सनत्कुमार उवाच |

आहत्य भेरीः संनाह्या दितिजा दानवाश्च ते |
तदा संनाहयामासू रथनागतुरंगमान् || १ ||
गृहीततोयानानीय दैत्या मत्तान्मतङ्गजान् |
मदस्फातिकरान्दत्त्वा धूपांश्च कवलानि च || २ ||
बद्ध्वा कक्षाश्च संनाह्या ग्रैवेयांश्च सुसंस्कृतान् |
अङ्कुशान्सर्वलोहांश्च हेमरत्नपरिष्कृतान् |
करेणुषु समारूढाः समन्ताद्गजसादिनः || ३ ||
आबबन्धुर्विचित्राणि वर्माणि विधिवत्तदा |
तिर्यगूर्ध्वमुखान्सम्यग्बबन्धुस्तोमरेषुधीन् || ४ ||
आयुधानि च सर्वाणि बबन्धुरुभयोरपि |
पार्श्वयोरासनानां तु त्रयाणामपि भागशः |
वैजयन्तीपताकाश्च समुच्छिश्रियिरे ततः || ५ ||
तुरंगान्स्नातपीतांश्च वर्मिणो बद्धवालधीन् |
आरूढा बद्धनिस्त्रिंशा दानवा लोहजालिनः || ६ ||
आरूढा रथिनः केचिद्रथान्युक्ततुरंगमान् |
सायुधान्सपताकांश्च प्रयस्तान्स्वक्षकूबरान् || ७ ||
अथ सुम्भो निसुम्भश्च भ्रातरौ दानवेश्वरौ |
आरुह्य बद्धकवचौ बलोन्मत्तौ महासुरौ || ८ ||
संग्रामिकौ सुसंयत्तौ रथौ वल्गत्तुरंगमौ |
सायुधौ सपताकौ च कार्तस्वरमयौ पृथक् || ९ ||
निर्जग्मतुर्महोरस्कौ प्रयुक्तजयमङ्गलौ |
मागधैर्वन्दिभिः सूतैः स्तूयमानौ पुरःसरैः || १० ||
ततो यातुं समारब्धास्तूर्याण्याहत्य संघशः |
यत्रास्ते कौशिकी देवी तं शैलमभितो ऽसुराः || ११ ||
अथ दानवसिंहानां ध्वजाः पेतुर्यियासताम् |
अशिवं च शिवा नेदुर्दीप्तायां दिशि संस्थिताः || १२ ||
पपात नभसो रेणुः कपोतोदरधूसरः |
उपरिष्टाच्च सेनाया बभ्रमुर्गृध्रवायसाः || १३ ||
प्रतीपं च ववौ तेषां रजोगर्भः समीरणः |
ररास परुषं व्योम चचाल च वसुन्धरा || १४ ||
पराजयनिमित्तानि बुध्यमानाः सुरद्विषः |
अभिजग्मुः कृतान्तेन कृष्यमाणा इवावशाः || १५ ||
आदिदेशाथ दैत्येन्द्रो मूकमारक्षिकं तदा |
गृहाण शुल्कमिति तां ब्रूहि गत्वा सुमध्यमाम् || १६ ||
स गत्वा वचनात्तस्य प्रणम्योवाच कौशिकीम् |
शुल्कं किल गृहाणार्ये दीयमानं सुरद्विषा || १७ ||
एवमस्त्विति सा प्रोच्य तं विसृज्य च दानवम् |
व्यवर्धत महायोगा योगमास्थाय कौशिकी || १८ ||
अथ तस्याः समुत्पेदुर्गात्रेभ्यः प्रमदोत्तमाः |
बद्धगोधाङ्गुलित्राणाः सायुधा भीमदर्शनाः || १९ ||
वायसी वायसास्यानां स्त्रीणां कोट्या समावृता |
उपका कौशिकास्याभिस्तावतीभिर्महाबला || २० ||
प्रचण्डा सिंहवक्त्राभिर्देवीभिरभिसंवृता |
उग्रा व्याघ्रमुखाभिश्च परितः परिरक्षिता || २१ ||
जया च गजवक्त्राभिर्जयन्ती च महाबला |
देवीभिः शिखिवक्त्राभिरमेयाभिर्वृतानघा || २२ ||
जयमानाश्ववक्त्राभिर्हंसास्याभिः प्रभा वृता |
प्रभावती च चक्राह्ववदनाभिर्महाबला || २३ ||
शिवा गोमायुवक्त्राभिरशिवा विद्विषां रणे |
सरमा श्वमुखीभिश्च वृता परमदुर्जया || २४ ||
विजया श्येनवक्त्राभिः सर्वतः परिरक्षिता |
कङ्कास्याभिर्वृता मृत्युर्हन्त्रीभिः समरे रिपून् || २५ ||
