शब्दब्रह्मपरीक्षा ।

नाशोत्पादेत्यादिना शब्दब्रह्मवादिनो ब्रुवते—


नाशोत्पादासमालीढं ब्रह्म शब्दमयं परम् ।

यत्तस्य परिणामोऽयं भावग्रामः प्रतीयते ॥ १२८ ॥

पूर्वापरादिविभागरहितमनुत्पन्नमविनाशि यच्छब्दमयं ब्रह्म तस्यायं रूपादिर्भाव
ग्रामः परिणाम इति प्रतीयते यथोक्तम् । अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् ।
विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति । तत्र—आदिः—उत्पादः, निधनम्
—नाशः, तदभावादनादिनिधनम् । अक्षरमिति । अकाराद्यक्षरस्य निमित्तत्वात् ।
एतेनाभिधानरूपेण विवर्त्तो दर्शितः । अर्थभावेनेत्यादिना पुनरभिधेयविवर्त्तः । प्रक्रि
येति भेदाः । ब्रह्मेति नामसंकीर्त्तनम् । अस्यैव श्लोकस्यार्थं निर्दिशति—नाशो
त्पादासमालीढ
मिति । नाशोत्पादग्रहणमुपलक्षणम् । इदमप्यत्र बोद्धव्यम्, पूर्वा
परदेशविभागरहितमिति । तथाहि—अनादिनिधनत्वं पूर्वापरदेशविभागरहितत्वमपि
तत्र निर्दिष्टम् । शब्दमयमिति । शब्दस्वभावम्, अत एव शब्दस्तत्त्वमस्य शब्दतत्त्वं
068 तदुच्यते । शब्दोऽस्याविपरीतं रूपमित्यर्थः । परमिति । प्रणवात्मकम् । प्रणवो हि
किल सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिः स च वेदः । अयं तु वर्णपदक्रमे
णावस्थितो वेदस्तदधिगमोपायस्तस्य प्रतिच्छन्दकन्यायेनावस्थितः । तं तु परमं ब्रह्मा
णमभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तः(करणाः)पश्यन्तीति । अत्र च प्रमाणयन्ति ।
ये यदाकारानुस्यूतास्ते तन्मया यथा घटशरावोदञ्चनादयो मृद्विकाराः मृदाकारानु
गताः पदार्था मृण्मयत्वेन प्रसिद्धाः । शब्दाकारानुस्यूताश्च सर्वभावा इति स्वभाव
हेतुः । यतः प्रत्यक्षत एव सर्वार्थानां शब्दाकारानुगमः सिद्धः । तथा हि—शब्द
एव प्रत्ययोऽर्थेषूपजायमानः शब्दोल्लेखानुगत एवोपजायते । यथोक्तम्—न सोऽस्ति
प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन वर्त्तते ॥ इति ।
ज्ञानाकारनिबन्धना च वस्तूनां स्वभावप्रज्ञप्तिः । अतः सिद्धमेषां शब्दाकारानुस्यूतत्वं
तत्सिद्धौ च तन्मयत्वमपि सिद्धमेव, तन्मात्रभावित्वात्तन्मयत्वस्येति ॥ १२८ ॥