Adhikāra 1

ध्यात्वा शिवं परमतत्त्वविचारवेद्यं चण्डीमभीष्टफलदां सगणं गणेशम् ॥
धन्वन्तरिं मुनिवरं मुनिसुश्रुतादीनात्रेयमुग्रतपसं मनसा प्रणम्य ॥ १ ॥
2
नानामतप्रथितदृष्टफलप्रयोगैः प्रस्ताववाक्यसहितैरिह सिद्धयोगः ॥
वृन्देन मन्दमतिनाऽऽत्महितार्थिनाऽयं संलिख्यते गदविनिश्चयजक्रमेण ॥ २ ॥
रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ॥
ततः कर्म भिषक्पश्चाज्ज्ञानपूर्वं समाचरेत् ॥ ३ ॥
यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक् ॥
अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया ॥ ४ ॥
यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः ॥
देशकालविशेषज्ञस्तस्य सिद्धिरसंशयम् ॥ ५ ॥
आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः ॥
साध्यासाध्यविभागज्ञस्ततः कुर्याच्चिकित्सितम् ॥ ६ ॥
3
नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः ॥
अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् ॥ ७ ॥
विकारनामाकुशलो न जिह्वीयात्कथंचन ॥
न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः ॥ ८ ॥
स एव कुपितो दोषः समुत्थानविशेषतः ॥
स्थानान्तरगतश्चापि विकारान्कुरुते बहून् ॥ ९ ॥
4
दर्शनस्पर्शनप्रश्नैर्व्याधिज्ञानं त्रिधा मतम् ॥
आयुरादि दृशा स्पर्शाच्छीतादि प्रश्नतोऽपरम् ॥ १० ॥
कृच्छ्रोपायः सुखोपायो द्विविधः साध्य उच्यते ॥
असाध्यो द्विविधो ज्ञेयो याप्यो यश्चाप्रतिक्रियः ॥ ११ ॥
याप्याः केचित्प्रकृत्यैव साध्या याप्या उपेक्षया ॥
स्वभावाद्व्याधयोऽसाध्याः केचिद्याप्या उपेक्षिताः ॥ १२ ॥
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा ॥
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ॥ १३ ॥
5
जातमात्रश्चिकित्स्यस्तु नोपेक्ष्योऽल्पतया गदः ॥
वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ ॥ १४ ॥
निवृत्तोऽपि पुनर्व्याधिः स्वल्पेनाऽऽयाति हेतुना ॥
क्षीणे मार्गीकृते दोषे शेषः सूक्ष्म इवानलः ॥ १५ ॥
तस्मात्तमनुबध्नीयात्प्रयोगेणानपायिना ॥
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ॥ १६ ॥
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः ॥
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥ १७ ॥
कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे ॥
कर्मदोषोद्भवाश्चान्ये कर्मजास्तेष्वहेतुकाः ॥ १८ ॥
6
यथाशास्त्रं सुनिर्णीतो यथाव्याधि चिकित्सितः ॥
न शमं याति यो व्याधिः स ज्ञेयः कर्मजो बुधैः ॥
स्वल्पदोषो गरीयान्यः स ज्ञेयः कर्मदोषजः ॥ १९ ॥
कर्मक्षयात्कर्मकृतो दोषजः स्वशमौषधैः ॥
कर्मदोषोद्भवो याति कर्मदोषक्षयात्क्षयम् ॥ २० ॥
7
यथा विषं यथा शस्त्रं यथाऽग्निरशनिर्यथा ॥
तथौषधमविज्ञातं विज्ञातममृतं यथा ॥ २१ ॥
याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः ॥
सा चिकित्सा विकाराणां कर्म तद्भिषजां मतम् ॥ २२ ॥
8
उत्पद्यते हि साऽवस्था देशकालबलं प्रति ॥
यस्यां कार्यमकार्यं स्यात्कर्म कार्यं विवर्जितम् ॥ २३ ॥
स्वेदावरोधः संतापः सर्वांगग्रहणं तथा ॥
युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते ॥ २४ ॥
आमाशयस्थो हत्वाऽग्निं सामो मार्गान्पिधाय च ॥
विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥ २५ ॥
9

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

10
लङ्घनेन क्षयं नीते दोषे संधुक्षितेऽनले ॥
विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते ॥ २६ ॥
सद्यो भुक्तस्य संजाते ज्वरे सामे विशेषतः ॥
वमनं वमनार्हस्य शस्तमित्याह वाग्भटः ॥ २७ ॥
अनुत्क्लिष्टेषु दोषेषु मोहाद्यस्तरुणे वमेत् ॥
प्राप्नुयात्सोऽङ्गभङ्गादीन्हृद्रोगविषमज्वरान् ॥ २८ ॥
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् ॥
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ॥ २९ ॥
11
वमितं लङ्घयेत्प्राज्ञो लङ्घितं न तु वामयेत् ॥
वमनं क्लेशबाहुल्याद्धन्याल्लङ्घनकर्शितम् ॥ ३० ॥
अवेक्ष्य दोषं प्राणं च कार्यं स्यादपतर्पणम् ॥ ३१ ॥
तद्धि मारुतक्षुत्तृष्णामुखशोषभ्रमान्विते ॥
कार्यं न बाले वृद्धे वा न गर्भिण्यां न दुर्बले ॥
