आत्मपरीक्षा ।

नैयायिकवैशेषिकपरिकल्पितात्मपरीक्षा ।

अन्ये पुनरिहात्मानमिच्छादीनां समाश्रयम् ।

स्वतोऽचिद्रूपमिच्छन्ति नित्यं सर्वगतं तथा ॥ १७१ ॥

080
शुभाशुभानां कर्त्तारं कर्मणां तत्फलस्य च ।

भोक्तारं चेतनायोगाच्चेतनं न स्वरूपतः ॥ १७२ ॥

ज्ञानयत्नादिसम्बन्धः कर्तृत्वं तस्य भण्यते ।

सुखदुःखादिसंवित्तिसमवायस्तु भोक्तृता ॥ १७३ ॥

निकायेन विशिष्टाभिरपूर्वाभिश्च सङ्गतिः ।

बुद्धिभिर्वेदनाभिश्च जन्म तस्याभिधीयते ॥ १७४ ॥

प्रागात्ताभिर्वियोगस्तु मरणं जीवनं पुनः ।

सदेहस्य मनोयोगो धर्माधर्माभिसत्कृतः ॥ १७५ ॥

शरीरचक्षुरादीनां वधाद्धिंसाऽस्य कल्प्यते ।

इत्थं नित्येऽपि पुंस्येषा प्रक्रिया विमलेक्ष्यते ॥ १७६ ॥

(...................................
................)॥ १७१ ॥ १७२ ॥ १७३ ॥ १७४ ॥ १७५ ॥ १७६ ॥


( सदाद्यविशेषविषयाविषयोभयात्मकज्ञेयप्रत्यक्षानुमानोपमानशाब्दसिद्धदर्शनप्रा
तिभज्ञानारेकविपर्यय )स्वप्नस्वप्नान्तिकाः प्रज्ञानविशेषा मदीयशरीरादिव्यतिरिक्तसंवेद
कसंवेद्याः स्वकारणायत्तजन्मवत्त्वसामान्यविशेषवत्त्वबोधात्मकत्वाशुतरविनाशित्वसं
स्काराधायकत्वप्रत्ययत्वेभ्यः पुरुषान्तरप्रत्ययवत् वैधर्म्येण प्रमिताप्रशस्तमिता(?) घटादय इति ।
तत्र सदादयः षडविशेषाः पूर्वं व्याख्याताः । तेषां सदादीनां षण्णां विषयो द्रव्य
गुणकर्माणि । अविषयः सामान्यविशेषसमवायाः । तदेतदुभयात्मकं ज्ञेयं विषयः
प्रत्यक्षादीनां ज्ञानविशेषाणां ते तथोक्ताः । प्रत्यक्षानुमानोपमानेत्यादिस्तु द्वन्द्वनिर्देशः ।
सिद्धदर्शनं ज्योतिःशास्त्राद्युपनिबद्धम् । तद्धि सिद्धानां दर्शनं सिद्धं वा दर्शनमिति
कृत्वा सिद्धदर्शनमुच्यते । प्रातिभं तु ज्ञानमार्षं यथाश्वो मे भ्राता गमिष्यतीति ।
तद्धि प्रायेणर्षीणां भवतीति कृत्वार्षमुच्यते । आरेकः संशयः । विपर्ययो विपर्यासः ।
प्रथमस्वप्नावस्थाभावी प्रत्ययः स्वप्नः । तद्विषयं स्वप्नेऽपि यदपरं ज्ञानं भवति स स्वप्ना
न्तिकः । एत एव प्रज्ञानविशेषाः । शेषं सुबोधम् । तदेतत्प्रमाणमर्थंतो निर्दिशन्नाह—
ज्ञानानि चेत्यादि ।


ज्ञानानि च मदीयानि तन्बादितत्वादिव्यतिरेकिणा ।

संवेदकेन वेद्यानि प्रत्ययत्वात्तदन्यवत् ॥ १७७ ॥

तन्बादितत्वादीत्यत्रादिशब्देन बुद्धीन्द्रियवेदनाः परिगृह्यन्ते । प्रत्ययत्वादित्युपलक्षणम् ।
तदन्येऽपि स्वकारणायत्तजन्मवत्त्वादयो ग्राह्याः ॥ १७७ ॥


081

शङ्करस्वामी पुनरन्यथा प्रमाणयति, इच्छादयः क्वचिदाश्रिताः वस्तुत्वे सति
कार्यत्वाद्रूपादिवदिति, तद्दर्शयति—इच्छादयश्चेत्यादि ।


इच्छादयश्च सर्वेऽपि क्वचिदेते समाश्रिताः ।

वस्तुत्वे सति कार्यत्वाद्रूपवत्स च नः पुमान् ॥ १७८ ॥

वस्तुत्वग्रहणादेष न नाशे व्यभिचारवान् ।

हेतुमत्त्वेऽपि नाशस्य यस्मान्नैवास्ति वस्तुता ॥ १७९ ॥

वस्तुत्वग्रहणादित्यादिना वस्तुत्वे सतीति विशेषणस्य साफल्यं दर्शयति
॥ १७८ ॥ १७९ ॥


उद्द्योतकरस्तु प्रमाणयति, देवदत्तस्य रूपरसगन्धस्पर्शप्रत्यया एकानेकनिमित्ताः,
मयेति प्रत्ययेन प्रतिसन्धीयमानत्वात् । कृतसमयानामेकस्मिन्नर्तकीभ्रूक्षेपे युगपदनेकं
पुरुषाणां प्रत्ययवत् । अस्यायमर्थः—यथा किल नर्त्तकीभ्रूभङ्गानन्तरमस्माभिर्वस्त्राणि
प्रक्षेप्तव्यानीत्येवं कृतसमयानां बहूनां नानाकर्त्तृका नानाभूताः प्रत्यया निमित्तस्य
भ्रूभङ्गस्यैकत्वान्मया दृष्टो मया दृष्ट इति प्रतिसन्धीयन्ते, तथेहापि नानाविषयाः
प्रत्यया निमित्तस्यैकत्वात्प्रतिसन्धास्यन्ते । यच्च तदेकं निमित्तं स आत्मेति । प्रतिस
न्धानं पुनर्मया दृष्टं मया श्रुतमित्येवमादीनां प्रत्ययानामेकज्ञातृनिमित्तत्वेन घटनम् ।
नर्त्तकीभ्रूक्षेपे तु प्रत्ययानामेकविषयत्वापादनम् । सर्वथा प्रतिसन्धानमुच्यते यदेकमर्थं
निमित्तीकृत्य प्रत्ययानां संबन्धनम् । तदेतत्प्रमाणं दर्शयन्नाह—रूपादिप्रत्यया इति ।


