सनत्कुमार उवाच |

यथा तु वृषभो देवमवहन्मुनिपुङ्गव |
तत्ते ऽहं संप्रवक्ष्यामि नमस्कृत्वा वृषध्वजम् || १ ||
पूर्वमेव महासत्त्वो धर्मो यज्ञसहायवान् |
तताप विपुलं व्यास तपः परमदुश्चरम् || २ ||
हिमवन्तं गिरिं प्राप्य वाय्वाहारौ बभूवतुः |
वर्षाणां तु सहस्राणि दश द्वादश चैव हि |
मानुषाणि ततो भूयः शाकाहारौ बभूवतुः || ३ ||
ततश्चिरात्तयोर्देवो गणैः सह महाद्युतिः |
सर्वैः समानरूपैस्तैर्दर्शनं प्रददौ हरः || ४ ||
तांस्तौ महेश्वरान्दृष्ट्वा बहून्वै सदृशप्रभान् |
परस्परममन्येतां को न्वेषामीश्वरो भवेत् || ५ ||
तौ तदा वीक्ष्य संमन्त्र्य स्मृत्वा चैव पुनः पुनः |
मध्ये महेश्वरं तेषां मेनाते तेजसां निधिम् || ६ ||
तौ तं मध्ये भवं देवं प्रणम्य बहुमानतः |
शिरसोरञ्जलिं कृत्वा तुष्टुवाते ऽमितौजसौ || ७ ||
नमस्त्रैलोक्यनाथाय दिग्वासायामृतात्मने |
चतुष्पथनिवासाय चतुष्पथरताय च || ८ ||
चतुर्व्यूहाय देवाय त्रिनेत्राय भवाय च |
चतुर्मुखाय शुद्धाय जलान्तरविचारिणे || ९ ||
इन्द्रानुग्रहकर्त्रे च ब्रह्मानुग्रहकारिणे |
ऊर्ध्वलिङ्गाय देवाय मदनायामदाय च || १० ||
नमो हिरण्यवर्णाय सूर्याक्षाय तथैव च |
नमः पवित्रकेशाय दीर्घजिह्वाय चैव हि || ११ ||
नमस्ते नैकपादाय एकाक्षाय नमो नमः |
नमः सहस्रघण्टाय सहस्राक्षाय वै नमः || १२ ||
नमः पिनाकिने चैव ध्वजिने च नमो नमः |
नमः सहस्रशीर्षाय संवर्ताय नमो नमः || १३ ||
नमः स्तव्याय वै नित्यं शत्रुघ्नाय नमो नमः |
नमो भवाय भव्याय भावनाय नमो नमः || १४ ||
नमो वराय वै नित्यं वरदाय तथैव च |
गोकर्णाय नमो नित्यमैश्वर्यपतये नमः || १५ ||
नमो ऽस्तु विष्वक्सेनाय प्रभासाय नमस्तथा |
नमो ऽस्तु ते ऽन्नदायैव प्राणदाय नमो ऽस्तु ते || १६ ||
नमः प्रवर्तकायैव पद्ममालाय वै नमः |
नमो महारवायैव भैरवाय नमो नमः || १७ ||
नमश्चतुर्मुखायैव महादेवाय वै नमः |
नमो ऽस्तु ब्रह्मणे चैव ध्रुवायैवाचलाय च || १८ ||
नमो ऽस्तु नारीरूपाय सुभगाय नमो नमः |
मध्यमाय नमस्ते ऽस्तु नमस्ते सर्वतस्तथा || १९ ||
नमो ऽनुमन्ता मन्ता त्वं सर्वभूतप्रवर्तकः |
आवयोरीप्सितान्कामान्विधत्स्व भुवनेश्वर || २० ||

सनत्कुमार उवाच |

यो ऽनेन स्तौति वै नित्यं नियमेन समन्वितः |
सर्वकामैः स संपन्नो यथेष्टां गतिमाप्नुयात् || २१ ||

सनत्कुमार उवाच |

अथ देवस्तु तान्सर्वाननयत्प्रकृतिं गणान् |
नन्दिनं चैव देवीं च स्वयं चात्मानमच्युतम् |
उवाच चैतौ तुष्टो ऽस्मि गृह्यतामीप्सितो वरः || २२ ||