न तथाऽध्वश्रमक्रोधशोककामक्षयज्वरे ॥ ३२ ॥
12
बलाविरोधिना चैनं लङ्घनेनोपपादयेत् ॥
बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः ॥ ३३ ॥
वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे ॥
हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते ॥ ३४ ॥
स्वेदे जाते रुचौ वाऽपि क्षुत्पिपासासहोदये ॥
कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ॥ ३५ ॥
पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च ॥
क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः ॥ ३६ ॥
मनसः संभ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि ॥
देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ॥ ३७ ॥
13
विनाऽपि भेषजैर्व्याधिः पथ्यादेव निवर्तते ॥
न तु पथ्यविहीनस्य भेषजानां शतैरपि ॥ ३८ ॥
रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह ॥
यवाग्वोदनलाजाश्च ज्वरितानां ज्वरापहाः ॥ ३९ ॥
दीपनी पाचनी लघ्वी ज्वरार्तानां ज्वरापहा ॥
अन्नकाले हिता पेया यथास्वं पाचनैः कृता ॥ ४० ॥
14
दाहच्छर्द्यर्दितं क्षामं निरन्नं तृष्णयाऽन्वितम् ॥
शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ॥ ४१ ॥
श्रमोपवासानिलजे हितो नित्यं रसौदनः ॥ ४२ ॥
मुद्गयूषौदनश्चापि देयः कफसमुत्थिते ॥
स एव सितया युक्तः शीतः पित्तज्वरे हितः ॥ ४३ ॥
15
मुद्गामलकयूषस्तु वातपित्तात्मके हितः ॥
ह्रस्वमूलकयूषस्तु कफवातात्मके हितः ॥ ४४ ॥
निम्बकूलकयूषस्तु हितः पित्तकफात्मके ॥
यथास्वं पाचनैः सिद्धं वातपित्तकफात्मके ॥ ४५ ॥
लघुना पञ्चमूलेन पिप्पल्या सह धान्यया ॥
महत्या पञ्चमूल्या तु व्याघ्रीदुःस्पर्शगोक्षुरैः ॥ ४६ ॥
16
सिद्धानि भिषगन्नानि प्रयुञ्जीत यथाक्रमम् ॥
वातपित्ते श्लेष्मपित्ते कफवाते त्रिदोषजे ॥ ४७ ॥
क्वाथ्यद्रव्याञ्जलिं क्षुण्णं श्रपयित्वा जलाढके ॥
अर्धशृतेन तेनाथ यवाग्वाद्युपकल्पयेत् ॥ ४८ ॥
वृद्धवैद्याः पलं द्रव्यं ग्राहयन्त्याढकेऽम्भसि ॥
भेषजस्यातिबाहुल्यात्कदाचिदरुचिर्भवेत् ॥ ४९ ॥
यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यते ॥
कर्षमात्रं ततो द्रव्यं साधयेत्प्रास्थिकेऽम्भसि ॥
अर्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ ॥ ५० ॥
कर्षार्धं वा कणाशुण्ठ्योः कल्कद्रव्यस्य वा पलम् ॥ ५१ ॥
विनीय पाचयेद्युक्त्या वारि प्रस्थेन चापरान् ॥
यूषान्नरसकांश्चैव कल्पेनानेन साधयेत् ॥ ५२ ॥
17
कफवातज्वरे देयं जलमुष्णं पिपासवे ॥
18
पित्तमद्यविषोत्थेषु तिक्तकैः शृतशीतलम् ॥ ५३ ॥
मुस्तापर्पटकोशीरचन्दनोदीच्यनागरैः ॥
शृतशीतं जलं दद्यात्पिपासाज्वरशान्तये ॥ ५४ ॥
पादशिष्टः कषायः स्याद्यः षोडशगुणाम्भसा ॥
क्वथितोऽतः षडङ्गादिर्न निषिद्धो नवज्वरे ॥ ५५ ॥
19
अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम् ॥
धात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत् ॥ ५६ ॥
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ॥
अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽपि वा ॥ ५७ ॥
20
गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात्कथंचन ॥
न तु तस्याहितं भुक्तमायुषे वा सुखाय वा ॥ ५८ ॥
ज्वरितं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु ॥
श्लेष्मक्षयविवृद्धोष्मा बलवाननलस्तदा ॥ ५९ ॥
सातत्यात्स्वाद्वभावाच्च पथ्यं द्वेष्यत्वमागतम् ॥
कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत्पुनः ॥ ६० ॥
परिषेकान्प्रदेहांश्च स्नेहान्संशोधनानि च ॥
दिवास्वप्नं व्यवायं च व्यायामं शिशिरं जलम् ॥
क्रोधप्रवातभोज्यानि वर्जयेत्तरुणज्वरी ॥ ६१ ॥
21
शोषच्छर्दिर्मदो मूर्छा भ्रमस्तृष्णा ह्यरोचकः ॥
प्राप्नोत्युपद्रवानेतान्परिषेकादिसेवनात् ॥ ६२ ॥
आसप्तरात्रात्तरुणं ज्वरमाहुर्मनीषिणः ॥
मध्यं चतुर्दशाहं तु पुराणमत उत्तरम् ॥ ६३ ॥
मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च ॥
पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम् ॥ ६४ ॥
22
दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम् ॥ ६५ ॥
वातिकः सप्तरात्रेण दशरात्रेण पैत्तिकः ॥