रूपादिप्रत्ययाः सर्वेऽप्येकानेकनिमित्तकाः ।

मयेति प्रत्ययेनैषां प्रतिसन्धानभावतः ॥ १८० ॥

नर्त्तकीभ्रूलताभङ्गे बहूनां प्रत्यया इव ।

अन्यथा प्रतिसन्धानं न जायेतानिबन्धनम् ॥ १८१ ॥

सुबोधम् ॥ १८० ॥ १८१ ॥


अयमपरस्तदीयः प्रयोगः—आत्मेति पदं शरीरेन्द्रियमनोबुद्धिवेदनासंघातव्यति
रिक्तवचनं प्रसिद्धपर्यायव्यतिरिक्तत्वे सत्येकपदत्वात् घटादिशब्दवत् । तदाह—
बुद्धिन्द्रियादीत्यादि ।


बुद्धीन्द्रियादिसंघातव्यतिरिक्ताभिधायकम् ।

आत्मेति वचनं यस्मादिदमेकपदं मतम् ॥ १८२ ॥

082
सिद्धपर्यायभिन्नत्वे यच्चैवं परिनिश्चितम् ।

यथानिर्दिष्टधर्मेण तद्युक्तं पटशब्दवत् ॥ १८३ ॥

सिद्धपर्यायभिन्नत्व इति । बुद्धीन्द्रियादीनां ये सिद्धाः पर्याया धीप्रभृतयस्तेभ्यो
भिन्नत्वे सतीत्यर्थः । यच्चैवं परिनिश्चितमिति । सिद्धपर्यायभिन्नत्वे सत्येकपदत्वेन ।
यथानिर्दिष्टधर्मेणेति । बुद्ध्यादिव्यतिरिक्तार्थाभिधायित्वेन ॥ १८२ ॥ १८३ ॥


पुनः स एव व्यतिरेकिणं हेतुमात्मसिद्धये प्रयुक्तवान् । नेदं निरात्मकं जीवच्छ
रीरमप्राणादिमत्त्वप्रसङ्गाद्धटादिवदिति । तद्दर्शयति—प्राणादिभिरित्यादि ।


प्राणादिभिर्वियुक्तश्च जीवद्देहो भवेदयम् ।

नैरात्म्याद्धटवत्तस्मान्नैवास्त्यस्य निरात्मता ॥ १८४ ॥

अस्य निरात्मतेति । जीवद्देहस्य । यद्वा—अस्यात्मनो निरात्मता निःस्वभावता
नास्ति, अपि तु सत्त्वं सिद्धमित्यर्थः ॥ १८४ ॥


अथ नित्यत्वविभुत्वे कथमस्य प्रतिपत्तव्ये इत्यत्राविद्धकर्णस्तावत्प्रमाणयति—मातु
रुदरनिष्क्रमणोत्तरकालं मदीयाद्यप्रज्ञानसंवेदकसंवेद्यान्यतत्कालानि मदीयानि प्रज्ञा
नानि मदीयप्रज्ञानत्वात् आद्यमदीयप्रज्ञानवत् । एवं दुःखादयोऽपि पक्षीकर्त्तव्याः ।
एतच्च नित्यत्वेऽनुमानम्, तदेतद्दर्शयति—सद्योजाताद्येत्यादि ।


सद्योजाताद्यविज्ञानवेदकेनैव वेद्यते ।

सर्वमुत्तरविज्ञानं मज्ज्ञानत्वात्तदाद्यवत् ॥ १८५ ॥

तदाद्यवदिति । तस्योत्तरकालभाविनो ज्ञानस्याद्य तदाद्यम् ॥ १८५ ॥


विभुत्वसिद्धये प्रमाणयति । अवनिजलानिलमनांसि विप्रतिपत्तिविषयभावापन्नानि
दूरतरवर्त्तीनि मदीयेनात्मना सह संबध्यन्ते । मूर्त्तत्ववेगवत्त्वपरत्वापरत्वमिथःसंयो
गविभागवत्त्वेभ्यो मदीयशरीरादिवदिति । तद्दर्शयति—मदीयेत्यादिना ।


मदीयेनात्मना युक्तं दूरदेशनिवर्त्त्यपि ।

क्षित्यादिमूर्त्तिमत्त्वादेरस्मदीयशरीरवत् ॥ १८६ ॥

एवमित्यादिनोपसंहरति ।


एवं च सत्त्वनित्यत्वविभुत्वानां विनिश्चये ।

आत्मनो न निरात्मानः सर्वधर्मा इति स्थितम् ॥ १८७ ॥

तदत्रेत्यादिना प्रतिविधत्ते ।


083
तदत्र प्रथमे तावत्साधने सिद्धसाध्यता ।

सर्वज्ञादिप्रवेद्यत्वं त्वज्ज्ञानस्येष्यते यतः ॥ १८८ ॥

प्रथमे साधन इति । ज्ञानानि च मदीयानीत्यादौ । तत्र सिद्धसाध्यता भवदीय
प्रत्ययानामस्माभिर्भवच्छरीरादिव्यतिरेकिणा सर्वविदा श्रावकप्रत्येकबुद्धैस्तदन्यैश्च परपरि
चित्तवित्तवेदिभिर्वेदनाभ्युपगमात् ॥ १८८ ॥


यश्चापि पुरुषान्तरप्रत्ययवदिति साधर्म्यदृष्टान्तःस साध्यविकल इति दर्शयन्नाह—
प्रकाशकानपेक्षं चेत्यादि ।


प्रकाशकानपेक्षं च स्वचिद्रूपं प्रजायते ।

अन्यविज्ञानमप्येवं साध्यशून्यं निदर्शनम् ॥ १८९ ॥

यतः पुरुषान्तरीयकमपि ज्ञानं प्रकाशकान्तरानपेक्षं स्वसंविद्रूपमेवोपजायते । तेन
तत्वादिव्यतिरिक्तसंवेदकसंवेद्यत्वेन साध्येन शून्यमिदं निदर्शनम् ॥ १८९ ॥


अथापि स्यान्नान्यदीयं चित्तमात्रमुदाहरणत्वेनाभिप्रेतं किन्तु यस्मिन्विषये विज्ञा
नमागृहीततदाकारमुपजायते तदिहोदाहरणमिष्टमित्याह—तदाकारोपरक्तेनेत्यादि ।