नियतिर्मद्गुवक्त्राभिर्दुर्जयाभिः परैर्युधि |
अशनिः कुक्कुटास्याभिर्बह्वीभिरभिपालिता || २६ ||
रेवती वृषदंशा च पूतना कटपूतना |
आलम्बा किंनरी षष्ठी शकुनिर्मुखमण्डिका || २७ ||
अलक्ष्मीरधृतिर्लक्ष्मी पोतकी वानरी स्पृहा |
एताश्चान्याश्च कौशिक्याः संबभूवुर्महाबलाः || २८ ||
नानावेषधराभिश्च बह्वीभिः परितो वृताः |
बिभ्रतीभिर्विचित्राणि कवचान्यायुधानि च || २९ ||
ससर्ज कौशिकी तूर्णं हैमान्सांग्रामिकान्रथान् |
युक्तानश्वैर्मनोवेगैः सायुधानुच्छ्रितध्वजान् || ३० ||
वाजिनः सोपकरणान्मत्तोन्मत्तान्मतङ्गजान् |
आयुधानि तनुत्राणि तूर्याणि विविधानि च || ३१ ||
उवाच च महायोगा ता देवीः पुरतः स्थिताः |
देव्यः सुम्भो निसुम्भश्च भ्रातरौ देवकण्टकौ || ३२ ||
नेतुं मां किल संग्रामे विजित्य रणमूर्धनि |
आगतौ तौ बलोन्मत्तौ सहितौ दैत्यदानवैः || ३३ ||
तावहं विनिहंस्यामि शेषान्हत सुरद्विषः |
अजराश्चामराश्चैव भविष्यथ महाबलाः || ३४ ||
इति ताभ्यो वरं दत्त्वा समादिश्य च तास्तदा |
देवीर्देवी महायोगा युद्धाय कृतनिश्चया || ३५ ||
अथ सा स्वरथं महारथा मनसाचिन्तयदच्युता तदा |
तमुपस्थितमाशु चिन्तितं प्रददौ यं गिरिराजनन्दना || ३६ ||
ज्वलदग्निसमानवर्चसं परितो रत्नमयूखमालिनम् |
पुरतः समवेक्ष्य कौशिकी सुकृतं हेममयं नभश्चरम् || ३७ ||
विविधायुधवर्मसंयुतं प्रचलत्पिङ्गसटाकलापिभिः |
समरे जयिभिर्द्विषद्बलं युक्तं केसरिभिर्महाबलैः || ३८ ||
नृत्यन्मयूरेण विकीर्णभासा समुच्छ्रितेनातितरां दृढेन |
हैमेन रत्नद्युतिभास्वरेण ध्वजप्रवेकेन विराजमानम् || ३९ ||
जग्राह विजया छत्त्रं सिंही सूता तदाभवत् |
जयन्ती च जया चास्या दधतुश्चामराण्यथ || ४० ||
ततः सा बद्धकवचा विविधायुधधारिणी |
आरुरोह रथं दिव्यं कृताशीर्जयमङ्गला || ४१ ||
संपूर्णचन्द्रद्युतिनाथ मूर्ध्नि समुच्छ्रितेनातपवारणेन |
संवीज्यमाना च विचित्रदण्डैः सुचामरैरिन्दुमरीचिगौरैः || ४२ ||
ततस्तास्तूर्यमाहत्य नेदुर्नादान्पृथग्विधान् |
देव्या देव्यः सुसंयत्ता बभूवुश्च पुरःसराः || ४३ ||
तेन नादेन दैत्यानां हृदयानि चकम्पिरे |
विससर्ज शकृन्मूत्रं हस्त्यश्वं चासुरे बले || ४४ ||
चकम्प इव भूर्लोकश्चुक्षुभुः सागरा इव |
विचेलुरिव शैलेन्द्राः पुस्फोटेव नभस्तलम् || ४५ ||
तदा तद्देवतानीकं पताकाध्वजशोभितम् |
विरेजे विनदत्तूर्यं शितनिस्त्रिंशसंकुलम् || ४६ ||
बलाकापङ्क्तिशबलं सेन्द्रचापं महास्वनम् |
नभस्ये मासि सतडिद्वृन्दं जलमुचामिव || ४७ ||
ततो जगाम संयत्तं दैत्येन्द्राभिमुखं तदा |
जवेन देवतानीकं संक्षिप्येव दिशो दिशः || ४८ ||
अथ ददृशुरनीकमागतं सुररिपवो विविधोच्छ्रितध्वजम् |
प्रतिभयजननं महास्वनं प्रलय इवाम्बुदवृन्दमुन्नतम् || ४९ ||
इति स्कन्दपुराणे चतुःषष्टो ऽध्यायः ||