श्लैष्मिको द्वादशाहेन ज्वरः पाकं नियच्छति ॥ ६६ ॥
पक्वो ह्यनिर्हृतो दोषो देहे तिष्ठन्महात्ययम् ॥
विषमं वा ज्वरं कुर्याद्बलव्यापदमेव वा ॥ ६७ ॥
सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम् ॥
दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः ॥ ६८ ॥
23

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

24
न कषायं प्रशंसन्ति नराणां तरुणज्वरे ॥
कषायेणाऽऽकुलीभूता दोषा जेतुं सुदुस्तराः ॥ ६९ ॥
न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते ॥
यः कषायः कषायः स्यात्स वर्ज्यस्तरुणज्वरे ॥ ७० ॥
दोषा बद्धाः कषायेण स्तम्भित्वात्तरुणज्वरे ॥
स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम् ॥ ७१ ॥
25
पाययेद्दोषहरणं मोहादामज्वरे तु यः ॥
स सुप्तं कृष्णसर्पं तु कराग्रेण परामृशेत् ॥ ७२ ॥
पीताम्बुर्लङ्घितः क्षीणोऽजीर्णी भुक्तः पिपासितः ॥
न पिबेदौषधं जन्तुः संशोधनमथेतरत् ॥ ७३ ॥
रोगे शोधनसाध्ये तु यं विद्याद्दोषदुर्बलम् ॥
तं समीक्ष्य भिषक्कुर्याद्दोषप्रच्यावनं मृदु ॥ ७४ ॥
चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम् ॥
अव्यापद्दुर्बलस्यापि शोधनं हि तदा भवेत् ॥ ७५ ॥
द्विचत्वारिंशता माषैरष्टादशनिबद्धकैः ॥
पलं द्वादशबद्धं स्याद्गुञ्जाषट्कसमन्वितैः ॥ ७६ ॥
26
उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे ॥
जघन्यस्य पलार्धेन स्नेहक्वाथ्यौषधेषु च ॥ ७७ ॥
क्वाथ्यद्रव्यपले वारि द्विरष्टगुणभिष्यते ॥
चतुर्भागावशिष्टं तु पेयं पलचतुष्टयम् ॥ ७८ ॥
27
दीप्तानलं महाकायं पाययन्त्यञ्जलिं जलम् ॥
अन्ये त्वर्धं परित्यज्य प्रसृतिं तु चिकित्सकाः ॥ ७९ ॥
क्वाथत्यागमनिच्छन्तस्त्वष्टभागावशेषितम् ॥
पारंपर्योपदेशेन वृद्धवैद्याः पलद्वयम् ॥ ८० ॥
पाययेदातुरं सामं पाचनं सप्तमे दिने ॥
शमनेनाथवा दृष्ट्वा निरामं तमुपाचरेत् ॥ ८१ ॥
नागरं देवकाष्ठं च धान्यकं बृहतीद्वयम् ॥
दद्यात्पाचनकं पूर्वं सर्वज्वरेषु पाचनम् ॥ ८२ ॥
वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तदामयमसंशयमाशु चैव ॥
तद्बालवृद्धवनितामृदवोऽथ पीत्वा ग्लानिं परां समुपयान्ति बलक्षयं च ॥ ८३ ॥
अनुलोमानिलः स्वास्थ्यं क्षुत्तृष्णा सुमनस्कता ॥
लघुत्वमिन्द्रियोद्गारशुद्धिर्जीर्णौषधाकृतिः ॥ ८४ ॥
28
क्लमो दाहोऽङ्गसदनं भ्रमो मूर्छा शिरोरुजा ॥
अरतिर्बलहानिश्च सावशेषौषधाकृतिः ॥ ८५ ॥
औषधशेषे भुक्तं पीतं च तथौषधं हि शेषेऽन्ने ॥
न करोति गदोपशमं प्रकोपयत्यन्यरोगांश्च ॥ ८६ ॥
शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वदनान्निरेति ॥
प्राग्भक्तसेवितमथौषधमेतदेव दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः ॥ ८७ ॥
बिल्वादिपञ्चमूलाम्बु पाचनं वातिके ज्वरे ॥
न शोधयति यद्दोषान्समान्नोदीरयत्यपि ॥
समी करोति यत्क्रुद्धांस्तत्संशमनमुच्यते ॥ ८८ ॥
29
किराताब्दामृतोदीच्यबृहतीद्वयगोक्षुरैः ॥
सस्थिराकलशीविश्वैः क्वाथो वातज्वरापहः ॥ ८९ ॥
पिप्पलीसारिवाद्राक्षाशतपुष्पाहरेणुभिः ॥
कृतः कषायः सगुडो हन्याच्छ्वसनजं ज्वरम् ॥ ९० ॥
30
गुडूचीसारिवाद्राक्षाशतपुष्पापुनर्नवाः ॥
सगुडोऽयं कषायः स्याद्वातज्वरविनाशनः ॥ ९१ ॥
द्राक्षागुडूचीकाश्मर्यत्रायमाणाः ससारिवाः ॥
निष्क्वाथ्य सगुडं क्वाथं पिबेद्वातज्वरापहम् ॥ ९२ ॥
सक्षौद्रं पाचनं पैत्ते तिक्ताब्देन्द्रयवैः कृतम् ॥ ९३ ॥
लोध्रोत्पलामृतापद्मसारिवाणां सशर्करः ॥
क्वाथः पित्तज्वरं हन्यादथवा पर्पटोद्भवः ॥ ९४ ॥
दुरालभापर्पटकप्रियङ्गूभूनिम्बवासाकटुरोहिणीनाम् ॥
जलं पिबेच्छर्करयाऽवगाढं तृष्णास्रपित्तज्वरदाहयुक्तः ॥ ९५ ॥
31
पटोलयवनिष्क्वाथो मधुना मधुरीकृतः ॥
तीव्रपित्तज्वरामर्दी पानात्तृड्दाहनाशनः ॥ ९६ ॥
एकः पर्पटकः श्रेष्ठः पित्तज्वरनिवर्हणः ॥
किं पुनर्यदि युज्येत चन्दनोदीच्यनागरैः ॥ ९७ ॥
विश्वाम्बुपर्पटोशीरघनचन्दनसाधितम् ॥
दद्यात्सुशीतलं वारि तृट्छर्दिज्वरदाहनुत् ॥ ९८ ॥
पर्पटामृतधात्रीणां क्वाथः पित्तज्वरं जयेत् ॥
द्राक्षारग्वधयोश्चापि काश्मर्यस्याथवा पुनः ॥ ९९ ॥
द्राक्षाभयापर्पटकाब्दतिक्ताक्वाथं सशम्याकफलं विदध्यात् ॥