देवावूचतुः |

यदि तुष्टो ऽसि देवेश यदि देयो वरश्च नौ |
जात्यन्तरगतौ नित्यं वहेव त्वां सुरेश्वर || २३ ||
इदं च गुह्यं स्थानं नौ तपसातीव भावितम् |
तव चैव प्रसादेन भवेत्पुण्यं सुरेश्वर || २४ ||

देव उवाच |

इदं मे परमं गुह्यं भवितृ स्थानमुत्तमम् |
पञ्चेषुक्षेपमात्रं वै मृतो ऽत्र गणपो भवेत् || २५ ||
यस्मान्मध्ये भवो ऽस्मीति युवयोरर्चितः स्थितः |
तस्मान्नाम्ना तु विख्यातमिदं भवतु मध्यमम् || २६ ||
युवां जात्यन्तरं प्राप्य पूजितौ बलवत्तरौ |
वाहनत्वं समासाद्य लोकान्संधारयिष्यथः || २७ ||

सनत्कुमार उवाच |

तत एवं तदा देवस्तावुक्त्वा देवसत्तमौ |
जगाम गणपैः सार्धं मन्दरं हेमकन्दरम् || २८ ||
गते ऽथ देवे सगणे कालेन बहुना ततः |
मन्वन्तरे ऽस्मिन्सुरभी रुद्रमाराधयच्छुभा || २९ ||
तया वर्षसहस्रेण तपसा तोषितो भवः |
जगाम दर्शनं व्यास वरदो ऽस्मीति चाब्रवीत् || ३० ||
सा वव्रे पुत्रमतुलं सर्वप्राणभृतां वरम् |
पुत्रांश्चान्यान्महासत्त्वान्याज्ञियान्सुरसत्तमान् || ३१ ||
तथा दुहितरश्चान्या जगद्धात्र्यः सुशोभनाः |
ततः सर्वं ददौ देवो ह्यदृश्यत्वं जगाम च || ३२ ||
तस्मिन्गते महादेवे सुरभी दीप्ततेजसम् |
सर्वभूताग्रजं पुत्रं वृषभं समसूयत || ३३ ||
एकादश तथा रुद्रान्वृषभस्यानुजाञ्छुभान् |
सप्त कन्याश्च ता गावो जगद्धात्र्यः प्रसूयत || ३४ ||
वृषभः स तु संगत्य नित्यं प्रातः कृताह्निकः |
पितरं मातरं चैव तथैव च पितामहम् |
अभिवाद्य ययौ शुभ्रश्चतुर्दिग्गजसेवितम् || ३५ ||
वनं सिद्धगणावासं यत्र सा ह्यमृतोद्भवा |
दूर्वामृतरसा दिव्या छिन्नदग्धप्ररोहिणी || ३६ ||
स कदाचिद्वने तस्मिंश्चरंस्तप्तस्तृषार्दितः |
जगाम सागरं पातुं वृषराट् सुरभीसुतः || ३७ ||
सो ऽवगाह्य महाग्रासः सागरस्य तदा महत् |
मध्यं व्यादाय वदनं सझषं सतिमिंगिलम् |
अपिबत्सागरजलं न च तृप्तिमुपागमत् || ३८ ||
तस्मिन्पीयति दैत्येन्द्राः संनद्धाः सासिमार्गणाः |
सधनुष्पाणयः सर्वे सहस्राणि चतुर्दश || ३९ ||
निष्पेतुः शक्रसंकाशा यमकालानलोपमाः |
मयपुत्रा महासत्त्वा वृषभं प्रति वेगिताः || ४० ||
तांस्तथा रुषितान्दैत्यान्सासिमुद्गरतोमरान् |
सहैव सागराम्भोभिरपिबत्स महाबलः || ४१ ||
तान्पीतान्पीयमानांश्च दृष्ट्वा ह्यर्णववासिनः |
वित्रेसुः सहसा सर्वे विनेदुश्चापि दुःखिताः || ४२ ||
ततः समुद्रो भगवान्पीयमानः सुदुःखितः |
वडवामुखमागत्य संवर्तं शरणं ययौ || ४३ ||
स चानलः सुसंरब्धो दत्त्वा तस्मै महाबलः |
अभयं वृषमागत्य प्रोवाचेदं कृताञ्जलिः || ४४ ||

संवर्त उवाच |

सर्वभूतशरण्यो ऽयं दैत्यानां चालयः शुभः |
नैनं हीनं भवानद्भिः कर्तुमर्हसि वीर्यवान् || ४५ ||

