सुशर्मोवाच |

अतः परं प्रवक्ष्यामि शाल्मलीनरकं पुनः |
यात्यन्ते तत्र पुरुषाः सुभृशं पापकर्मिणः || १ ||
शाल्मलीनां सहस्राणि बहूनि प्रवरेश्वर |
उच्चाः सर्वाश्च ता घोरा बहुयोजनविस्तृताः |
महाशाखा महापत्रा महाकण्टकसंयुताः || २ ||
लोहेन महता चैव प्राकारेणाभिसंवृताः |
जालेन महता सर्वा उपरिष्टात्समावृताः || ३ ||
पुरुषास्तत्र तिष्ठन्ति बहवो रुषिताननाः |
वज्रटङ्कोपलधरा असिमुद्गरधारिणः || ४ ||
अन्यैश्च विविधाकारैरायुधैर्वृतपाणयः |
यातयन्ति भृशं जन्तूनवशांस्ते सुदारुणाः || ५ ||
छिद्यमानश्च तत्रापि राक्षसैः क्रूरकर्मभिः |
दिशः प्रपद्यते सर्वा वेदनार्तः सुदुःखितः |
व्रजते यत्र यत्रासौ तत्र तत्राभिहन्यते || ६ ||
गर्तेषु पतितं चैव राक्षसाः प्राप्य सर्वशः |
शस्त्रैर्नानाविधाकारैर्निकृन्तन्त्यतिदारुणाः || ७ ||
श्रावयन्तः पुरानेन कृतं पापं महाबलाः |
भर्त्सयन्तश्च दुर्वृत्तं पतितं क्वचिदेव हि || ८ ||
तत उत्थाय भिन्नाङ्गः सो ऽनुबद्धश्च राक्षसैः |
सूचीकण्टकसंयुक्तं देशमन्यं प्रपद्यते || ९ ||
तत्र सूचीभिरुग्राभिः कण्टकैश्चायसैः पुनः |
भिद्यमानो नदन्दुःखान्निपतत्यतिदुःखितः || १० ||
तत्राप्येनं समासाद्य विविधायुधपाणयः |
राक्षसाभिद्रवन्त्येव वैरिणो वैरिणं यथा || ११ ||
तस्मादुत्थाय वेगेन वृक्षं यद्यधिरोहति |
तत्र तैः कण्टकैस्तीक्ष्णैर्भिद्यते छिद्यते ऽपि च |
यन्त्रैश्च विविधाकारैरयस्तुण्डैश्च पक्षिभिः || १२ ||
हृतकर्णाक्षिनासोष्ठः पतितो धरणीतले |
तत्र सूचीभिरुग्राभिः सर्वाङ्गेषु विभिद्यते || १३ ||
एवं बहुविधाकारा यातनास्तत्र दुःखिताः |
प्राप्नुवन्ति दुराचारा ये तान्निगदतः शृणु || १४ ||
अग्निदो गरदाता च अयोनौ यश्च गच्छति |
पुंसि योत्सृजते शुक्रं विषदो मांसविक्रयी || १५ ||
समुद्रयायी दुष्टात्मा यश्चैको मृष्टमश्नुते |
अतिथिं नार्चयेद्यस्तु यस्तु मिथ्याव्रती भवेत् || १६ ||
ब्रह्मोज्झश्च विवासाश्च यो ऽपः प्रविशते द्विजः |
घण्टिको ग्रामयाजी च शूद्राध्यापक एव च || १७ ||
तथा वार्धुषिको लुब्धो विक्रेता ब्रह्मणश्च यः |
एते गच्छन्ति दुर्वृत्ताः कूटशाल्मलिसंज्ञकम् || १८ ||
कोटीद्वयेन तूत्तीर्णा वर्षाणां वै पुनश्च ते |
उच्छ्रये पातिताः स्तोकं कालं विश्राम्य वै पुनः || १९ ||
पात्यन्ते नरके तस्मिन्यावत्क्षीणं तदेनसम् |
एषैव विधिरन्येषां नरकाणां मुने स्मृता || २० ||
य इमं भृशदुःखितोपलम्भं सुकृतीनामतिदुर्गमाचलम् |
शृणुयात्प्रयतः कुतूहलात्मा न स गच्छेन्निरयं हि शाल्मलम् || २१ ||
स्कन्दपुराणे ऽष्टत्रिंशत्तमो ऽध्यायः ||