प्रलापमूर्छाभ्रमदाहशोषतृष्णान्विते पित्तभवे ज्वरे च ॥ १०० ॥
32
पर्युषितं धान्यजलं प्रातः पीतं सशर्करं पुंसाम् ॥
अन्तर्दाहं शमयेत्प्रवृद्धमपि तत्क्षणादेव ॥ १०१ ॥
अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैर्दिहेत् ॥
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य च ॥ १०२ ॥
विदारी दाडिमं लोध्रं दधित्थं बीजपूरकम् ॥
एभिः प्रदिह्यान्मूर्धानं तृड्दाहार्तस्य देहिनः ॥ १०३ ॥
उत्तानसुप्तस्य गभीरताम्रकांस्यादिपात्रं प्रणिधाय नाभौ ॥
तत्राम्बुधारा बहला पतन्ती निहन्ति दाहं त्वरितं सुशीता ॥ १०४ ॥
वाप्यः कमलहासिन्यो दलयन्त्रगृहाः शुभाः ॥
नार्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः ॥ १०५ ॥
33
हर्म्ये शुभ्राभ्रसंकाशे शशाङ्ककरशीतले ॥
मलयोदकसिक्ते वा स्वप्यात्पित्तज्वरी नरः ॥ १०६ ॥
जिह्वातालुगलक्लोमशोषे मूर्ध्नि तु दापयेत् ॥
केसरं मातुलुङ्गस्य मधुसैन्धवसंयुतम् ॥ १०७ ॥
34
पिप्पल्यादिकषायं तु पाचनं कफजे ज्वरे ॥
कुष्ठमिन्द्रयवं मूर्वा पटोलं चापि साधितम् ॥
पिबेन्मरिचसंयुक्तं सक्षौद्रं श्लैष्मिके ज्वरे ॥ १०८ ॥
त्रिफला पटोलवासा छिन्नरुहा तिक्तरोहिणी च षड्ग्रन्था ॥
मधुना श्लेष्मसमुत्थे दशमूलीवासकस्य वा क्वाथः ॥ १०९ ॥
मात्राक्षौद्रघृतादीनां क्वाथस्नेहेषु चूर्णवत् ॥ ११० ॥
आमलक्यभया कृष्णा चित्रकश्चेत्ययं गणः ॥
सर्वज्वरकफातङ्कभेदी दीपनपाचनः ॥ १११ ॥
35
कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह ॥
श्वासकासज्वरहरः श्रेष्ठो लेहः कफान्तकृत् ॥ ११२ ॥
क्षौद्रोपकुल्यासंयोगः कासश्वासज्वरापहः ॥
प्लीहानं हन्ति हिक्कां च बालानां तु प्रशस्यते ॥ ११३ ॥
कर्षश्चूर्णस्य कल्कस्य गुटिकानां तु सर्वशः ॥
द्रवशुक्त्याऽवलेढव्यः पातव्यश्च चतुर्द्रवः ॥ ११४ ॥
मात्राया नास्त्यवस्थानं दोषमग्निं बलं वयः ॥
व्याधिं द्रव्यं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत् ॥ ११५ ॥
संसृष्टदोषेषु हितं संसृष्टमथ पाचनम् ॥
त्रिफलाशाल्मलीरास्नाराजवृक्षाटरूषकैः ॥
शृतमम्बु हरेत्तूर्णं वातपित्तोद्भवं ज्वरम् ॥ ११६ ॥
विश्वामृताब्दभूनिम्बैः पञ्चमूलीसामन्वितैः ॥
कृतः कषायो हन्त्याशु वातपित्तोद्भवं ज्वरम् ॥ १७ ॥
36
किराततिक्तममृतां द्राक्षामामलकीं शठीम् ॥
निष्क्वाथ्य पित्तानिलजे तत्क्वाथं सगुडं पिबेत् ॥ ११८ ॥
निदिग्धिकाबलारास्नात्रायमाणामृतायुतैः ॥
मसूरविदलैः क्वाथो वातपित्तज्वरं जयेत् ॥ ११९ ॥
गुडूची पर्पटं मुस्तं किरातं विश्वभेषजम् ॥
वातपित्तज्वरे देयं पञ्चभद्रमिदं शुभम् ॥ १२० ॥
किरातं नागरं मुस्तं गुडूचीं च कफाधिके ॥
पाठोदीच्यमृणालैश्च सह पित्ताधिके पिबेत् ॥ १२१ ॥
कण्टकार्यमृताभार्ङ्गीनागरेन्द्रयवासकम् ॥
भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणी ॥ १२२ ॥
कषायं पाययेदेनं पित्तश्लेष्मज्वरापहम् ॥
दाहतृष्णाज्वरच्छर्दिकासहृत्पार्श्वशूलनुत् ॥ १२३ ॥
गुडूचीनिम्बधान्याकं चन्दनं पद्मकानि च ॥ १२४ ॥
एष सर्वज्वरान्हन्ति गुडूच्यादिस्तु दीपनः ॥
हृल्लासारोचकच्छर्दिःपिपासादाहनाशनः ॥ १२५ ॥
37
पटोलं चन्दनं मूर्वापाठातिक्तामृतागणः ॥
पित्तश्लेष्मज्वरच्छर्दिदाहकण्डूविषापहः ॥ १२६ ॥
सपत्रपुष्पवासाया रसः क्षौद्रसितायुतः ॥
कफपित्तज्वरं हन्ति सासृक्पित्तं सकामलम् ॥ १२७ ॥
सशर्करामक्षमात्रां कटुकामुष्णवारिणा ॥
पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम् ॥ १२८ ॥
पटोलं पिचुमन्दं च त्रिफलां मधुकं बलाम् ॥
साधितोऽयं कषायः स्यात्पित्तश्लेष्मोद्भवे ज्वरे ॥ १२९ ॥
दीपनं कफविच्छेदि पित्तवातानुलोमनम् ॥
ज्वरघ्नं पाचनं भेदि शृतं धान्यपटोलयोः ॥ १३० ॥
खर्परभृष्टपटस्थितकाञ्जिकसिक्तो हि वालुकास्वेदः ॥
शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन् ॥ १३१ ॥
स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम् ॥
हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति ॥ १३२ ॥
मातुलुङ्गफलकेसरो धृतः सिन्धुजन्ममरिचान्वितो मुखे ॥
हन्ति वातकफरोगमास्यगं शोषमाशुजडतामरोचकम् ॥ १३३ ॥
38
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ॥
दीपनीयः स्मृतो वर्गः कफानिलगदापहः ॥ १३४ ॥