तदाकारोपरक्तेन यदन्येन प्रवेद्यते ।

तस्योदाहरणत्वेऽपि भवेदन्येन संशयः ॥ १९० ॥

एवमपि यत्स्वसंविद्रूपमेव ज्ञानं ज्ञानान्तरसंवेदनरहितमुत्पद्यते तेन संशयो भवे
द(तो) नैकान्तिको हेतुरिति यावत् । अथ तदपि स्वव्यतिरिक्तसंवेदकसंवेद्यमुदयव्यय
धर्मकत्वप्रमेयत्वस्मर्यमाणप्रमाणत्वेभ्यो विषयवदिति मतम् । तदत्रापि साध्यविपर्यये
बाधकाभावाद्व्यतिरेको न निश्चितः । उत्तरोत्तरज्ञानानुभवे चानवस्था । न ह्यव्यक्त
व्यक्तिको विषयः सिद्ध्येत् । ततश्चैकविषयसिद्ध्यर्थं ज्ञानपरम्परामनुसरतः सकलमेव
पुरुषायुषमुपयुज्येत । अथापि किंचिज्ज्ञानमनवस्थाभयात्स्वसंविदितरूपमेवोत्पद्यत
इति । तथा तेनैवोदयव्ययधर्मकत्वादीनां हेतूनामनैकान्तिकता । तद्वदेवान्येषामपि
ज्ञानानां स्वसंवेदनत्वाभ्युपगमे कः प्रद्वेषः । अथ तदसंविदितरूपमेवेष्यते । एवमपि
तदसिद्धौ सर्वेषां पूर्वज्ञानानामप्रसिद्धिरनभिव्यक्तव्यक्तिकत्वात् । ततश्च विषयोऽपि
न प्रसिद्ध्येत् । येषां तु विज्ञानवादिनां मतं सर्वमेव ज्ञानं ग्राह्यग्राहकवैधुर्यात्स्वयमेव
प्रकाशते—न तु ज्ञानान्तरेण वेद्यत इति, तान्प्रति साध्यविकलता दोषोऽकम्प्य एव ।
एवमन्येष्वपि कारणायत्तजन्मवत्त्वादिषु साधनेषु सिद्धसाध्यतादिदोषा वाच्याः ।
यच्चापि सदादीत्यादि धर्मिविशेषणं कृतं तत्पूर्ववदनर्थकं, न ह्यस्य प्रस्तुतसाध्यसिद्धावङ्ग
084 भावोऽस्ति । तथाहि—एतावता किं न गतम्, मदीयाः प्रत्यक्षादिप्रत्यया मदीयशरी
रादिव्यतिरिक्तसंवेदकसंवेद्या इति । प्रत्यक्षानुमानादिप्रविभागेनापि धर्मिप्रभेदोऽनर्थक
एव, मदीयाः प्रत्यया इत्येतावतैव गतत्वात् । न चापि प्रतिवादिनो यथोक्तविशेषण
विशिष्टो धर्मी सिद्ध इत्याश्रयासिद्धता च हेतूनाम् । अथाऽपि विफलं विशेषणमुपा
दाय तत्साधनार्थमन्यदेव साधनमुच्यते । तथा सति प्रकृतादर्थादप्रकृतसंबद्धार्थमर्था
न्तरं निग्रहस्थानं भवेत् ॥ १९० ॥


क्वचित्समाश्रितत्वं च यदीच्छादेः प्रसाध्यते ।

तत्र कारणमात्रं चेदाश्रयः परिकल्प्यते ॥ १९१ ॥

इष्टसिद्धिस्तदाधारस्त्वाश्रयश्चेन्मतस्तव ।

तथाऽपि गतिशून्यस्य निष्फलाऽऽधारकल्पना ॥ १९२ ॥

यच्चोक्तम्—इच्छादयश्चेत्यादि, तत्र यदि कारणमात्रमाश्रय इच्छादीनां साध्यते,
तदा सिद्धसाध्यता, न हि निष्कारणा इच्छादयोऽस्माभिरिष्यन्ते । चतुर्भिश्चित्तचैत्ता
हीति वचनात् । परिकल्प्यत इति । वर्ण्यत इत्यर्थः । अथाधारलक्षण आश्रयः
साध्यते तदाऽपि प्रतिज्ञार्थस्यानुमानबाधितत्वान्न तेन हेतोर्व्याप्तिः सिद्ध्यतीति दर्श
यति—तदाधार इत्यादि । तेषामिच्छादीनामाधारस्तदाधारः । मूर्त्तानां हि भावानां
प्रसर्पणधर्माणां स्यादधःपातप्रतिबन्धादाधारकल्पना । ये तु सुखादयो गतिशून्यास्ते
षामधःपतनासंभवात्किंकुर्वन्नात्मादिराधारः स्यात् ॥ १९१ ॥ १९२ ॥


ननु यथा घटादयो बदरादीनामकिंचित्करा अप्याधारास्तद्वदात्मा सुखादीनामा
धारो भविष्यतीत्याह—आश्रय इत्यादि ।


आश्रयो बदरादीनां कुण्डादिरुपपद्यते ।

गतेर्विबन्धकरणाद्विशेषोत्पादनेन वा ॥ १९३ ॥

गतेर्विबन्धकरणादित्यक्षणिकपक्षे । विशेषोत्पादनेन वेति क्षणिकपक्षे । उपादान
कारणसमानदेशोत्पादनं तत् । अयं द्विविधोऽपि प्रकार इच्छादीनां न संभवतीति न
तेषां कश्चिदाधारो युक्तः ॥ १९३ ॥


यच्चापि वस्तुत्वे सतीति विशेषणं तदनर्थकमेव व्यवच्छेद्याभावादिति दर्शयन्नाह—
नीरूपस्येत्यादि ।


नीरूपस्य च नाशस्य कार्यत्वं नैव युक्तिमत् ।

अतो विशेषणं व्यर्थं हेतावुक्तं परैरिह ॥ १९४ ॥

085

यदि हि विनाशस्य कार्यत्वं संभवेत्तदा तद्व्यवच्छेदाय वस्तुत्वे सतीति विशेषणं
सार्थकं भवेत् । यावता तस्यावस्तुतया हेतुभिर्न किंचित्क्रियत इति कथं हेतुमत्ता
भवेत् । प्रयोगः—यदवस्तु न तत्कस्यचित्कार्यम्, यथा शशविषाणम् । अवस्तु च
नाश इति व्यापकविरुद्धोपलब्धेः । कार्यत्वे सति वस्तुत्वप्रसङ्गः सुखादिवदितीदमत्र
बाधक प्रमाणम् । किंचाभ्युपगमविरोधो भवताम् । तथाहि—कार्यमित्यात्मलाभा
ख्यात्स्वकारणसमवायात्सत्तासमवायाद्वाऽभिधानप्रत्ययौ भवतः । न च विनाशस्य
द्रव्यादिस्वभावरहितस्य स्वकारणे समवायोऽस्ति । तत्र वा सत्तायाः । तस्य नीरूप
त्वात् । अन्यथा ह्यसौ द्रव्यादिवदाश्रितोऽपि स्याद्वस्तु चेति न हेतुविशेषणेन व्यव
च्छेद्यो भवेत् । अतो वस्तुत्वे सतीति विशेषणं व्यर्थम् ॥ १९४ ॥


