यद्येवमित्यादिना प्रतिविधत्ते ।
तथाहि ये ते विनश्यन्ति घटादयः स्वकारणादिसमवायिनस्तेषां स्वकारणेषु वृ
त्त्यात्मको योऽसौ समवायः कल्पितः स एव किं तेषु विनष्टेषु सम्बन्ध्यन्तरेष्वस्ति,
आहोस्विदन्य एव, यथा संयोगो बहुत्वं वा प्रतिसंयोगि भिद्यते । आदिशब्दाद्विभा
गादिपरिग्रहः । तत्र यद्याद्यः पक्षस्तदा प्रागवस्थावदप्रच्युतप्रवृत्तित्वादवस्थिता एव
घटादयः प्राप्नुवन्ति, तेषां वा घटादीनामनवस्थानेऽनवस्थितप्रवृत्तित्वान्नावस्थितिः स
मवायस्य प्राप्नोति, अन्यथा न वृत्त्यात्मकः स्यात् । तथाभूतस्य च स्वतन्त्रत्स्यानुप
कारिणो वृत्तिः समवाय इति वा नामकरणे संज्ञामात्रमेव स्यात्, न तु वस्तुतथा
भावस्तथेति । तद्वृत्त्यात्मक इत्येवं ततः संज्ञामात्रान्वयो दोषस्तं दर्शयति—अत इत्यादि । प्रागपि सम्बन्धिनाशात् । अविनष्टसम्बन्ध्यवस्थायामपीत्यर्थः । ते घटादयः ।
स्वाश्रये वृत्तास्तस्य समवायस्य भावात्सद्भावबलान्न सिध्येयुः । पश्चादिव—विन
ष्टसमवायिकारणवत्, परमार्थतो वृत्त्यभावात् । तथाहीत्यादिना हेत्वर्थं दर्शयति
॥ ८६० ॥ ८६१ ॥ ८६२ ॥ ८६३ ॥ ८६४ ॥