आरग्वधग्रन्थिकमुस्ततिक्ताहरीतकीभिः क्वथितः कषायः ॥
सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च ॥ १३५ ॥
पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम् ॥
वातश्लेष्मविकारघ्नं प्लीहघ्नं ज्वरनाशनम् ॥ १३६ ॥
मुस्तपर्पटदुस्पर्शगुडूचीविश्वभेषजम् ॥
कफवातारुचिच्छर्दिदाहशोषज्वरापहम् ॥ १३७ ॥
क्षुद्रामृतानागरपुष्कराह्वयैः कृतः कषायः कफमारुतोत्तरे ॥
सश्वासकासारुचिपार्श्वरुक्करे ज्वरे त्रिदोषप्रभवेऽपि शस्यते ॥ १३८ ॥
दशमूलीरसः पेयः कणायुक्तः कफानिले ॥
अविपाकेऽतिनिद्रायां पार्श्वरुक्श्वासकासके ॥ १३९ ॥
श्लेष्मनिग्रहमेवाऽऽदौ कुर्याद्व्याधौ त्रिदोषजे ॥
निरस्ते श्लेष्मणि ह्यस्य स्रोतःसूद्धाटितेषु च ॥
लाघवं जायते सद्यस्तन्द्रा चैवोपशाम्यति ॥ १४० ॥
39
दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुधः ॥
गृह्णीयात्तलमप्राप्तं तथाऽभिन्यासपीडितम् ॥ १४१ ॥
40
निद्रोपेतमभिन्यासं क्षीणं विद्याद्धतौजसम् ॥ १४२ ॥
लङ्घनं वालुकास्वेदो नस्यं निष्ठीवनं तथा ॥
अवलेहोऽञ्जनं चैव प्राक्प्रयोज्यं त्रिदोषजे ॥ १४३ ॥
त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा ॥
लङ्घनं संनिपातेषु कुर्यादारोग्यदर्शनात् ॥ १४४ ॥
दोषाणामेव सा शक्तिर्लङ्घने या सहिष्णुता ॥
न तु दोषक्षये कश्चित्सहते लङ्घनादिकम् ॥ १४५ ॥
कफपित्ते द्रवे धातू सहेते लङ्घनं महत् ॥
आमक्षयादूर्ध्वमपि वायुर्न सहते क्षणम् ॥ १४६ ॥
आर्द्रकस्वरसोपेतं सैन्धवं कटुकत्रयम् ॥
आकण्ठं धारयेदास्ये निष्ठीवेच्च पुनः पुनः ॥ १४७ ॥
तेनास्य हृद्गतः श्लेष्मा मन्यापार्श्वशिरोगलात् ॥
लीनोऽप्याकृष्यते शुष्को लाघवं चास्य जायते ॥ १४८ ॥
पर्वभेदो ज्वरो मूर्छा निद्राकासगलामयाः ॥
मुखाक्षिगौरवं जाड्यमुत्क्लेशश्चोपशाम्यति ॥ १४९ ॥
सकृद्द्वित्रिचतुः कुर्याद्दृष्ट्वा दोषबलाबलम् ॥
एतद्धि परमं प्राहुर्भेषजं संनिपातिनाम् ॥ १५० ॥
41
मातुलुङ्गार्द्रकरसं कोष्णं त्रिलवणान्वितम् ॥
अन्यद्वा सिद्धिविहितं नस्यं तीक्ष्णं प्रयोजयेत् ॥ १५१ ॥
तेन प्रभिद्यते श्लेष्मा प्रभिन्नश्च प्रसिच्यते ॥
शिरोत्दृदयकण्ठास्यपार्श्वरुक्चोपशाम्यति ॥ १५२ ॥
मधूकसारसिन्धूत्थवचोषणकणाः समाः ॥
श्लक्ष्णं पिष्ट्वाऽम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम् ॥ १५३ ॥
शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः ॥
अञ्जनं स्यात्प्रबोधाय सरसोनशिलालकैः ॥ १५४ ॥
कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी ॥
श्लक्ष्णं चूर्णीकृतं चैतन्मधुना सह लेहयेत् ॥ १५५ ॥
एषाऽवलेहिका हन्ति संनिपातं सुदारुणम् ॥
हिक्कां श्वासं च कासं च कण्ठरोधं नियच्छति ॥
एतद्योज्यं कफोद्रेके चूर्णमार्द्रकजै रसैः ॥ १५६ ॥
सर्वेषु संनिपातेषु न क्षौद्रमवचारयेत् ॥
शीतोपचारि क्षौद्रं स्याच्छीतं चात्र विरुध्यते ॥ १५७ ॥
42
क्रियाभिस्तुल्यरूपाभिः क्रियासांकर्यमिष्यते ॥
भिन्नरूपतया तास्तु तन्न कुर्वन्ति दूषणम् ॥ १५८ ॥
शस्तं सुलङ्घितस्याऽऽदौ विधाय कवलग्रहम् ॥
लाजसक्तुकपथ्यं स्यात्सैन्धवेनावचूर्णितम् ॥ १५९ ॥
रक्तपित्तहितत्वेन दाहज्वरहृतेस्तथा ॥
सक्तवः शीतवीर्याः स्युर्लाजपूर्वा हिता न ते ॥ १६० ॥
पाचनो दीपनो लाजमण्डस्तेनोष्ण इष्यते ॥ १६१ ॥
अतोऽयं दशमूलादिसाधितो भिषजां मतः ॥
तच्चेज्जीर्यत्यविघ्नेन ज्वरी जीवेत्तदा ध्रुवम् ॥ १६२ ॥
पञ्चमुष्टिकयूषेण त्रिकण्टककृतेन वा ॥
आ दोषशमनात्पथ्यं त्रिकण्टेनैव साधयेत् ॥ १६३ ॥
43
यवकोलकुलत्थानां मुद्गमूलकशुण्ठयोः ॥
एकैकं मुष्टिमाहृत्य पचेदष्टगुणे जले ॥ १६४ ॥
पञ्चमुष्टिक इत्येष वातपित्तकफाषहः ॥
शस्यते गुल्मशूले च श्वासे कासे क्षये ज्वरे ॥ १६५ ॥
पञ्चमूली किरातादिर्गणो योज्यस्त्रिदोषजे ॥
पित्तोत्कटे च मधुना कणया वा कफोत्कटे ॥ १६६ ॥
बिल्वस्योनाकगम्भारीपाटलीगणकारिका ॥
दीपनं श्लेष्मवातघ्नं पञ्चमूलमिदं महत् ॥ १६७ ॥
शालिपर्णी पृथक्पर्णी बृहतीद्वयगोक्षुरम् ॥
वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ॥ १६८ ॥
44
उभयं दशमूलं तु संनिपातज्वरापहम् ॥
कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते ॥
पिप्पलीचूर्णसंयुक्तं कण्ठहृद्ग्रहनाशनम् ॥ १६९ ॥