रूपादिप्रत्यया इत्यादावाह—मयेत्यादि ।


मयेति प्रतिसन्धानमविद्योपप्लवादिदम् ।

क्षणिकेष्वपि सर्वेषु कर्त्रेकत्वादिभासतः ॥ १९५ ॥

मिथ्याविकल्पतश्चास्मान्न युक्ता तत्त्वसंस्थितिः ।

सामर्थ्यभेदाद्भिन्नोऽपि भवत्येकनिबन्धनम् ॥ १९६ ॥

मया दृष्टं श्रुतमित्येवं यदेकज्ञातृनिमित्तत्वेन प्रत्ययानां घटनलक्षणं प्रति
सन्धानं तदेतदनैकान्तिकम् । यतः क्षणिकेष्वपि भावेषु भ्रान्तादेककर्तृत्वाभिमानतः
प्रतिसन्धानसंभवात् । तस्मादेवंभूतात्प्रतिसन्धानान्न युक्ता वस्तुव्यवस्था । कथं पुनर्भ
वतः क्षणाः प्रतिसन्धाननिमित्ततामुपगच्छन्तीत्याह—सामर्थ्यभेदादित्यादि । साम
र्थ्यभेदात्—सामर्थ्यविशेषात् । अनेकोऽप्यर्थ एकाकारपरामर्शादिकार्यस्यैकस्य निब
न्धनम्—कारणम्, यथा गुडूच्यादयो ज्वरादिशमन इति पश्चाद्विस्तरेण प्रतिपाद
यिष्यति ॥ १९५ ॥ १९६ ॥


अथ भ्रान्तत्वमेव कथमस्य निश्चितमित्याह—एकानुगामीत्यादि ।


एकानुगामिकार्यत्वे पौर्वापर्यं विरुध्यते ।

रूपशब्दादिचित्तानां शक्तकारणसन्निधेः ॥ १९७ ॥

यदि ह्येकस्य पूर्वोत्तरकालानुयायिन आत्मादेर्नित्यस्य कार्यत्वमेषां नीलादिप्रत्ययानां
स्यात्तदा क्रमभावित्वमेषां विरुध्येत । अविकलकारणत्वेन युगपदेवोत्पादप्रसङ्गात् । न
चापि नित्यस्य परापेक्षाऽस्ति । तस्य केनचिदनुपकार्यत्वात् ॥ १९७ ॥


086

किं च सामान्येन कारणपूर्वकत्वमात्रं प्रसाध्यते तदा सिद्धसाध्यतेति दर्शयति—
एकानन्तरेत्यादि ।


एकानन्तरविज्ञानात् षड्विज्ञानसमुद्भवः ।

युगपद्वेद्यते व्यक्तमत इष्टप्रसाधनम् ॥ १९८ ॥

यत एकस्मादनन्तरविज्ञानात्समनन्तरप्रत्ययात् षण्णां चक्षुरादिविज्ञानानामुत्पादः
स्पष्टं संवेद्यते । तथा हि—यदैव नर्त्तकीरूपं पश्यति, तदैव मुरजादिशब्दं शृणोति,
कुवलयादिगन्धं च जिघ्रति, कर्पूरादिरसमास्वादयति, व्यजनानिलादिस्पर्शं चानु
वति, वस्त्रादि च मनसाऽऽदातुं चिन्तयति । न चालातचक्रदर्शनवत्तद्दृष्टिराशुसंचा
रादिति युक्तं वक्तुम् । अस्पष्टप्रतिभासितत्वप्रसङ्गात् । तथा हि—दर्शनानां प्रतिस
न्धानादयं सकृद्ग्रहाभिमानो भवता वर्ण्यते । प्रतिसन्धानं च स्मृत्या क्रियते । सा
चातीतविषयत्वादस्पष्टा । स्पष्टश्चायं सकृद्रूपादिप्रतिभासः संवेद्यते । किंच सरो रस
इत्यादौ सुतरामाशु सकारादिवर्णग्राहिणां ज्ञानानामुदयोऽस्तीति । अत्राऽपि सकृद्ग्र
हाभिमानः स्यात् । ततश्च न क्वचित् क्रमो व्यवसीयेत । एतच्च पश्चाद्विस्तरेण प्रतिपा
दयिष्यते । इह तु व्यक्तमिति वचनात्परिहारदिक् प्रदर्शितैव ॥ १९८ ॥


अथ नित्यैकरूपपदार्थहेतुत्वादेषामेकनिमित्तत्वं प्रसाध्यते, तदा व्याप्तेरनुमानबा
धेति दर्शयति—क्रमिणामित्यादि ।


क्रमिणां त्वेकहेतुत्वं नैवेत्युक्तमनन्तरम् ।

अतोऽनुमानबाधाऽस्मिन्व्याप्तेर्व्यक्तं समीक्ष्यते ॥ १९९ ॥

अनन्तरमिति । एकानुगामीत्यादिना । तत्रेदं बाधनम्, ये सन्निहिता अप्रति
बद्धसामर्थ्यकारणास्ते युगपदेव भवन्ति । यथा समग्रसामग्रीकाः सकृद्भाविनोऽङ्कुरा
दयः । सन्निहिताप्रतिबद्धसामर्थ्यकारणाश्च देवदत्तश्च रूपादिविषयाः प्रत्यया इति
स्वभावहेतुः । न चैवं संभवति । तस्माद्विपर्ययः ॥ १९९ ॥


दृष्टान्तस्यापि साध्यविकलतेति दर्शयति—नर्त्तकीत्यादि ।


नर्त्तकीभ्रूलताभङ्गो नैवैकः परमार्थतः ।

अनेकाणुसमूहत्वादेकत्वं तस्य कल्पितम् ॥ २०० ॥

न हि नर्त्तकीभ्रूलतादिरेकोऽस्ति तस्यानेकाणुसमूहत्वात् । यद्येवं कथमेकशब्दवि
षयत्वं तस्य भवतीत्याह—एकत्वं तस्य कल्पितमिति ॥ २०० ॥


