Adhikāra 23

222
उत्तानमवगाढं च द्विविधं वातशोणितम् ॥
त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम् ॥ १ ॥
पिण्डतैलादिनाऽभ्यङ्गः पानं तिक्तादिसर्पिषः ॥
सेकलेपाद्यसृङ्मुक्तिः शोधनं चोभयोर्हितम् ॥
गाढे विशेषतः सर्पिष्पानं शुद्धिः शिराव्यधः ॥ २ ॥
गोधूमचूर्णं छगलीपयश्च सच्छागदुग्धो रुबुबीजकल्कः ॥
लेपे विधेयं शतधौतसर्पिः सेके पयश्चाऽऽविकमेव शस्तम् ॥ ३ ॥
223
अमृतानागरधान्यककर्षत्रितयेन पाचनं सिद्धम् ॥
जयति सरक्तं वातं सामं कुष्ठान्यशेषाणि ॥ ४ ॥
वत्सादन्युद्भवः क्वाथः पीतो गुग्गुलुसंयुतः ॥
समीरणसमायुक्तंशोणितं संप्रसाधयेत् ॥ ५ ॥
रास्नागुडूचीचतुरङ्गुलानामेरण्डतैलेन पिबेत्कषायम् ॥
क्रमेण सर्वाङ्गजमप्यशेषं जयेदसृग्वातभवं विकारम् ॥ ६ ॥
तिस्रोऽथ वा पञ्च गुडेन पथ्या जग्ध्वा पिबेच्छिन्नरुहाकषायम् ॥
तद्वातरक्तं शमयत्युदीर्णमाजानुसंभिन्नमपि ह्यवश्यम् ॥ ७ ॥
घृतेन वातं सगुडा विबन्धं पित्तं सिताढ्या मधुना कफं च ॥
वातास्रमुग्रं रुबुतैलमिश्रा शुण्ठ्याऽऽमवातं शमयेद्गुडूची ॥ ८ ॥
अमृता वातपित्तघ्नी कफमेदोविशोषिणी ॥
वातरक्तप्रशमनी कच्छूवीसर्पनाशिनी ॥ ९ ॥
गुडूच्याः स्वरसं कल्कं चूर्णं वा क्काथमेव वा ॥
प्रभूतकालमासेव्यं मुच्यते वातशोणितात् ॥ १० ॥
दशमूलीशृतं क्षीरं सद्यः शूलविनाशनम् ॥
परिषेकोऽनिलप्राये तद्वत्कोष्णेन सर्पिषा ॥ ११ ॥
पटोलकटुकाभीरुत्रिफलामृतसाधितम् ॥
क्वाथं पीत्वा जयेज्जन्तुः सदाहं वातशोणितम् ॥ १२ ॥
224
धात्रीमुस्ताहरिद्राणां कषायं वा कफाधिके ॥ १३ ॥
कोकिलाख्यामृताक्वाथे पिबेत्कृष्णां यथाबलम् ॥
पथ्यभोजी त्रिसप्ताहान्मुच्यते वातशोणितात् ॥ १४ ॥
कफरक्तप्रशमनं कच्छूवीसर्पनाशनम् ॥
वातरक्तप्रशमनं हृद्यं गुडघृतं स्मृतम् ॥ १५ ॥
सर्वेषु सगुडां पथ्यां गुडूचीक्वाथमेव वा ॥
पिप्पलीवर्धमानं वा शीलयेत्सुसमाहितः ॥ १६ ॥
त्रिफला निम्बमञ्जिष्ठा वचा कटुकरोहिणी ॥
वत्सादनी दारुनिशा कषायो नवकार्षिकः ॥ १७ ॥
वातरक्तं तथा कुष्ठं पामानं रक्तमण्डलम् ॥
कृच्छ्रं कपालिकाकुष्ठं पानादेवापकर्षति ॥ १८ ॥
कर्षादौ तु पलं यावद्दद्यात्षोडशिकं जलम् ॥
ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत् ॥ १९ ॥
लाङ्गल्यास्त्वमृतसमं कन्दमुद्धृत्य यत्नतः ॥
योजयेत्त्रिफललोहरजस्त्रिकटुकैः सह ॥ २० ॥
गुग्गुल्वमृतवल्लीभिर्द्राक्षालुङ्गरसेन वा ॥
त्रिफलाया रसैर्युक्ता गुटिकाः कोलसंमिताः ॥
