सनत्कुमार उवाच |

प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे |
प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह || १ ||
स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः |
सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे || २ ||
सृष्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः |
तेजसा जगदाविश्य आजगाम तदन्तिकम् |
स्रष्टा तस्य जगन्नाथो ऽदर्शयत्स्वतनौ जगत् || ३ ||
स्वयमागत्य देवेशो महाभूतपतिर्हरः |
व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा |
शम्भुः प्राह वरं वत्स याचस्वेति पितामहम् || ४ ||
तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत् |
स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः |
मूढो ऽयमिति संचिन्त्य प्रोवाच वरदः स्वयम् || ५ ||
आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे |
मन्मूर्तिस्तनयस्तस्माद्भविष्यति ममाज्ञया || ६ ||
स च ते पुत्रतां यात्वा मदीयो गणनायकः |
रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिष्यति || ७ ||
सर्वविद्याधिपत्यं च योगानां चैव सर्वशः |
बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता || ८ ||
मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः |
धनुः पिनाकं शूलं च खड्गं परशुरेव च || ९ ||
कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा |
संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम् |
एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविष्यति || १० ||
एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि |
ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः || ११ ||
स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः |
समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह || १२ ||
समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः |
पपात ज्वलने तस्मिन्द्विगुणं तस्य तेजसा || १३ ||
तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम् |
प्रेरितं देवदेवेन निपपात हविर्भुजि || १४ ||
क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम् |
प्रेषितो गणपो रुद्रः सद्य एवाभवत्तदा || १५ ||
तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम् |
भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा || १६ ||
नीललोहित इत्येव तेनासावभवत्प्रभुः |
त्र्यक्षो दशभुजः श्रीमान्ब्रह्माणं छादयन्निव || १७ ||
शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः |
स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम् || १८ ||
ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिष्ठितम् |
असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः || १९ ||
सो ऽपि योगं समास्थाय ऐश्वर्येण समन्वितः |
लोकान्सर्वान्समाविश्य धारयामास सर्वदा || २० ||
ब्रह्मणो ऽपि ततः पुत्रा दक्षधर्मादयः शुभाः |
असृजन्त प्रजाः सर्वा देवमानुषसंकुलाः || २१ ||
अथ कालेन महता कल्पे ऽतीते पुनः पुनः |
प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते || २२ ||
प्रतिष्ठितायां वार्त्तायां प्रवृत्ते वृष्टिसर्जने |
प्रजासु च विवृद्धासु प्रयागे यजतश्च ह || २३ ||
ब्रह्मणः षट्कुलीयास्ते ऋषयः संशितव्रताः |
मरीचयो ऽत्रयश्चैव वसिष्ठाः क्रतवस्तथा || २४ ||
भृगवो ऽङ्गिरसश्चैव तपसा दग्धकिल्बिषाः |
ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणो ऽन्तरे || २५ ||
भगवन्नन्धकारेण महता स्मः समावृताः |
खिन्ना विवदमानाश्च न च पश्याम यत्परम् || २६ ||
एतं नः संशयं देव चिरं हृदि समास्थितम् |
त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः || २७ ||
किं परं सर्वभूतानां बलीयश्चापि सर्वतः |
केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः || २८ ||
कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः |
को ऽस्मान्सर्वेषु कार्येषु प्रयुनक्ति महामनाः || २९ ||
कस्य भूतानि वश्यानि कः सर्वविनियोजकः |
कथं पश्येम तं चैव एतन्नः शंस सर्वशः || ३० ||
एवमुक्तस्ततो ब्रह्मा सर्वेषामेव संनिधौ |
देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम् || ३१ ||
यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः |
पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः |
उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः || ३२ ||
स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित् |
स स्रष्टा सर्वभूतानां बलवांस्तन्मयं जगत् |
तस्य वश्यानि भूतानि तेनेदं धार्यते जगत् || ३३ ||
ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने || ३४ ||

ऋषय ऊचुः |

किं तन्महत्तपो देव येन दृश्येत स प्रभुः |
तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः || ३५ ||

पितामह उवाच |

सत्त्रं महत्समासध्वं वाङ्मनोदोषवर्जिताः |
देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ || ३६ ||
ततो मनोमयं चक्रं स सृष्ट्वा तानुवाच ह |
क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् || ३७ ||
यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः |
ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् || ३८ ||
तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत |
नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् || ३९ ||
तत्पूजितं देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः |
यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च || ४० ||
विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः |
गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च || ४१ ||
इति स्कन्दपुराणे चतुर्थो ऽध्यायः ||