087

अथ कल्पनायाः किं निबन्धनमित्याह—एककार्योपयोगित्वादित्यादि ।


एककार्योपयोगित्वादेकशब्दस्य गोचरः ।

साध्योऽप्येवंविधोऽभीष्टो यदि सिद्धप्रसाधनम् ॥ २०१ ॥

यस्मादसौ भ्रूलताभङ्ग एकस्मिन्कार्ये चक्षुर्विज्ञानादिक उपयुज्यते, तस्माद्भिन्नो
ऽप्येकशब्दविषयो भवति । अथापि स्यादस्माभिरेवंविध एव कल्पितैकत्वः साध्योऽ
भिप्रेतः (अतः) साध्यविकलता दृष्टान्तस्य न भवतीत्याह—साध्योऽपीत्यादि । एवं
हि सिद्धसाध्यता, पूर्वापरीभूतानां संस्काराणामेकप्रत्ययनिमित्तानेकसत्वप्रज्ञप्तिविषय
त्वात् ॥ २०१ ॥


यच्चोक्तं बुद्धीन्द्रियादीत्यादि, अत्राह—बुद्धिचित्तेत्यादि ।


बुद्धिचित्तादिशब्दानां व्यतिरिक्ताभिधायिता ।

नैवैकपदभावेऽपि पर्यायाणां समस्ति नः ॥ २०२ ॥

अतोऽनैकान्तिको हेतुर्ननूक्त तद्विशेषणम् ।

उच्यते नैव सिद्धं तच्चेतःपर्यायतास्थितेः ॥ २०३ ॥

अहङ्काराश्रयत्वेन चित्तमात्मेति गीयते ।

संवृत्त्या वस्तुवृत्त्या तु विषयोऽस्य न विद्यते ॥ २०४ ॥

एकपदत्वादित्यनैकान्तिको हेतुः । तथाहि—बुद्धिश्चित्तं ज्ञानमिन्द्रियमक्षं वेदना
चित्तनुः कायः शरीरमित्यादीनां बुद्धिन्द्रियवेदनाशरीरपर्यायाणामेकपदत्वेऽपि नास्म
न्मतेऽस्ति तद्व्यतिरिक्तपदार्थाभिधायितेति ततो विपक्षाद्व्यावृत्त्यसिद्धेरनैकान्तिकत्वम् ।
ननु चेदमेवाशङ्क्य सिद्धपर्यायाभिन्नत्वे सतीति तस्य हेतोर्विशेषणमुक्तं तत्कथमनैका
न्तिकता भवति, तदत्राभिधीयते । असिद्धमेतद्धेतुविशेषणम्, कस्मात् ? चेतःपर्यय
तास्थितेः । आत्मेत्येतस्य चित्तपर्यायत्वव्यवस्थानात् । यथोक्तम्, चित्तमेवाहङ्कारसं
श्रयत्वादात्मेत्युपचर्यते
इति । आत्मेत्युपचर्यते—व्यवह्रियत इत्यर्थः । तेन यदुक्तं
मुद्द्योतकारेण मुख्यासंभवादुपचारो न युक्त इति तदभिप्रायापरिज्ञानादिति ग्रहीत
व्यम् । एतदेव गीयत इत्यनेन स्पष्टयति । तस्मादसिद्धविशेषणो हेतुः । एतच्च
संवृत्त्या सविषयत्वमुपगम्यास्य हेतोरनैकान्तिकत्वमुक्तम् । यदि तु परमार्थेन तु
बुद्ध्यादिव्यतिरिक्तार्थाभिधायित्वं प्रसाध्यते तदा व्याप्तेरनुमानबाधितत्वादयुक्त एवायं
हेतुरिति दर्शयन्नाह—वस्तुवृत्त्येत्यादि । अध्यारोपितार्थविषयत्वात्सर्वस्यैव शाब्दस्य
088 व्यवहारस्येति पश्चात्प्रतिपादयिष्यते । तेनास्यात्मशब्दस्य विषयो नास्त्येवेति कथं
हेतोः साध्येन व्याप्तिर्भवेदिति भावः ॥ २०२ ॥ २०३ ॥ २०४ ॥


सविशेषणोऽप्यनैकान्तिको हेतुरिति दर्शयन्नाह—नभस्तलारविन्दादावित्यादि ।


नभस्तलारविन्दादौ यदेकं विनिवेश्यते ।

कारकादिपदं तेन व्यभिचारोऽपि दृश्यते ॥ २०५ ॥

यथा हि गगनकुसुमादावत्यन्ताभावेन केनचित्कारकादिपदं निवेश्यते तदा तस्यो
भयप्रसिद्धेः शरीरादिवाचकव्यतिरिक्तत्वे सत्येकपदत्वमस्ति, न च शरीरादिव्यतिरि
क्तवस्तुविषयत्वमपीत्यनैकान्तिको हेतुः ॥ २०५ ॥


कथं पुनः कारकादिपदं निरुपाख्ये शक्यं नियोक्तुमित्याह—सङ्केतमात्रभा
विन्य
इत्यादि ।


सङ्केतमात्रभाविन्यो वाचः कुत्र न सङ्गताः ।

नैवात्मादिपदानां च प्रकृत्याऽर्थप्रकाशनम् ॥ २०६ ॥

स्वतन्त्रेच्छामात्रभावी हि सङ्केतः तन्मात्रवाचिन्यश्च वाचः, तत्कथमासां क्वचि
दपि प्रवृत्तिप्रसररोधो भवेत् । अथापि स्यादसामयिकैकपदत्वादित्ययं हेत्वर्थो विव
क्षितस्तेन व्यभिचारो न भविष्यतीत्याह—नैवेत्यादि । न हि सङ्केतमन्तरेण शब्दानां
प्रकृत्याऽर्थप्रकाशनमस्ति, अव्युत्पन्नस्यापि ततोऽर्थप्रतीतिप्रसङ्गात । स्वेच्छया च नि
योगाभावप्रसङ्गात् । सङ्केतवैयर्थ्यप्रसङ्गाच्च । तस्मादात्मादिपदानां नैव प्रकृत्याऽर्थ
प्रकाशनं सिद्धमित्यसिद्धो हेतुः । अथाविशेषास्पदपदार्थान्तर्भूतज्ञेयविषयत्वे सतीत्यपरं
विशेषणमुपादीयते । यथोक्तं भाविवक्तेन । एवमपि यथोक्तविशेषणासिद्धेरसिद्धो
हेतुर्व्याप्त्यभावाच्चानैकान्तिकः ॥ २०६ ॥


