम् ॥ २ ॥
121
दीपनीयमन्नमण्डं विडङ्गं व्योषसंयुतम् ॥
पाययेत्कृमिनाशाय अग्निं च कुरुते भृशम् ॥ ३ ॥
लिह्याद्वाऽश्वशकृच्चूर्णं विडङ्गं वा समाक्षिकम् ॥
विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन च ॥
तक्रसिद्धा यवागूः स्यात्कृमिघ्नी ससुवर्चिका ॥ ४ ॥
मुस्ताखुपर्णीफलदारुशिग्रुक्वाथः सकृष्णाकृमिशत्रुकल्कः ॥
मार्गद्वयेनापि चिरप्रवृत्तान्कृमीन्निहन्यात्कृमिजांश्च रोगान् ॥ ५ ॥
आखुपर्णीदलैः पिष्टैः पिष्टकेन च पूलिकाम् ॥
जग्ध्वा सौवीरकं चानु पिबेत्कृमिहरं परम् ॥ ६ ॥
पलाशबीजस्वरसं पिबेद्वा क्षौद्रसंयुतम् ॥
पिबेत्तद्बीजकल्कं वा तक्रेण कृमिनाशनम् ॥ ७ ॥
122
सुरसादिगणं वाऽपि सर्वथैवोपयोजयेत् ॥ ८ ॥
त्रिफला त्रिवृता दन्ती वचा कम्पिल्लकं तथा ॥
सिद्धमेभिर्गवां मूत्रे सर्पिः कृमिविनाशनम् ॥ ९ ॥
त्रिफलायास्त्रयः प्रस्था विडङ्गप्रस्थ एव च ॥
दीपनं दशमूलं च लाभतस्तूपपादयेत् ॥ १० ॥
पादशेषजलद्रोणे शृते सर्पिर्विपाचयेत् ॥
प्रस्थोन्मितं सिन्धुयुतं तत्पेयं कृमिनाशनम् ॥ ११ ॥
विडङ्गघृतमित्येतल्लेह्यं शर्करया सह ॥
सर्वान्कृमीन्प्रणुदति मुक्तं वज्रमिवासुरान् ॥ १२ ॥
रसेन्द्रेण समायुक्तो रसो धत्तूरपत्रजः ॥
ताम्बूलपत्रजो वाऽथ लेपनं यौकनाशनम् ॥ १३ ॥
क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति ॥
समासतोऽम्लान्मधुरान्हिमांश्च कृमीञ्जिघांसुः परिवर्जयेच्च ॥ १४ ॥