कस्मादित्याह—सम्बन्धिनो निवृत्तौ हीत्यादि ।


सम्बन्धिनो निवृत्तौ हि सम्बन्धोऽस्तीति दुर्घटम् ।

नहि संयुक्तनाशेऽपि संयोगो नोपतिष्ठते ॥ ८५७ ॥

यथा संयोगभावे तु संयुक्तानामवस्थितिः ।

समवायस्य सद्भावे तथा स्यात्समवायिनाम् ॥ ८५८ ॥

एतदेव घटयन्नाह—नहीत्यादि । ततश्च विनष्टसम्बन्धित्वान्नष्टसंयोगिसंयोगवद
नित्यः समवायः प्राप्नोतीत्युक्तं भवति । सम्बन्धिनां वा स्थितिः प्राप्नोति, अविनष्टसं
बन्धत्वात्, अनुपरतसंयोगद्रव्यद्वयवत् । अन्यथा तत्सम्बन्धस्वभावहानिरुभयेषामपि
प्रसज्येत ॥ ८५७ ॥ ८५८ ॥