यच्चोक्तं प्राणादिभिर्वियुक्तश्चेत्यादि, तत्राह—प्राणादीनां चेत्यादि ।


प्राणादीनां च सम्बन्धो यदि सिद्धः सहात्मना ।

भवेत्तदा प्रसङ्गोऽयं युज्यते ऽसङ्गतोसङ्गतोऽन्यथा ॥ २०७ ॥

न वन्ध्यासुतशून्यत्वे जीवद्देहः प्रसज्यते ।

प्राणादिविरहे ह्येवं तवाप्येतत्प्रसञ्जनम् ॥ २०८ ॥

यदि हि प्राणादीनामात्मना सह तादात्म्यलक्षणस्तदुत्पत्तिलक्षणो वा कश्चित्संबन्धः
सिद्धो भवेत्तदाऽऽत्मनिवृत्तौ शरीरे प्राणादिनिवृत्तिप्रसङ्गो युक्तिमान्भवेत् । अन्यथा
089
ह्यप्रतिबद्धस्य निवृत्तावन्यनिवृत्तिप्रसङ्गोऽसङ्गत एव स्यादतिप्रसङ्गात् । न हि वन्ध्या
पुत्रनिवृत्तौ तदसंबद्धानां प्राणादीनां निवृत्तिर्भवति । तस्माद्यथा वन्ध्यासूनुनिवृत्तौ
तदसंबद्धानामपि प्राणादीनां निवृत्तिः प्राप्नोति घटादिवदिति केनचित्प्रसङ्गापादनं
क्रियमाणमनैकान्तिकं भवति, एवं तवाप्येतदात्मनिवृत्तौ प्राणादिनिवृत्तिप्रसञ्जनमनै
कान्तिकमेव, संबन्धासिद्धेरिति भावः ॥ २०७ ॥ २०८ ॥


कथं पुनः संबन्धासिद्धिरित्याह—न तावदित्यादि ।


न तावदिह तादात्म्यं भेदाङ्गीकरणात्तयोः ।

कार्यकारणता नापि यौगपद्यप्रसङ्गतः ॥ २०९ ॥

तदात्मनो निवृत्तौ हि तत्सम्बन्धविवर्जिताः ।

किममी विनिवर्तन्ते प्राणापानादयस्तनोः ॥ २१० ॥

भेदाङ्गीकरणात्तयोरिति । तयोरात्मप्रणादिकयोर्न तादात्म्यलक्षणः संबन्धो
ऽस्ति, स्वभावभेदाभ्युपगमात् । तथाहि—अनित्या अव्यापिनो मूर्त्ताश्च प्राणादयः,
तद्विपरीतस्त्वात्मा । नापि तदुत्पत्तिलक्षणः, प्राणादीनामविकलकारणत्वेन यौगपद्य
प्रसङ्गात् । न चैतद्व्यतिरेकेण संबन्धान्तरमस्ति । तस्मात्संबन्धरहिताः प्राणादयः
किमिति तनोः शरीराज्जीवनविशिष्टाद्विनिवर्त्तन्ते । नैव । तेनानैकान्तिको हेतुरिति
भावः । एतेनेच्छाद्वेषप्रयत्नसुखदुःखज्ञानादीनि यान्यात्मलिङ्गत्वेन परैरुक्तानि तानि
प्रतिषिद्धानि द्रष्टव्यानि, संबन्धासिद्धेः । प्रयोगः—ये यत्र न प्रतिबद्धास्ते तस्य
गमका न भवन्ति, यथा तिलादेर्बलाकादयः, न प्रतिबद्धाश्च प्राणादय आत्मनीति
व्यापकानुपलब्धिः । न चासिद्धो हेतुः । पूर्वं द्विविधस्यापि संबन्धस्य निरस्तत्वात् ।
न चाप्यनैकान्तिकः, सर्वस्य सर्वगमकत्वप्रसङ्गात् । न चापि विरुद्धः, सपक्षे भावा
दिति । यच्चाप्याहयश्चाप्याहकर्तुः प्रसिद्धिः करणप्रसिद्धेरिति, तदसिद्धम् । न हि
चक्षुरादीनां परमार्थेन करणत्वं सिद्धम्, विज्ञानोत्पत्तौ सर्वेषां हेतुभावस्य तुल्य
त्वात् । स्वेच्छामात्रपरिकल्पितत्वाच्च कर्तृकरणव्यवहारस्येति । कर्तृत्वमात्रसाधने सिद्ध
साध्यता, परिकल्पितस्यानिरस्तत्वात् । पारमार्थिककर्तृत्वसाधनेऽनैकान्तिकता । तथा
भूतेन कर्त्राक्वचिदपि चक्षुरादीनां प्रतिबन्धासिद्धेः ॥ २०९ ॥ २१० ॥


यच्चोक्तं सद्योजाताद्यविज्ञानेत्यादि, तत्राह—एवं चेत्यादि ।


एवं च साधनैः सर्वैरात्मसत्वाप्रसिद्धितः ।

नित्य(व्यापित्वयो)रुक्तं साध्यहीनं निदर्शनम् ॥ २११ ॥

090

आद्यज्ञानवत्, मदीयशरीरवत्, इति यदेतन्निदर्शनमुक्तं तद्यथोक्तसाध्यधर्मविक
लमात्मनोऽसिद्धत्वात् । अतोऽनैकान्तिकता हेतोः ॥ २११ ॥


अन्यैरित्यादिना पुनरप्युद्द्योतकरभाविविक्तादेर्मतमाशङ्कते ।


अन्यैः प्रत्यक्षसिद्धत्वमात्मनः परिकल्पितम् ।

स्वसंवेद्यो ह्यहङ्कारस्तस्यात्मा विषयो मतः ॥ २१२ ॥

ते ह्येवमाहुः—प्रत्यक्षत एवात्मा सिद्धः, तथाहि—लिङ्गलिङ्गिसंबन्धस्मृत्यनपेक्ष
महमिति ज्ञानं रूपादिज्ञानवत्प्रत्यक्षम् । अस्य च न रूपादिर्विषयः, तद्विज्ञानभित्र
प्रतिभासत्त्वात् । तस्मादन्य एव विषय इति ॥ २१२ ॥