वृष उवाच |

न मे मतिरभूदग्ने निःशेषं कर्तुमम्बुधिम् |
भवांस्त्वस्य यतो मन्ता करिष्ये ऽहं ततो ऽद्य वै || ४६ ||
यस्ते दर्पश्च गर्वश्च यद्बलं यच्च पौरुषम् |
तन्मे दर्शय हव्येश पिबाम्येनं तवाग्रतः || ४७ ||
एवमुक्त्वा वृषेन्द्रस्तु वडवामुखवासिनम् |
संरब्धः सागरं पातुं निःशेषमुपचक्रमे || ४८ ||

अनल उवाच |

न मे त्वं प्रतिमः शत्रुर्न च वैरं त्वया हि मे |
यत्तु कृत्यं समारब्धस्तत्करिष्ये तथा ह्यहम् || ४९ ||
न त्वं पास्यसि रक्षिष्ये सागरं मम संनिधौ |
अहं त्वां वारयिष्यामि सुरभीसुत कत्थन || ५० ||

सनत्कुमार उवाच |

ततस्तं भगवान्वह्निरुपसृत्य महाद्युतिः |
गले जग्राह बलवान्न चचाल ततः स च || ५१ ||
यत्पीतं छर्दयामास तत्तोयं दानवैर्विना |
औदरेणाग्निना तस्य ते दग्धाः सर्व एव हि || ५२ ||

सनत्कुमार उवाच |

ततः संवर्तको वह्निर्निगृहीतं ककुद्मिनम् |
विसृज्योवाच गच्छेति न त्वां हन्मि वृषेश्वर || ५३ ||
शक्तस्तवाहं दहने ह्यशक्तो मे भवान्वधे |
तथाप्यहं न गर्जामि गर्जितैः किं बलीयसाम् || ५४ ||

सनत्कुमार उवाच |

विसृज्य वृषभं वह्निराशु यातः स्वमालयम् |
वृषभो ऽपि जगामैव दुःखशोकाभिसंवृतः || ५५ ||
सो ऽवमानेन तेजस्वी महोक्षः सुरभीसुतः |
दुःखेन चातिसन्नात्मा जगामैवं विचिन्तयन् || ५६ ||
अबलो ऽहं बली वह्निर्येनास्मि निकृतस्तथा |
जीवितेशेन भूत्वा च नाहं प्राणैर्वियोजितः || ५७ ||
मोघं मम बलं सर्वं तथा चैवाभिगर्जितम् |
शरज्जलधरस्येव विहीनस्याद्भिरम्बरे || ५८ ||
अद्य प्राणानहं त्यक्ष्ये नियतो व्रतमास्थितः |
यथा न पुनरेवं मे मानभङ्गो भविष्यति || ५९ ||
शत्रूणां निगृहीतस्य दुर्बलस्य दुरात्मनाम् |
जीवितान्मरणं मन्ये विशिष्टं जीवितेन किम् || ६० ||
स एवं चिन्तयन्नुक्षा वाचं शुश्राव खाच्छुभाम् |
सौरभेय न भेतव्यं यद्ब्रवीमि कुरुष्व तत् || ६१ ||
रुद्रं सर्वसुरेशानं सर्वेभ्यो बलवत्तरम् |
तं प्रपद्यस्व देवेशं ततो जेष्यसि पावकम् || ६२ ||
स स्रष्टा सर्वभूतानां ब्रह्मादीनां न संशयः |
स ते दुःखमिदं सर्वं व्यपनेष्यति गोवृष || ६३ ||

सनत्कुमार उवाच |

एतच्छ्रुत्वा महातेजाः साध्यस्य सुमहात्मनः |
हिमवन्तं गिरिं प्राप्य तताप विपुलं तपः || ६४ ||
तस्य वर्षसहस्रेण तत्परस्य तदाशिषः |
भगवान्सर्वभूतेशः साम्बः सगण ऊचिवान् || ६५ ||

देव उवाच |

सौरभेय महाभाग तुष्टो ऽस्मि तव पुत्रक |
इष्टान्ब्रूहि वरान्वत्स दास्ये तान्सुबहूनपि || ६६ ||

सनत्कुमार उवाच |

ततः स देवं संदृश्य साम्बं सगणमीश्वरम् |
प्रणम्य शिरसा पादौ प्राञ्जलिः सुसमाहितः || ६७ ||
भूयो भूयो निरीक्ष्यैनं प्रणम्य च पुनः पुनः |
उवाच तपसो ऽक्षय्यमिच्छेयं वै जगत्पते || ६८ ||
बलं चानुत्तमं देव योगैश्वर्यं तथाक्षयम् |
त्वदीयो वाहनश्चाहमग्निनैवं विमानितः || ६९ ||
संवर्तकानलं चैव वडवामुखवासिनम् |
द्रष्टुमिच्छामि देवेश निगृहीतं त्वयाव्यय || ७० ||

