तत्र कथमवगम्यते प्रागुत्पत्तेः सत्कार्यमित्याह—यदीत्यादि—


यदि त्वसद्भवेत्कार्यं कारणात्मनि शक्तितः ।

कर्तुं तन्नैव शक्येत नैरुप्याद्वियदब्जवत् ॥ ८ ॥

सत्कार्यत्वप्रसिद्धये परैः पञ्च हेतव उक्ताः—असदकरणादुपादानग्रहणात्सर्व
संभवाभावात् । शक्तस्य शक्यकरणात्करणभावाच्च सत्कार्यम्
इति तत्र प्रथम
हेतुसमर्थनार्थमिदमुच्यते । यदि त्वसद्भवेत्कार्यमित्यादि । यदि हि कारणात्मनि प्रा
गुत्पत्तेः कार्यं नाभविष्यत्तदा तन्न केनचिदकरिष्यत यथा गगननलिनम् । प्रयोगः—
यदसत्तन्न केनचित्क्रियते । यथा गगनाम्भोरुहम् । असच्च प्रागुत्पत्तेः परमते न
कार्यमिति व्यापकविरुद्धोपलब्धिप्रसङ्गः । न चैवं भवति । तस्माद्यत्क्रियते तिलादि
भिस्तैलादिकार्यं तत्तस्मात्प्रागपि सदिति सिद्धम् । शक्तित इति । शक्तिरूपेण;
व्यक्तिरूपेण तु कापिलैरपि प्राक् सत्वस्यानिष्टत्वात् । नैरुप्यादिति । निःस्वभा
वत्वात् ॥ ८ ॥