तदयुक्तमित्यादिना प्रतिविधत्ते ।


तदयुक्तमहङ्कारे तद्रूपानवभासनात् ।

न हि नित्यविभुत्वादिनिर्भासस्तत्र लक्ष्यते ॥ २१३ ॥

गौरवर्णादिनिर्भासो व्यक्तं तत्र तु विद्यते ।

तत्स्वभावो न चाऽऽत्मेष्टो नायं तद्विषयस्ततः ॥ २१४ ॥

असिद्धमहङ्कारस्यात्मविषयत्वं तदाकारशून्यत्वात् । प्रयोगः—यद्यदाकारशून्यं न
तद्विषयम् । यथा चक्षुर्ज्ञानं न शब्दविषयम् । आत्माकारशून्यं चाहमिति ज्ञानमिति
व्यापकानुपलब्धिः । न चायमसिद्धो हेतुरिति दर्शयति—न हीत्यादि । तथा हि—
नित्यविभुत्वचेतनत्वादिगुणोपेत आत्मेष्यते । न चात्राहम्प्रत्यये नित्यत्वादिप्रतिभासो
लक्ष्यते । किंतु गौरोऽहं मन्दलोचनः परिकृशस्तीव्रवेदनाभिन्न इत्यादिदेहावस्थासं
स्पर्शेनोत्पत्तेर्गौरवर्णादिलक्षणः प्रतिभासः प्रतीयते । तस्माद्देहाद्यवस्थासंस्पर्शेनोत्पद्यमा
नोऽहङ्कारो देहाद्यालम्बन एवेति ज्ञायते । व्यक्तमिति । स्पष्टमस्खलद्वृत्तित्वात् ।
ततश्च यदुक्तमुद्द्योतकरप्रभृतिभिः—उपभोगायतने शरीरेऽयमात्मोपचारः, यथाऽनु
कूले भृत्ये राजा ब्रूते, य एवाहं स एवायं मे भृत्य इति । तदपास्तं भवति । तथा
हि—यद्ययं गौणः स्यात्तदा स्खलद्वृत्तिर्भवेत् । न हि लोके सिंहमाणवकयोर्मुख्या
रोपितयोर्द्वयोरपि सिंह इत्यस्खलिता बुद्धिर्भवति । मदीयाः शरीरादय इति व्यतिरे
कदर्शनात् स्खलद्वृत्तिरङ्कारः शरीरादिष्विति चेत् । न । आत्मन्यपि स्खलद्वृत्तित्व
प्रसङ्गात् । तत्रापि हि मदीय आत्मेति व्यतिरेको दृश्यते । कल्पितोऽत्र भेद इति
चेत् । इतरत्रापि समानमस्तु । तर्हि गौरोऽहमित्यादिप्रत्ययो मुख्यस्तथाऽपि कस्मा
091 दात्माऽस्य विषयो न भवतीत्याह—तत्स्वभाव इति । गौरादिस्वभावः । तस्य
रूपादिगुणासंभवात् ॥ २१३ ॥ २१४ ॥


एवं तावत्तदाकारशून्यत्वान्नात्मविषयोऽहङ्कारो युक्त इति वर्णितम् । तत्र विवादा
भावप्रसङ्गाच्च न युक्त इति दर्शयति—यदीत्यादि ।


यदि प्रत्यक्षगम्यश्च सत्यतः पुरुषो भवेत् ।

तत्किमर्थं विवादोऽयं तत्सत्त्वादौ प्रवर्त्तते ॥ २१५ ॥

तस्यात्मनः सत्त्वनित्यत्वविभुत्वादौ ॥ २१५ ॥


स्यादेतद्यथा भवतां प्रत्यक्षीकृतेऽपि नीलादौ तत्स्वभावाव्यति(रिक्ते)क्षणिकत्वादौ
विवादः प्रवर्त्तते । तथाऽऽत्मन्यपि भविष्यतीत्याह—तथा हीत्यादि ।


तथा हि निश्चयात्माऽयमहङ्कारः प्रवर्त्तते ।

निश्चयारोपबुद्ध्योश्च बाध्यबाधकता स्थिता ॥ २१६ ॥

युक्तो हि नीलादौ प्रत्यक्षेण गृहीतेऽपि तदव्यतिरिक्ते क्षणिकत्वादौ विवादः, तस्य
प्रत्यक्षस्य निर्विकल्पत्वेनानिश्चायकतया क्षणिकत्वादेरनिश्चितत्वात् । भवत्पक्षे तु न
युक्तोऽहम्प्रत्ययस्य सविकल्पकत्वेन निश्चयात्मकतयाऽऽत्मनो निश्चितत्वात् । न च
निश्चयेन विषयीकृते वस्तुनि तद्विपरीताकारग्राहिणः समारोपप्रत्ययस्य प्रवृत्तिरस्ति, येन
विवादो भवेत् । तयोः सहावस्थायित्वेन बाध्यबाधकभावात् । इयमेव हि निश्चयानां
स्वार्थप्रतिपत्तिर्यत्तन्निश्चयनं ते चेन्न निश्चिन्वन्ति, न गृह्णन्त्येवेति प्राप्तम् ॥ २१६ ॥


तदेवं परपक्षं निराकृत्य स्वपक्षं स्थापयन्नाह—तस्मादित्यादि ।


तस्मादिच्छादयः सर्वे नैवात्मसमवायिनः ।

क्रमेणोत्पद्यमानत्वाद्बीजाङ्कुरलतादिवत् ॥ २१७ ॥

अथ वाऽऽध्यात्मिकाः सर्वे नैरात्म्याक्रान्तमूर्त्तयः ।

वस्तुसत्त्वादिहेतुभ्यो यथा बाह्या घटादयः ॥ २१८ ॥

प्रयोगः—ये क्रमेणोत्पद्यन्ते ते नात्मसमवायिनो यथा बीजाङ्कुरलतादयः, क्रमे
णोत्पद्यन्ते च सुखादय इति विरुद्धव्याप्तोपलब्धेः । आत्मसमवायित्वविरुद्धेनानात्म
समवायित्वेन क्रमोत्पत्तेर्व्याप्तत्वात् । सन्निहिताविकलकारणत्वाद्युगपदुत्पत्तिप्रसङ्गो
विपर्यये बाधकं प्रमाणम् । अथवा—ये वस्तुत्वकृतकत्वोत्पत्तिमत्त्वादिधर्मोपेतास्ते सर्वे
निरात्मानो यथा बाह्या घटादयः, वस्तुत्वादिधर्मोपेताश्चाध्यात्मिका जीवच्छरीरजीवशरीरमनो
बुद्धिदुःखसुखादय इति स्वभावहेतुः ॥ २१७ ॥ २१८ ॥


