018 कारणत्वात् । आश्रितं च व्यक्तम्, यद्यस्मादुत्पद्यते तस्य तदाश्रितत्वात् । नत्वेव
मव्यक्तम्, तस्याकार्यत्वात्, लिङ्गं च व्यक्तम्, लयं गच्छतीति कृत्वा । तथाहि—प्रल
यकाले भूतानि तन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारो बुद्धौ,
बुद्धिश्च प्रधाने, न त्वेवमव्यक्तं क्वचिदपि लयं गच्छति; तस्याविद्यमानकारणत्वात् ।
सावयवं च व्यक्तम्, शब्दस्पर्शरसरूपगन्धात्मकैरवयवैर्युक्तत्वात् । नत्वेवमव्यक्तम्,
प्रधानात्मनि शब्दादीनामनुपलब्धेः । किंच—यथा पितरि जीवति पुत्रो न स्वतन्त्रो
भवति तथा व्यक्तं सर्वदा कारणायत्तत्वात्परतन्त्रम्, नत्वेवमव्यक्तम्, तस्य नित्य
मकारणाधीनत्वात् । तदेतत्सर्वमाशङ्क्याह—भावतइति । भावतः—परमार्थतः,
ताद्रूप्यम् । प्रकृतिविकारभेदेन तु परिणामविशेषाद्भेदो यथोक्तो न विरुध्यत इत्यर्थः ।
अथवा—भावत इति । स्वभावतस्त्रैगुण्यरूपेण तद्रूपा एव प्रवर्त्तन्ते । सत्वरजस्त
मसां तूत्कटानुत्कटत्वविशेषात्सर्गवैचित्र्यं महदादिभेदेनाविरुद्धमेवेत्यर्थः । तदनेन का
रणात्मनि कार्यमस्तीति प्रतिज्ञातं भवति ॥ ७ ॥


तत्र कथमवगम्यते प्रागुत्पत्तेः सत्कार्यमित्याह—यदीत्यादि—


यदि त्वसद्भवेत्कार्यं कारणात्मनि शक्तितः ।

कर्तुं तन्नैव शक्येत नैरुप्याद्वियदब्जवत् ॥ ८ ॥

सत्कार्यत्वप्रसिद्धये परैः पञ्च हेतव उक्ताः—असदकरणादुपादानग्रहणात्सर्व
संभवाभावात् । शक्तस्य शक्यकरणात्करणभावाच्च सत्कार्यम्
इति तत्र प्रथम
हेतुसमर्थनार्थमिदमुच्यते । यदि त्वसद्भवेत्कार्यमित्यादि । यदि हि कारणात्मनि प्रा
गुत्पत्तेः कार्यं नाभविष्यत्तदा तन्न केनचिदकरिष्यत यथा गगननलिनम् । प्रयोगः—
यदसत्तन्न केनचित्क्रियते । यथा गगनाम्भोरुहम् । असच्च प्रागुत्पत्तेः परमते न
कार्यमिति व्यापकविरुद्धोपलब्धिप्रसङ्गः । न चैवं भवति । तस्माद्यत्क्रियते तिलादि
भिस्तैलादिकार्यं तत्तस्मात्प्रागपि सदिति सिद्धम् । शक्तित इति । शक्तिरूपेण;
व्यक्तिरूपेण तु कापिलैरपि प्राक् सत्वस्यानिष्टत्वात् । नैरुप्यादिति । निःस्वभा
वत्वात् ॥ ८ ॥


द्वितीयहेतुसमर्थनार्थमाह—कस्माच्चेत्यादि—


कस्माच्च नियतान्येव शालिबीजादिभेदतः ।

उपादानानि गृह्णन्ति तुल्येऽसत्त्वेतुल्यसत्वेऽपरं न तु ॥ ९ ॥