भक्षयेन्मधुनाऽऽलोड्य शृणु कुर्वन्ति यत्फलम् ॥ २१ ॥
पादस्फोटं महाघोरं सर्वाङ्गस्फोटनं च यत् ॥
तत्सर्वं नाशयत्याशु असाध्यं चैव शोणितम् ॥ २२ ॥
225
गुडूचीक्वाथकल्काभ्यां सपयस्कं घृतं शृतम् ॥
हन्ति वातं तथा रक्तं कुष्ठं जयति दुस्तरम् ॥ २३ ॥
एकद्वित्रिद्रवैर्द्रव्यं द्रवं कुर्याच्चतुर्गुणम् ॥
क्षीरं स्नेहसमं दद्यात्क्षीरात्तोयं चतुर्गुणम् ॥ २४ ॥
शतावरीकल्कगर्भं रसात्तस्माच्चतुर्गुणम् ॥
क्षीरतुल्यं घृतं पक्वं वातशोणितनाशनम् ॥ २५ ॥
बलाकषायकल्काभ्यां तैलं क्षीरचतुर्गुणम् ॥
दशपाकं भवेदेतद्वातासृग्वातपित्तजित् ॥ २६ ॥
धन्यं पुंसवनं चैव नराणां शुक्रवर्धनम् ॥
रेतोयोनिविकारघ्नमेतद्वातविकारनुत् ॥ २७ ॥
226
सारिवासर्जमञ्जिष्ठायष्टीसिक्थैः पयोन्वितम् ॥
तैलं पक्वं प्रयोक्तव्यं पिण्डाख्यं वातशोणिते ॥ २८ ॥
सारिवासर्जयष्ट्याह्वैर्मधूच्छिष्टैः पयोन्वितैः ॥
साध्यमेरण्डतैलं वा वातरक्तरुजापहम् ॥ २९ ॥
समधूच्छिष्टमञ्जिष्ठं ससर्जरससारिवम् ॥
पिण्डतैलमिति ख्यातं वातरक्तरुजापम् ॥ ३० ॥
शुद्धां पचेन्नागबलातुलां तु जलार्मणे पादकषायशिष्टाम् ॥
विस्राव्य तैलाढकमत्र दद्यादजापयस्तैलविमिश्रितं तु ॥ ३१ ॥
नतस्य यष्टीमधुकस्य कल्कं पृथक्पृथक्पञ्चपलं विपक्वम् ॥
तद्वातरक्तं शमयत्युदीर्णं बस्तिप्रदानेन हि सप्तरात्रात् ॥ ३२ ॥
पीतं दशाहेन करोत्यरोगं तैलोत्तमं ह्यश्विमतं प्रदिष्टम् ॥ ३३ ॥
वरमहिषलोचनोदरसंनिभवर्णस्य गुग्गुलोः प्रस्थम् ॥
प्रक्षिप्य तोयराशौ त्रिफलां च यथोक्तपरिमाणाम् ॥ ३४ ॥
द्वात्रिंशच्छिन्नरुहापलानि देयानि यत्नेन ॥
विपचेत्तदप्रमत्तो दर्व्या संघट्टयन्मुहुर्यावत् ॥ ३५ ॥
अर्धक्षपितं तोयं जातं ज्वलनस्य संपर्कात् ॥
अवतार्य वस्त्रपूतं पुनरपि संपादयेदयःपात्रे ॥ ३६ ॥
सान्द्रीभूते तस्मिन्नवतार्य हिमोपलप्रख्ये ॥
त्रिफलाचूर्णार्धपलं त्रिकटोश्चूर्णं षडक्षपरिमाणम् ॥ ३७ ॥
227
कृमिरिपुचूर्णार्धपलं कर्षं कर्षं त्रिवृद्दन्त्योः ॥
पलमेकं तु गुडूच्या दत्त्वा संचूर्ण्य यत्नेन ॥ ३८ ॥
उपयुज्य चानुपानं यूषं तोयं सुगन्धिसलिलेन ॥
इच्छाहारविहारी भेषजमुपयुज्य सर्वकालमिदम् ॥ ३९ ॥
तनुरोधि वातशोणितमेकजमथ द्वंद्वजं चिरोत्थं च ॥
जयति स्रुतं परिशुष्कं स्फुटितं चाऽऽजानु यच्चापि ॥ ४० ॥
व्रणकासकुष्ठगुल्मश्वयथूदरपाण्डुरोगमेहांश्च ॥
मन्दाग्निं च विबन्धं प्रमेहपिटिकाश्च नाशयत्याशु ॥ ४१ ॥
सततं निषेव्यमाणः कालवशाद्धन्ति सर्वगदान् ॥
