ईश्वरपरीक्षा ।

इदानीमीशव्यापाररहितत्वं प्रतिपादयन्नाह—सर्वोत्पत्तिमतामित्यादि ।


सर्वोत्पत्तिमतामीशमन्ये हेतुं प्रचक्षते ।

नाचेतनं स्वकार्याणि किल प्रारभते स्वयम् ॥ ४६ ॥

अनु30a त्पत्तिमतामण्वाकाशादीनां नित्यत्वान्न किंचित्कारणमस्तीत्यत उत्पत्तिमतामित्यु
क्तम् । ईशमिति ईश्वरम् । अन्य इति नैयायिकादयः । तत्र विशिष्टगुणमात्मान्तर
मेव सर्वस्य जगतः कर्तृ सर्वज्ञमीश्वरमिति केचित् । आत्मव्यतिरिक्तं नित्यैकसर्वार्थ
041 विषयबुद्ध्युपेततया भिन्नगुणत्वाद्द्रव्यान्तरमेवेत्यपरे । ननु धर्माधर्मपरमाण्वादि जगतः
कारणमस्त्येव तत्किमर्थमीश्वरमपरं कारणत्वेन कल्पयन्तीत्यत आह—नाचेतनमि
त्यादि । यद्यपि धर्मादि कारणं तथाऽपि तदचेतनत्वादधिष्ठायकमन्तरेण न स्वयं स्व
कार्यमारब्धुमुत्सहत इत्यतस्तदधिष्ठायकेन केनचित्कर्त्रा भवितव्यम्, न हि किंचिद
चेतनं स्वतन्त्रमधिष्ठायकं दृष्टमिति । प्रयोगः—यदचेतनं तदधिष्ठातारमन्तरेण न
स्वकार्यमारभते, यथा मृत्पिण्डदण्डसलिलसूत्रादयः कुम्भकाररहिताः कुम्भम्, अचे
तनं च धर्मादीनीति व्यापकविरुद्धोपलब्धिः । तस्माद्योसावधिष्ठाता (स) ईश्वर इति
सिद्धम् । न चैवं सति धर्माधर्मादीनां वैयर्थ्यम्, निमित्तकारणत्वादीश्वरस्येति । स्या
देत
द्यदात्मसमवेतौ धर्माधर्मौ स एवात्माऽधिष्ठाता भविष्यति । तत्किमीश्वरेण परि
कल्पितेनेति । तदसम्यक् । तस्यात्मनस्तदानीमज्ञत्वात्, यावद्धि तस्य शरीरेन्द्रियादिः
कार्यकारणसंघातो नोत्पद्यते तावदयमज्ञ उपलभ्यानपि रूपादीन्विषयान्नोपलभते,
कुतोऽनुपलभ्यौ धर्माधर्मावुपलप्स्यत इति । यथोक्तम् अज्ञो जन्तुरनीशोयमात्मनः
सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वे
ति ॥ ४६ ॥