सुशर्मोवाच |

तमो नामापरो घोरो नरको ऽतिभयंकरः |
तत्र सो ऽभिपतन्नेव राक्षसैरभिहन्यते || १ ||
असिमुद्गरशक्त्यग्रैर्गदामुसलपट्टसैः |
भयदैः परिघैष्टङ्कैर्वज्रैरसिपरश्वधैः || २ ||
अन्यैश्च विविधाकारैर्हतः क्रुद्धैः सुनिर्दयैः |
मूर्छितस्तमसा ग्रस्तो नरकं तं प्रपद्यते || ३ ||
स देहेन विनष्टेन तमसा मूर्छिताकृतिः |
दुःखसंततिसंबद्धो यातनामश्नुते भृशम् || ४ ||
यस्मात्स तमसा ग्रस्त अनाश्वस्तो ऽतिदारुणम् |
यातनामश्नुते जन्तुस्तमस्तस्मात्स उच्यते || ५ ||
सर्वा बहुविधाकारा यातना याः प्रकीर्तिताः |
तास्तत्र समवाप्नोति स्वेन पापेन दुर्मतिः || ६ ||
समाप्तयातनश्चापि संतीर्णः स्वेन कर्मणा |
उच्छ्रयेषु पुनर्जन्तुर्यात्यते कर्मबन्धनः || ७ ||
ब्रह्महा भ्रूणहा चैव सुरापो ब्राह्मणश्च यः |
गवां निपाने यश्चैव पिपासूनां नराधमः || ८ ||
विघ्नं करोति मोहान्ध आहूय च कृशं तथा |
ब्राह्मणं न ददात्यस्य अर्थिनं यश्च दूषयेत् || ९ ||
शास्त्राणि हरते यश्च गोघ्नो यश्च नरः स्मृतः |
कपिलश्च वृथादृष्टिर्वेदधर्मार्थदूषकः |
नास्तिकाश्च दुरात्मान इत्येते तं प्रयान्ति वै || १० ||
य इमं शृणुयात्तमोमयं तमसा नित्यमतन्द्रितेन्द्रियः |
न स याति तमोमयं सदा नरकं दारुणजन्तुशोकदम् || ११ ||
स्कन्दपुराणे ऽष्टचत्वारिंशो ऽध्यायः ||