अभिभूय जरादोषं प्रयाति कैशोरकं रूपम् ॥ ४२ ॥
प्रस्थमेकं गुडूच्याश्च अर्धप्रस्थं तु गुग्गुलोः ॥
प्रत्येकं त्रिफलायाश्च तत्प्रमाणं विनिर्दिशेत् ॥ ४३ ॥
228
सर्वमेकत्र संक्षुद्य क्वाथयेन्नल्वणेऽम्भसि ॥
पादशेषं परिस्राव्य पुनरग्नावधिश्रयेत् ॥ ४४ ॥
तावत्पचेत्कषायं तं यावत्सान्द्रत्वमागतम् ॥
दन्तीव्योषविडङ्गानि गुडूची त्रिफलात्वचः ॥ ४५ ॥
ततश्चार्धपलं पूतं गृह्णीयाच्च प्रति प्रति ॥
कर्षं तु त्रिवृतायाश्च सर्वमेकत्र चूर्णयेत् ॥ ४६ ॥
तस्मिन्सुसिद्धं विज्ञाय कवोष्णे निक्षिपेद्बुधः ॥
ततश्चाग्निबलं ज्ञात्वा तस्य मात्रां प्रयोजयेत् ॥ ४७ ॥
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् ॥
दुष्टव्रणं प्रमेहांश्च आमवातं भगन्दरम् ॥ ४८ ॥
नाड्याढ्यवातं श्वयथुं सर्वानेतान्व्यपोहति ॥
अश्विभ्यां निर्मितः पूर्वममृताद्यो हि गुग्गुलुः ॥ ४९ ॥
अमृतायाश्च द्विप्रस्थं प्रस्थमेकं तु गुग्गुलोः ॥
प्रत्येकं त्रिफलाप्रस्थं वर्षाभूप्रस्थमेव च ॥ ५० ॥
सर्वमेकत्र संक्षुद्य क्वाथयेन्नल्वणेऽम्भसि ॥
पुनः पचेत्पादशेषं यावत्सान्द्रत्वमागतम् ॥ ५१ ॥
दन्तीचित्रकमूलानां कणाविश्वफलत्रिकम् ॥
गुडूचीत्वग्विडङ्गानां प्रत्येकार्धपलान्वितम् ॥ ५२ ॥
त्रिवृताकर्षमेकं तु सर्वमेकत्र चूर्णयेत् ॥
सिद्धमुष्णे क्षिपेत्तत्र अमृतागुग्गुलोः पलम् ॥ ५३ ॥
यथावह्निबलं खादेदम्लपित्ती विशेषतः ॥
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् ॥ ५४ ॥
दुष्टव्रणप्रमेहांश्च आमवातं भगन्दरम् ॥
नाड्याढ्यवातश्वयथून्हन्यात्सर्वामयानयम् ॥
अश्विभ्यां निर्मितो ह्येष अमृतागुग्गुलुः पुरा ॥ ५५ ॥
229
शतावरी नागबला वृद्धदारकमुच्चटा ॥ ५६ ॥
पुनर्नवाऽमृता कृष्णा वाजिगन्धा त्रिकण्टकम् ॥
पृथग्दश पलान्येषां श्लक्ष्णचूर्णानि कारयेत् ॥ ५७ ॥
तदर्धशर्करायुक्तं चूर्णं संमर्दयेद्बुधः ॥
स्थापयेत्सुदृढे भाण्डे मध्वर्धाढकसंयुतम् ॥ ५८ ॥
घृतप्रस्थेन चाऽऽलोड्य त्रिसुगन्धिपलेन च ॥
तं खादेदिष्टचेष्टान्नो यथावह्निबलं नरः ॥ ५९ ॥
वातरक्तं क्षयं कुष्ठं कासं पित्तसमुद्भवम् ॥
वातपित्तकफोत्थांश्च रोगानन्यांश्च तद्विधान् ॥ ६० ॥
हत्वा करोति पुरुषं वलीपलितवर्जितम् ॥
योगसारामृतो नाम लक्ष्मीकान्तिविवर्धनः ॥ ६१ ॥
दिवास्वप्नादि संतापं व्यायामं मैथुनं तथा ॥
कटूष्णगुर्वभिष्यन्दिलवणाम्लानि वर्जयेत् ॥ ६२ ॥
230

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.