Adhikāra 15

आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात् ॥
प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि ॥ १ ॥
170
हन्यात्क्षीरोदकं पीतं छर्दिं पवनसंभवाम् ॥
ससैन्धवं पिबेत्सर्पिर्वातच्छर्दिनिवारणम् ॥ २ ॥
मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः ॥
यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत् ॥ ३ ॥
पित्तात्मिकायामनुलोमनार्थं द्राक्षाविदारीक्षुरसैस्त्रिवृत्स्यात् ॥
कफाशयस्थं त्वतिमात्रवृद्धं पित्तं हरेत्स्वादुभिरूर्ध्वमेव ॥ ४ ॥
शुद्धस्य काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वाऽपि पेयाम् ॥
प्रदापयेन्मुद्गरसेन वाऽपि शाल्योदनं जाङ्गलजै रसैर्वा ॥ ५ ॥
171
चन्दनेनाक्षमात्रेण संयोज्याऽऽमलकीरसम् ॥
पिबेन्माक्षिकसंयुक्तं छर्दिस्तेन निवर्तते ॥ ६ ॥
कषायो भृष्टमुद्गस्य सलाजमधुशर्करः ॥
छर्द्यतीसारतृड्दाहज्वरघ्नः संप्रकाशितः ॥ ७ ॥
हरीतकीनां चूर्णं च लिह्यान्माक्षिकसंयुतम् ॥
अधोभागीकृते दोषे छर्दिः क्षिप्रं निवर्तते ॥ ८ ॥
क्वाथः पर्पटजः पीतः सक्षौद्रश्छर्दिनाशनः ॥
गुडूचीत्रिफलारिष्टपटोलीक्वथितं जलम् ॥
सक्षौद्रं शर्करायुक्तं छर्दिपित्ताम्लनाशनम् ॥ ९ ॥
कफात्मिकायां वमनं प्रशस्तं सपिप्पलीसर्षपनिम्बतोयैः ॥
पिण्डीतकैः सैन्धवसंप्रयुक्तैर्बलाविरोधे कफशोधनार्थम् ॥ १० ॥
विडङ्गत्रिफलाविश्वचूर्णं मधुयुतं पिबेत् ॥
विडङ्गप्लवशुण्ठीनां हरेद्वा श्लेष्मजां वमिम् ॥ ११ ॥
सजाम्बवं वा बदरस्य चूर्णं मुस्तायुतां कर्कटकस्य शृङ्गीम् ॥
दुरालभां वा मधुसंप्रयुक्तां लिह्यात्कफच्छर्दिविनिग्रहार्थम् ॥ १२ ॥
तर्पणं मधुसंयुक्तं तिसृणामथ भेषजम् ॥ १३ ॥
172
कृतं गुडूच्या विधिवत्कषायं हिमसंज्ञितम् ॥
तिसृष्वपि पिबेत्पथ्यं माक्षिकेण समायुतम् ॥ १४ ॥
श्रीफलस्य गुडुच्या वा कषायो मधुसंयुतः ॥
पेयश्छर्दित्रये शीतो मूर्वा वा तण्डुलाम्बुना ॥ १५ ॥
जम्ब्वाम्रपल्लवगवेधुकधान्यसेव्य-
ह्रीवेरवारि मधुना पिबतोऽल्पमल्पम् ॥
छर्दिः प्रयाति शमनं त्रिसुगन्धियुक्ता
लीढा निहन्ति मधुना च दुरालभा वा ॥ १६ ॥
173
जात्या रसः कपित्थस्य पिप्पलीमरिचान्वितः ॥
क्षौद्रेण युक्तो लेहोऽयं निहन्ति च्छर्दिमुल्बणाम् ॥ १७ ॥
सौवर्चलमजाजी च शर्करा मरिचानि च ॥
युक्तोऽयं मधुना लेहः श्रेष्ठश्छर्दिनिबर्हणः ॥ १८ ॥
कोलमज्जाकणाधात्रीलाजाविश्वफलत्रिकम् ॥
श्यामाञ्जनाब्दकोलास्थि मक्षिकाविट्सितायुतम् ॥ १९ ॥
कणोषणकपित्थाम्बुत्वगेलापत्रकं समम् ॥
सक्षौद्राः पादिका लेहाः षडेते छर्दिनाशनाः ॥ २० ॥
कोलानलकमज्जानो मक्षिकाविट्सिता मधु ॥
सकृष्णातण्डुलो लेहश्छर्दिमाशु नियच्छति ॥ २१ ॥
लाजाकपित्थमधुमागधिकोषणानां
क्षौद्राभयात्रिकटुधान्यकजीरकाणाम् ॥
पथ्यामृतामरिचमाक्षिकपिप्पलीनां
लेहास्त्रयः सकलवम्यरुचिप्रशान्त्यै ॥ २२ ॥
एलालवङ्गगजकेसरकोलमज्जा-
लाजाप्रियङ्गुघनचन्दनपिप्पलीनाम् ॥
चूर्णानि माक्षिकसितासहितानि लीढ्वा
छर्दिं निहन्ति कफमारुतपित्तजाताम् ॥ २३ ॥
174
जम्ब्वाम्रपल्लवशृतं क्षौद्रं दत्त्वा सुशीतलं तोयम् ॥
लाजैरवचूर्ण्य पिबेच्छर्द्यतिसारे परं सिद्धम् ॥ २४ ॥
पवनघ्नीचिरोत्थासु प्रयोज्या छर्दिषु क्रिया ॥ २५ ॥
छर्दिप्रसङ्गात्पवनो ह्यवश्यं धातुक्षयाद्वृद्धिमुपैति तस्मात् ॥
चिरप्रवृत्तास्वनिलापहानि कार्याण्युपस्तम्भनबृंहणानि ॥ २६ ॥
सर्पिर्गुडः क्षीरविमिश्रितानि कल्याणकत्र्यूषणजीवनानि ॥
वृष्यास्तथा मांसरसाः सलेहाश्छर्दिं प्रसक्तां प्रशमं नयन्ति ॥ २७ ॥
वीभत्सजां हृद्यतमैर्दौहृदीं काङ्क्षितैः फलैः ॥
लङ्घनैर्वमनैश्चाऽऽमां सात्म्यैर्वा सात्म्यकोपजाम् ॥
कृमिहृद्रोगवच्चापि साधयेत्कृमिजां वमिम् ॥ २८ ॥
पद्मकामृतनिम्बानां धान्यचन्दनयोः पचेत् ॥
कल्के क्काथे च हविषः प्रस्थं छर्दिनिवारणम् ॥
तृष्णारुचिप्रशमनं दाहज्वरहरं परम् ॥ २९ ॥