चिरज्वरे वातकफोल्बणे वा त्रिदोषजे वा दशमूलमिश्रः ॥
किराततिक्तादिगणः प्रयोज्यः शुद्ध्यर्थिने वा त्रिवृता विमिश्रः ॥ १७० ॥
दशमूली शठी शृङ्गी पौष्करं सदुरालभम् ॥
भार्गी कुटजबीजं च पटोलं कटुरोहिणी ॥ १७१ ॥
अष्टादशाङ्ग इत्येष संनिपातज्वरापहः ॥
कासहृद्ग्रहपार्श्वार्तिश्वासहिक्कावमीहरः ॥ १७२ ॥
भूनिम्बदारुदशमूलमहौषधाब्द-
तिक्तेन्द्रबीजधनिकेभकणाकषायः ॥
तन्द्राप्रलापकसनारुचिदाहमोह-
श्वासादियुक्तमखिलं ज्वरमाशु हन्ति ॥ १७३ ॥
द्राक्षाऽमृता शठी शृङ्गी मुस्तकं रक्तचन्दनम् ॥ १७४ ॥
नागरं कटुकं पाठा भूनिम्बं सदुरालभम् ॥
उशीरं पद्मकं धान्यं वालकं कण्टकारिका ॥ १७५ ॥
पुष्करं पिचुमन्दं चाष्टादशाङ्गमिदं शुभम् ॥
जीर्णज्वरारुचिश्वासकासश्वयथुनाशनम् ॥ १७६ ॥
कट्फलं पौष्करं शृङ्गी मुस्तकं कटुकं शठी ॥
समांशान्येकशो वाऽपि श्लक्ष्णचूर्णानि कारयेत् ॥ १७७ ॥
आर्द्रकस्वरसक्षौद्रं लिह्यात्कफविनाशनम् ॥
शूलानिलारुचिच्छर्दिकासश्वासक्षयापहम् ॥ १७८ ॥
45
मुस्तापर्पटकोशीरदेवदारुमहौषधम् ॥
त्रिफला धन्वयासश्च नीली कम्पिल्लकं त्रिवृत् ॥ १७९ ॥
किराततिक्तकं पाठा बला कटुकरोहिणी ॥
मधुकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते ॥ १८० ॥
अष्टादशाङ्गमुदितमेतद्वा संनिपातनुत् ॥
पित्तोत्तरे संनिपाते हितं चोक्तं मनीषिभिः ॥
मन्यास्तम्भ उरोघात उरःपार्श्वशिरोग्रहे ॥ १८१ ॥
बृहत्यौ पौष्करं भार्गी शठी शृङ्गी दुरालभा ॥
वत्सकस्य च बीजानि पटोलं कटुरोहिणी ॥ १८२ ॥
बृहत्यादिर्गणः प्रोक्तः संनिपातज्वरापहः ॥
कासादिषु च सर्वेषु हितः सोपद्रवेषु च ॥ १८३ ॥
शठी पुष्करमूलं च व्याघ्री शृङ्गी दुरालभा ॥
गुडूची नागरं पाठा किरातं कटुरोहिणी ॥ १८४ ॥
एष शठ्यादिको वर्गः संनिपातज्वरापहः ॥
कासहृद्ग्रहपार्श्वार्तिश्वासे तन्द्र्यां च शस्यते ॥ १८५ ॥
स्वेदोद्गमे भृष्टकुलत्थचूर्णनिपातनं शस्तमिति ब्रुवन्ति ॥ १८६ ॥
मृत्युश्च तस्मिन्बहुपिच्छिलत्वाच्छीतस्य जन्तोः परितः सरत्वात् ॥
स्वेदो ललाटे हिमवान्नरस्य शीतार्दितस्यैति सुपिच्छिलश्च ॥
कण्ठस्थितो यस्य न याति वक्षो नूनं यमस्यैति गृहं स मर्त्यः ॥ १८७ ॥
46
त्रिवृद्विशालाकटुकात्रिफलारग्वधैः कृतः ॥
सक्षारो भेदनः क्वाथः पेयः सर्वज्वरापहः ॥ १८८ ॥
पित्तकफानिलवृद्ध्या दशदिवसद्वादशाहसप्ताहात् ॥
हन्ति विमुञ्चति पुरुषं त्रिदोषजो धातुमलपाकात् ॥ १८९ ॥
सप्तमी द्विगुणा या तु नवम्येकादशी तथा ॥
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ॥ १९० ॥
47
संनिपाते प्रकम्पन्तं विलपन्तं च यो नरम् ॥
भोजयेत्पिशितैः सार्धं स वैद्याख्यां व्रजेत्कथम् ॥ १९१ ॥
संनिपाते प्रकम्पन्तं विलपन्तं च यो घृतम् ॥
भोजयेत्पाययेच्चापि तौ स्यातां च कथं शुभौ ॥ १९२ ॥
संनिपातेषु दाहार्तं यः सिञ्चेच्छीतवारिणा ॥
आतुरः स कथं जीवेद्भिषग्वा स कथं भवेत् ॥ १९३ ॥
संनिपातार्णवे मग्नं योऽभ्युद्धरति मानवम् ॥
कस्तेन न कृतो धर्मः कां तु पूजा न सोऽर्हति ॥ १९४ ॥
मृत्युना सह योद्धव्यं संनिपातं चिकित्सता ॥
यश्च तत्र भवेज्जेता स जेताऽऽमयसंकरे ॥ १९५ ॥
संनिपातान्तकर्णस्य शोफे महति दारुणे ॥ १९६ ॥
रक्तावसेचनैः पूर्वं सर्पिष्पानैश्च तं जयेत् ॥
प्रदेहैः कफपित्तघ्नैर्वमनैः कवलग्रहैः ॥ १९७ ॥
बीजपूरकमूलानि अग्निमन्थस्तथैव च ॥
सनागरं देवदारु रास्नाचित्रकपेषितम् ॥ १९८ ॥
48
प्रलेपनमिदं श्रेष्ठं गलशोथविनाशनम् ॥
कुलत्थं कट्फलं शुण्ठी कारवी च समांशकैः ॥
सुखोष्णैर्लेपनं कार्यं कर्णमूले मुहुर्मुहुः ॥ १९९ ॥
अभिचाराभिशापोत्थौ ज्वरौ होमादिना जयेत् ॥
दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीडजौ ॥ २०० ॥
ओषधीगन्धविषजौ विषपित्तप्रबाधनैः ॥
जयेत्कषायैर्मतिमान्सर्वगन्धकृतैर्भिषक् ॥ २०१ ॥
क्रोधजे पित्तजित्काम्या अर्थाः सद्वाक्यमेव च ॥ २०२ ॥
49
अश्वासनेष्टलाभेन वायोः प्रशमनेन च ॥
हर्षणैश्च शमं यान्ति कामशोकभयज्वराः ॥ २०३ ॥
भूतविद्यासमुद्दिष्टैर्बन्धावेशनपूजनैः ॥
जयेद्भूताभिषङ्गोत्थं मनःसान्त्वैश्च मानसम् ॥ २०४ ॥
निदिग्धिकानागरकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम् ॥
जीर्णज्वरारोचककासशूलश्वासाग्निमान्द्यार्दितपीनसेषु ॥ २०५ ॥