सनत्कुमार उवाच |

एवमुक्तस्तु तान्दत्त्वा वरान्सत्यवतीसुत |
वामपार्श्वं तदामृज्य रुद्रमेकं ससर्ज ह || ७१ ||
किरीटमालिनं त्र्यक्षं कुण्डलाङ्गदभूषणम् |
महोरस्कं कवचिनं धनुर्हस्तं महाबलम् |
बद्धगोधाङ्गुलित्रं च खड्गदिव्यास्त्रधारिणम् || ७२ ||
तमाह रुद्रो गच्छेति वडवामुखवासिनम् |
संवर्तकानलं बद्ध्वा विस्फुरन्तमिहानय || ७३ ||
वन्दित्वा चरणौ तस्य सोमस्य गणनायकः |
जगाम सागरं वेगाद्ददर्श च हुताशनम् || ७४ ||
स युद्धं बलवान्कृत्वा सुघोरं रोमहर्षणम् |
संवर्तकानलं बद्ध्वा देवपार्श्वमुपानयत् || ७५ ||

व्यास उवाच |

कीदृक्तद्युद्धमभवत्किरीटेः पावकस्य च |
एतदिच्छामि विज्ञातुं वद त्वं वदतां वर || ७६ ||

सनत्कुमार उवाच |

स गत्वा गणपः क्रुद्धः संवर्तकमथानलम् |
उवाच क्रोधरक्ताक्षस्तदा वचनमर्थवत् || ७७ ||
स्वामी सर्वस्य जगतो देवश्चन्द्रार्धभूषणः |
आज्ञापयति वह्ने त्वं वृषमेवं प्रसादय || ७८ ||
प्रणतो ऽस्मीति तं ब्रूहि वृषभं ससुहृज्जनः |
निदेशे तिष्ठ चैवास्य यत्कर्तव्यं च तत्कुरु || ७९ ||
एवमुक्तो ऽनलः श्रुत्वा देवदेवस्य तद्वचः |
उवाच नातिसंहृष्ट इदं वचनमर्थवत् || ८० ||
नियोज्यो देवदेवस्य तस्यैवाहं सहानुगः |
न च मां स नियुक्त्वेह योक्ष्यते ऽन्यत्र कर्हिचित् || ८१ ||
गच्छ मद्वचनाद्ब्रूहि भगवन्तं त्रिलोचनम् |
यदि मां वक्ष्यति पुनः करिष्ये ऽहं ततस्तथा || ८२ ||

गणेश्वर उवाच |

बालिशा बत ये ऽप्राज्ञा बलज्ञानबहिष्कृताः |
त एवमुक्ता गच्छन्ति यथा मां त्वं प्रभाषसे || ८३ ||
सकृदाज्ञा बलवतां सकृत्प्रभवतामपि|
दूतश्चापि स वै श्रेष्ठो यो भवेदर्थसाधकः || ८४ ||
सो ऽहं बलवता तेन लोककर्त्रा पिनाकिना |
दूतः सर्वार्थसिद्ध्यर्थं प्रहितो बलवानिह || ८५ ||
न चेद्वचो मे कर्तासि बद्ध्वा त्वाहं ततो ऽद्य वै |
विस्फुरन्तं महापाशैर्नेष्यामि द्युभृतो ऽन्तिकम् || ८६ ||

