336
लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः ॥
प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ॥ १ ॥
धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः ॥
प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् ॥ २ ॥
संपिष्टमारनालेन रूयिकामूलवल्कलम् ॥
प्रलेपाच्छ्लीपदं हन्ति बद्धमूलमपि स्थिरम् ॥ ३ ॥
पिण्डारकतरुसंभववन्दाकशिफा जयति सर्पिषा पीता ॥
श्लीपदमुग्रं नियतं बद्धा सूत्रेण जङ्घायाम् ॥ ४ ॥
हितश्चाऽऽलेपने नित्यं चित्रको देवदारु च ॥
सिद्धार्थशिग्रुकल्को वा सुखोष्णो मूत्रपेषितः ॥ ५ ॥
स्नेहस्वेदोपनाहांश्च श्लीपदेऽनिलजे भिषक् ॥
कृत्वा गुल्फोपरि शिरां विध्येच्च चतुरङ्गुले ॥ ६ ॥
गुल्फस्याधःशिरां विध्येच्छ्लीपदे पित्तसंभवे ॥
पित्तघ्नीं च क्रियां कुर्यात्पित्तार्बुदविसर्पवत् ॥ ७ ॥
मञ्जिष्ठां मधुकं रास्नां सहिंस्रां सपुनर्नवाम् ॥
पिष्ट्वाऽऽरनालैर्लेपोऽयं पित्तश्लीपदशान्तये ॥ ८ ॥