हन्त्यूर्ध्वजानयं प्रायः सायं तेनोपयुज्यते ॥
कासाजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत् ॥
जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली ॥ २०६ ॥
पिप्पलीचूर्णसंयुक्तः क्वाथश्छिन्नोद्भवोद्भवः ॥
जीर्णज्वरकफध्वंसी पञ्चमूलीकृतोऽथवा ॥ २०७ ॥
50
शिरोगौरवशूलघ्नमिन्द्रियप्रतिबोधनम् ॥
जीर्णज्वरे रुचिकरं दद्याच्छीर्षविरेचनम् ॥ २०८ ॥
संततं विषमं वाऽपि क्षीणस्य सुचिरोत्थितम् ॥
ज्वरं संभोजनैः पथ्यैर्ज्वरघ्नैः समुपाचरेत् ॥ २०९ ॥
तण्डुलीयकवास्तूकबालमूलकपर्पटान् ॥ २१० ॥
पटोलममृतापत्रं शाकार्थं दार्विपत्रिकाम् ॥
मांसार्थमेणलावादीन्दद्याद्युक्त्या विचक्षणः ॥ २११ ॥
ज्वरक्षीणस्य न हितं वमनं न विरेचनम् ॥
कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान् ॥ २१२ ॥
अरोचके गात्रसादे वैवर्ण्येऽङ्गमलादिषु ॥
शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः ॥ २१३ ॥
51
जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम् ॥
तदेव तरुणे पीतं विषवद्धन्ति मानवम् ॥ २१४ ॥
कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलात्सपीनसात् ॥
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः ॥ २१५ ॥
त्रिकण्टकवचाव्याघ्रीगुडनागरसाधितम् ॥
वर्चोमूत्रविबन्धघ्नं शोषज्वरहरं पयः ॥ २१६ ॥
द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम् ॥
क्षीरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः ॥ २१७ ॥
52
पञ्चमूलीशृतं क्षीरं चतुगुर्णजलेन वा ॥
शिंशपागण्डिकाभिर्वा धारोष्णं वा ज्वरापहम् ॥ २१८ ॥
कृशानां ज्वरमुक्तानां मिथ्याहारविहारिणाम् ॥
दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः ॥ २१९ ॥
सततान्येद्युष्कत्र्याख्यचतुर्थान्सप्रलेपकान् ॥
कफस्थानविभागेन यथासंख्यं करोति हि ॥ २२० ॥
अहोरात्रादहोरात्रात्स्थानात्स्थानं प्रपद्यते ॥
ततश्चाऽऽमाशयं प्राप्य दोषः कुर्याज्ज्वरं नृणाम् ॥ २२१ ॥
53
समौ वातकफौ यस्य हीनपित्तस्य देहिनः ॥
प्रायो रात्रौ ज्वरस्तस्य दिवा हीनकफस्य च ॥ २२२ ॥
प्रलेपकस्त्वविषमः प्रायः क्लेशाय शोषिणाम् ॥
कलिङ्गकाः पटोलस्य पत्रं च कटुरोहिणी ॥ २२३ ॥
पटोलं सारिवा मुस्तं पाठा कटुकरोहिणी ॥
निम्बं पटोलं त्रिफला मृद्वीकामुस्तवत्सकैः ॥ २२४ ॥
किराततिक्तममृता चन्दनं विश्वभेषजम् ॥
गुडूच्यामलकं मुस्तमर्धश्लोकसमापनाः ॥
कषायाः शमयन्त्याशु पञ्च पञ्चविधं ज्वरम् ॥ २२५ ॥
कषायाः संततादीनां पञ्चैते चरकादिना ॥
प्रलेपकं विहायैव तथा वातबलासकम् ॥ २२६ ॥
गद्यम्--कषायाः क्रमेण व्यतिक्रमेण वा क्रियन्ते ॥ २२७ ॥
अजाजी गुडसंयुक्ता विषमज्वरनाशिनी ॥
अग्निमान्द्यं जयेत्सम्यग्वातरोगांश्च नाशयेत् ॥ २२८ ॥
गुडप्रगाढां त्रिफलां पिबेद्वा विषमार्दितः ॥
गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम् ॥ २२९ ॥
54
मुस्तामलकगुडूचीविश्वौषधकण्टकारिकाक्वाथः ॥
पीतः सकणाचूर्णः समधुर्विषमज्वरं हन्ति ॥ २३० ॥
प्रातः प्रातः ससर्पिर्वा रसोनमुपकल्पयेत् ॥
पिप्पलीवर्धमानं वा पिबेत्क्षीररसाशनः ॥ २३१ ॥
दिनमेकं तु विश्रम्य प्रत्येति स तृतीयकः ॥
दिनद्वयं तु विश्रम्य प्रत्येति स चतुर्थकः ॥ २३२ ॥
कर्म साधारणं जह्यात्तृतीयकचतुर्थकौ ॥
अतस्तौ प्रतिकर्तव्यौ विशेषोदितभेषजैः ॥ २३३ ॥
55
महौषधामृतामुस्तचन्दनोशीरधान्यकैः ॥
क्वाथस्तृतीयकं हन्ति शर्करामधुयोजितः ॥ २३४ ॥
अपामार्गजटा कट्यां लोहितैः सप्ततन्तुभिः ॥
बद्धा वारे रवेस्तूर्णं ज्वरं हन्ति तृतीयकम् ॥ २३५ ॥
गङ्गाया उत्तरे कूले अपुत्रस्तापसो मृतः ॥
तस्मै तिलोदकं दद्यान्मुञ्चत्यैकाहिको ज्वरः ॥ २३६ ॥
वासाधात्रीस्थिरादारुपथ्यानागरसाधितः ॥
सितामधुयुतः क्वाथश्चातुर्थिकनिवारणः ॥ २३७ ॥
अगस्तिपत्रस्वरसेन नस्यं निहन्ति चातुर्थिकमुग्ररूपम् ॥
कफस्थानेषु वा तिष्ठन्दोषो द्वित्रिचतुर्षु वा ॥
विपर्ययाख्यान्कुरुते विषमान्कष्टसाधनान् ॥ २३८ ॥
56
रसोनकल्कं तिलतैलयुक्तं योऽश्नाति नित्यं विषमज्वरार्तः ॥
विमुच्यते सोऽप्यचिराज्ज्वरेण वातामयैश्चापि सुघोररूपैः ॥ २३९ ॥
रक्ताश्वमारपुष्पं च धात्री धान्यं वचामयम् ॥
पिष्ट्वा कोष्णो ज्वरे कार्यो लेपो मूर्धरुजापहः ॥ २४० ॥