सनत्कुमार उवाच |

स एवमुक्तस्तेजस्वी क्रोधदीप्तानलेक्षणः |
गणपं प्रति दुद्राव तिष्ठ तिष्ठेति चाब्रवीत् || ८७ ||
तमापतन्तं वेगेन पर्जन्यास्त्रेण सो बली |
ताडयामास बलवान्स प्रजज्वाल वेगवान् || ८८ ||
ज्वलन्तं तं तदाभ्यासमागतं क्रोधमूर्छितम् |
अशन्यस्त्रेण महता स जघान स्तनान्तरे || ८९ ||
अभ्याहतस्ततो ऽस्त्रेण तेजोवानपि मूर्छितः |
तस्थौ मुहूर्तं संविग्नो विधूमो दहनेश्वरः || ९० ||
ततस्तं रुद्रपाशेन बबन्ध करयोस्तदा |
विस्फुरन्तं महावह्निं गणपः क्रोधमूर्छितः || ९१ ||
तं बद्धं पाशवर्येण पतितं वीक्ष्य चैव हि |
तस्य पुत्रसुहृद्वर्गा विविधायुधपाणयः |
दुद्रुवुर्गणपं क्रुद्धाः शतशो ऽथ सहस्रशः || ९२ ||
तानप्यसौ विनिर्जित्य गणपस्तं हुताशनम् |
उपनिन्ये हरायाशु पशुं मेध्यमिवाध्वरे || ९३ ||
तमानीतं महादेवः संप्रेक्ष्यार्णवभोजनम् |
उवाच वृषभं ब्रूहि किमस्य क्रियतामिति || ९४ ||
स तं कृपणमालक्ष्य महोक्षा दीनचेतसम् |
प्रणम्य शिरसा पादाविदमाह कृताञ्जलिः || ९५ ||
भगवन्देवदेवेश सर्वलोकमहेश्वर |
दृष्टमेतत्तव विभो माहात्म्यं सदसत्पते || ९६ ||
दीनो ऽयं कृपणश्चापि ह्यबलश्च महाबल |
विसृज्यतां सुरश्रेष्ठ हत एष न संशयः || ९७ ||
पुत्रा ह्यस्य हताः सर्वे सुहृदश्चैव सर्वशः |
दीनस्यास्य न मे देव वध इष्टो विमुच्यताम् || ९८ ||
एतद्वचो महेशो वै वृषभस्याभिभाषितम् |
श्रुत्वा तुष्टः प्रहस्यैनं दहनं व्यसृजत्तदा || ९९ ||
रुद्रं तं च जराशोकजन्ममृत्युविवर्जितम् |
गणेश्वरपतिं कृत्वा द्वीपमस्मै ददत्प्रभुः |
मनोरमणमित्येव नाम्ना ख्यातं महर्द्धिमत् || १०० ||
दिव्यं कामगमं व्यास भवनैरुपशोभितम् |
जाम्बूनदमयैः शुभ्रैः सर्वकामसमन्वितैः || १०१ ||
तस्मिन्काले तदा देवाः सर्वे ब्रह्मपुरःसराः |
देवदेवं समागम्य वाक्यमूचुर्यथार्थवत् || १०२ ||
भगवन्देवतारिघ्न वृषो ऽयं देवसत्तम |
त्वया ह्यध्यासितः पूर्वं नादेनापूरयद्बली |
त्रैलोक्यमखिलं दर्पादस्वस्थं कृतवान्प्रभो || १०३ ||
वेगेन च दिशः सर्वा विमानैः सह भूतप |
भ्रामयन्विवशं नादाद्गगने संचचार ह || १०४ ||
अधुना वरलब्धश्च अस्मान्भूयस्तथैव ह |
यथा न कुरुते देव उपायः संविधीयताम् || १०५ ||
त्वं नो गतिश्च देवेश शरणं चैव भूतप |
सदा भयाभिभूतानां त्वं त्राता सर्वशः प्रभो || १०६ ||

देव उवाच |

यथा भयं न भवति यथा स्वस्थाश्च नित्यशः |
लोका भवन्ति सर्वे वै तथा हि विदधामि वः || १०७ ||
ततः स भगवान्व्यास देवदेवो महाद्युतिः |
असृजद्वरदानार्थं गणेशं चारुकुण्डलम् || १०८ ||
आ कर्णाद्दारितास्यं च महाकायं महाबलम् |
महापरिघबाहुं च वज्रसंहननं दृढम् || १०९ ||
महादंष्ट्रं महोरस्कं महाखड्गधनुर्धरम् |
दीप्ताङ्गारकनेत्रं च त्रिनेत्रं कवचोज्ज्वलम् || ११० ||
बिभ्रन्तमक्षयौ ऽत्यर्थमिषुधी चर्मवाससम् |
शरमेकेन हस्तेन धनुरेकेन चोद्वहन् || १११ ||
ग्रहनक्षत्रचित्रेण तडित्सूर्यवता तथा |
उत्तरीयेण वियता भास्वन्तं मेरुकूटवत् || ११२ ||
प्रभाकरेति सुव्यक्तमामन्त्र्य भगवानिदम् |
अब्रवीत्सर्वदेवानां समक्षं तं प्रभाकरम् || ११३ ||
प्रभाकर मयाज्ञाप्तस्त्वं देवानां गुणाकर |
परमैश्वर्यसंयुक्तो वृषवेगं निवारय || ११४ ||
निवासार्थं च दिव्यं तमिन्द्रद्वीपं ददामि ते |
ज्योत्स्ना भवित्री पत्नी ते तथा चैवाजरामरः |
भविष्यसि मयाज्ञाप्तो महागणपतिर्मम || ११५ ||

सनत्कुमार उवाच |

ततस्तं देवताः सर्वाः प्रणम्य ब्रह्मणा सह |
जग्मुः स्वानि क्षयानि स्म देवो ऽपि वृषवान्बभौ || ११६ ||
मुखतो ऽर्धं वृषो धर्मो जघनं यज्ञ उच्यते |
चक्षुषी चन्द्रसूर्यौ च ब्रह्मा मूर्धानमाश्रितः || ११७ ||
जिह्वायां तस्य वरुणो वायुरन्तश्चरः स्वयम् |
पादा विष्णुर्भगश्चैव पूषा शक्रश्च संस्थिताः || ११८ ||
जङ्घाः शेषास्तथादित्या ऊरूंश्चैव समाश्रिताः |
रुद्राः कर्णौ च नासां च ग्रीवोष्ठौ हनुमेव च || ११९ ||
आयुधानि खुरास्तस्य चक्रवज्रे च शृङ्गयोः |
अपाने च स्वयं मित्रः पुच्छं छन्दांसि सर्वशः || १२० ||
अस्थीनि पर्वताः सर्वे पुरीषं श्रीरभूच्छुभा |
मूत्रं चास्याभवद्दिव्यममृतं व्यास पावनम् || १२१ ||
रोमाणि ऋषयः सर्वे नक्षत्राणि च सर्वशः |
ग्रहास्तस्याभवन्व्यास सन्धयः शुभदर्शनाः || १२२ ||
इष्टयो वेदयज्ञाश्च मन्त्राः स्तोत्राः फलानि च |
अभवंस्तस्य मांसानि रुधिरं सरिदर्णवाः || १२३ ||
सप्तलोकं मुखं ह्यासीत्तस्याप्रतिमतेजसः |
दन्ता मरीचयश्चैव मज्जा औषध्य एव च || १२४ ||
अन्त्रभूताश्च पशवः सकृत्स्नायुश्च वीरुधः |
वल्ल्यो ऽथ वृक्षगुल्माश्च तथैवान्ये नगाः शुभाः || १२५ ||
नागास्तस्याभवन्नाड्यो वसवः शुक्रसंचयः |
आमपक्वाशयौ तस्य तौ देवावश्विनौ स्मृतौ |
मेघास्तस्याभवंस्त्वक्च तडिन्मालाविभूषिताः || १२६ ||
पिशाचा राक्षसा यक्षा गन्धर्वाप्सरसस्तथा |
शिरा धमन्यो ऽथ मदो दर्पश्चैवाभिजज्ञिरे || १२७ ||
मानुषा मातरश्चैव भूतानि विविधानि च |
रोमकूपाणि तस्यासन्वृषस्य सुमहात्मनः || १२८ ||
एवं स भगवान्देवः परमैश्वर्यसंयुतः |
सौरभेयो महादेवः सर्वदेवमयो ऽभवत् || १२९ ||
य इमं सौरभेयस्य जन्म कर्म च तत्त्वतः |
माहात्म्यमखिलं चैव शृणुयाद्वा पठेत वा || १३० ||
नित्यं शुचिरदीनात्मा सर्वपापैः प्रमुच्यते |
मृतश्च काले काले वा रुद्रलोकमवाप्नुयात् || १३१ ||
नेदं शठाय दातव्यं श्राव्यं वापि कथंचन |
न नास्तिकाय दुष्टाय तथा वा पापकर्मिणे || १३२ ||
इदं पुत्राय शिष्याय धार्मिकाय महात्मने |
देयं श्राव्यं च शुचये गुह्यमेतत्सनातनम् || १३३ ||
यो लोकदेवप्रभवेन तेन सर्वार्थसिद्धेन महाबलेन |
यात्यम्बुदाम्भोनिधिगर्जितेन स वो ऽस्तु नित्यं सुमना महेशः || १३४ ||
इति स्कन्दपुराणे त्रयस्त्रिंशो ऽध्यायः ||