57
पलंकषा निम्बपत्रं वचा कुष्ठं हरीतकी ॥
सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम् ॥ २४१ ॥
बैडालं वा शकृद्योज्यं वेपमानस्य धूपने ॥ २४२ ॥
सोमं सानुचरं देवं समातृगणमीश्वरम् ॥
पूजयन्प्रयतः शीघ्रं मुच्यते विषमज्वरात् ॥ २४३ ॥
विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम् ॥
स्तुवन्नामसहस्रेण ज्वरान्सर्वान्व्यपोहति ॥ २४४ ॥
मूलं भूमिजयन्त्याश्च सहदेवोद्भवं तथा ॥
तण्डुलीयकमूलं वा बद्धं मूर्ध्नि ज्वरापहम् ॥ २४५ ॥
विषमज्वरेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम् ॥
58
शान्तिं नयेत्त्रिवृद्वाऽपि सक्षौद्रा विषमज्वरम् ॥ २४६ ॥
मधुना वाऽभया लीढा हन्त्याशु विषमज्वरम् ॥
ज्वरवेगं च कालं च चिन्तयञ्ज्वर्यते तु यः ॥
तस्येष्टैरद्भुतैर्वाऽपि विषयैर्नाशयेत्स्मृतिम् ॥ २४७ ॥
घृतं द्वादशरात्रात्तु देयं क्षीणकफे ज्वरे ॥ २४८ ॥
पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी ॥
कलिङ्गकास्तामलकी सारिवाऽतिविषा स्थिरा ॥ २४९ ॥
59
द्राक्षामलकबिल्वानि त्रायमाणा निदिग्धिका ॥
सिद्धमेभिर्घृतं सद्यो ज्वरं जीर्णं व्यपोहति ॥ २५० ॥
क्षयं कासं शिरःशूलं पार्श्वशूलमरोचकम् ॥
अंसाभितापमग्निं च विषमं संनियच्छति ॥ २५१ ॥
कल्काच्चतुर्गुणः स्नेहः स्नेहात्क्वाथश्चतुर्गुणः ॥
क्वाथ्याच्चतुर्गुणं वारि क्वाथः क्वाथ्यसमो मतः ॥ २५२ ॥
60
दशमूलीरसैः सर्पिः सक्षारैः पञ्चकोलकैः ॥
सक्षीरं हन्ति तत्सिद्धं ज्वरकासाग्निमन्दताम् ॥
वातपित्तकफव्याधीन्प्लीहानं वाऽपि पाण्डुताम् ॥ २५३ ॥
पञ्चकोलैः ससिन्धूत्थैः पलिकैः पयसा समम् ॥
सर्पिः प्रस्थं शृतं प्लीहविषमज्वरगुल्मनुत् ॥ २५४ ॥
विशाला त्रिफला कौन्ती देवदार्वेलबालुकम् ॥ २५५ ॥
स्थिरा नतं हरिद्रे द्वे सारिवे द्वे प्रियङ्गुका ॥
नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेसरम् ॥ २५६ ॥
विडङ्गं पृश्निपर्णी च कुष्ठचन्दनपद्मकैः ॥
तालीसपत्रं बृहती मालत्याः कुसुमं नवम् ॥ २५७ ॥
अष्टाविंशतिभिः कल्कैरेतैरक्षसमन्वितैः ॥
चतुर्गुणं जलं दत्त्वा घृतप्रस्थं विपाचयेत् ॥ २५८ ॥
61
अपस्मारे ज्वरे कासे शोषे मन्देऽनले क्षये ॥
वातरक्ते प्रतिश्याये तृतीयकचतुर्थके ॥ २५९ ॥
छर्द्यर्शोमूत्रकृच्छ्रे च विसर्पोपद्रवेषु च ॥
कण्डूपाण्ड्वामयोन्मादविषमेहगरेषु च ॥ २६० ॥
भूतोपहतचित्तानां गद्गदानामरेतसाम् ॥
शस्तं स्त्रीणां च वन्ध्यानामायुर्वर्णबलप्रदम् ॥ २६१ ॥
अलक्ष्मीपापरक्षोघ्नं सर्वग्रहनिवारणम् ॥
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च ॥ २६२ ॥
62
सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः ॥
तैलं ज्वरे षड्गुणतक्रसिद्धमभ्यञ्जनाच्छीतविदाहनुत्स्यात् ॥ २६३ ॥
दध्नः ससारकस्यात्र तक्रं कट्वरमिष्यते ॥
घृततैलगुडादींश्च एकाहान्नैव साधयेत् ॥
उषितास्तु प्रकुर्वन्ति विशेषेण गुणान्यतः ॥ २६४ ॥
स्नेहकल्को यदाऽङ्गुल्या वर्तितो वर्तिवद्भवेत् ॥
वह्नौ क्षिप्ते च नो शब्दस्तदा सिद्धिं विनिर्दिशेत् ॥ २६५ ॥
शब्दव्युपरमे प्राप्ते फेनस्योपरमे तथा ॥
गन्धवर्णरसादीनां संपत्तौ सिद्धिमादिशेत् ॥ २६६ ॥
63
घृतस्यैवं विपक्वस्य जानीयात्कुशलो भिषक् ॥
फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत् ॥ २६७ ॥
मुकुन्द गोविन्द हरे मुरारे वैकुण्ठ शौरे कुरु मेऽनुकम्पाम् ॥
लोकत्रयत्राणविधानदक्ष क्षमस्व दोषं द्रुहिणाद्य वैद्य ॥ २६८ ॥
चन्दनाद्यं हितं तैलं शोषाधिकारकीर्तितम् ॥
तथा नारायणं तैलं जीर्णज्वरहरं परम् ॥ २६९ ॥
मूर्वालाक्षाहरिद्रे द्वे मञ्जिष्ठा सेन्द्रवारुणी ॥
बृहती सैन्धवं कुष्ठं रास्ना मांसी शतावरी ॥ २७० ॥
आरनालाढकेनैवं तैलं प्रस्थं विपाचयेत् ॥
तैलमङ्गारकं नाम सर्वज्वरविमोक्षणम् ॥ २७१ ॥
अब्दादूर्ध्वं घृतं पक्वं हीनवीर्यं च तद्भवेत् ॥
तैले विपर्ययं विद्यात्पक्वे चापक्व एव च ॥ २७२ ॥
64
देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम् ॥
स्वेदः क्षवः प्रकृतियोगिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि ॥ २७३ ॥
व्यायामं च व्यवायं च स्नानं चंक्रमणानि च ॥
ज्वरमुक्तो न सेवेत यावन्न बलवान्भवेत् ॥ २७४ ॥