092

कथं पुनरत्र व्याप्तिः सिद्धेत्याह—सात्मकत्वेत्यादि ।


सात्मकत्वे हि नित्यत्वं तद्धेतूनां प्रसज्यते ।

नित्याश्चार्थक्रियाऽशक्ता नातः सत्त्वादिसम्भवः ॥ २१९ ॥

यदि सात्मकत्वम्—आत्माधिष्ठितत्वं देहादीनां भवेत्, तदैषामात्मा हेतुः स्यात् ।
न ह्यकारणमधिष्ठाता युक्तोऽतिप्रसङ्गात् । ततश्च तद्धेतूनाम्—आत्महेतुकानां शरी
रादीनामविकलकारणतया नित्यत्वम्—अक्रमित्वं प्रसज्येत । स्यादेतद्यदि नाम नित्य
त्वमेषां प्रसक्तम्, तथाऽपि वस्तुत्वादिकमनुवृत्तमेवेत्याह—नित्याश्चेत्यादि । नित्याश्च
सन्तः शरीरादयोऽर्थक्रियायामशक्ताः, प्रसज्यन्त इति प्रकृतमर्थाद्वचनपरिणामेन सं
बध्यते । नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति भावः । अर्थक्रियासामर्थ्य
निवृत्तौ च वस्तुत्वनिवृत्तिरर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः । वस्तुत्वनिवृत्तौ सत्त्वादी
नामपि वस्तुधर्माणां निवृत्तिरिति सिद्धा व्याप्तिः ॥ २१९ ॥


उद्द्योतकरस्त्वाह—अथ निरात्मकमिति कोऽर्थः साध्यत्वेनेष्टः । यदि तावदात्म
नोऽनुपकारकमिति, न दृष्टान्तोऽस्ति । न हि किंचिदात्मनोऽनुपकारकमस्ति । अथा
त्मप्रतिषेध आत्मा शरीरं न भवतीति । कस्य चात्मा शरीरम्, उत्तरपदविषयत्वाच्च
निसः, किं सात्मकमिति वाच्यम् । न ह्यसत्युत्तरपदे निसः प्रयोगं पश्यामः, यथा
निर्मक्षिकमिति । अथ शरीर आत्मा प्रतिषिध्यते, सिद्धं साधयसि । कस्य वा शरीर
आत्मा विद्यते । अथ शरीरमात्मसंबन्धे(न्धि ?)न भवतीति । पुनर्दृष्टान्तो नास्ति ।
सर्वे चैते विशेषप्रतिषेधाः, विशेषप्रतिषेधाच्च सामान्यं गम्यते । एवं सति यत्प्रतिषे
द्धव्यं तदभ्यनुज्ञातं भवति । अथात्मशब्दः शब्दत्वादनित्यविषय इति साध्यते ।
तथाऽपि नित्यशब्देनानैकान्तिकः । शरीरादीनां चोपचारादात्मवाच्यत्वात्सिद्धसाध
नम् । अथ शरीरादिव्यतिरिक्तानित्यपदार्थविषयत्वेनानित्यविषय आत्मशब्दः साध्यते ।
तथापि रूपादिव्यतिरिक्तविषयाभ्युपगमाद्विरोध इति । तदेतत्प्रतिविधत्ते—घटादि
ष्वित्यादि ।


घटादिषु समानं च यवैरात्मा(यन्नैरात्म्यं ?)निषिध्यते ।

परैर्जीवच्छरीरेऽस्मिंस्तदस्माभिः प्रसाध्यते ॥ २२० ॥

तदेतद्भवतोऽपि तुल्यं चोद्यम् । तथाहि—घटादिषु बाह्येषु आत्मानधिष्ठितत्वेन
तदुपभोगानायतनत्वेन वा नैरात्म्यं भवद्भिरपीष्यत एव । अन्यथा नेदं निरात्मकं
जीवशरीरमप्राणादिमत्त्वप्रसङ्गाद्घटादिवदिति प्रसङ्गे दृष्टान्तत्वेन तेषामुपादानं न
093 स्यात् । ततश्च तत्रापि घटादिषु तुल्यं चोद्यं कथमेषां नैरात्म्यं यदि तावदात्मानुप
कारक
मित्यादि । तस्माद्येन प्रकारेणात्मानधिष्ठितत्वेन वा तदुपभोगानायतनत्वेन वा
तेषु घटादिषु बाह्येषु सर्वेषु साधारणं नैरात्म्यं भवतामपि प्रसिद्धम् । यच्च जीवच्छ
रीरे भवद्भिर्निषिध्यते नेदं निरात्मकं जीवच्छरीरमिति, यस्य निषेधाज्जीवच्छरीरमेव
सात्मकमुपगम्यते न मृतशरीरघटादय इति, तदेवास्माभिः प्रसाध्यते, निरात्मकं
जीवच्छरीरं वस्तुत्वादिभ्य इति । तस्मादात्मनोऽनुपकारकमित्यादिविकल्पोऽनास्पद
एव, भवतामपि नैरात्म्यस्य प्रसिद्धत्वात् । किंच—यत्तावदुक्तमात्मानुपकारित्वसिद्धौ
न दृष्टान्तोऽस्तीति, तदसम्यक् । तथाहि—शक्यमेवं प्रसाधयितुम्, यो यस्य स्वभा
वातिशयं नाधत्ते नासौ तस्योपकारी, यथा विन्ध्यो हिमवतः, नाधत्ते चात्मनो
नित्यैकरूपस्य स्वभावातिशयं शरीरादय इति व्यापकानुपलब्धेः । न चासिद्धो हेतुः ।
स्वभावातिशयस्यात्माव्यतिरिक्तत्वात् । तदाधाने सत्यात्मन एवाऽऽधानं स्यात् ।
ततश्चानित्यत्वप्रसङ्गः । व्यतिरेके च स्वभावातिशयस्य संबन्धनिबन्धनाभावात्तदीयो
ऽसाविति संबन्धो न सिद्ध्येत् । तस्मान्नित्यस्य न कश्चिदुपकारी संभवति, तस्य
तत्राकिंचित्करत्वात् । यच्चोक्तम्—कस्य चात्मा शरीरमिति, तदप्यसम्यक् । सन्ति हि
केचिदेवंविधा ये शरीरादीनात्मपरिणामरूपान्वर्णयन्ति । यथोपनिषद्वादिनः । अत
स्तान्प्रति(प्रति)षिध्यते । यच्चोक्तम्—उत्तरपदार्थविषयत्वान्निसः किं सात्मकमिति
वाच्यमिति । तदप्यसङ्गतम् । न ह्युत्तरपदार्थः सन्नेव निषिध्यते । किं तर्हि ? ।
समारोपितः । सतः प्रतिषेद्धुमशक्यत्वात् । ततश्च योऽसौ परेण भ्रान्त्या समारोपि
तोऽर्थः स एवोत्तरपदार्थो भवति । यतस्तमेवानूद्य परस्य मिथ्याज्ञानत्वमाख्यापयितुं
प्रतिषेधः क्रियते । अन्यथा ह्यक्षणिकाः प्रदीपादय इत्यादौ बौद्धपरिकल्पितक्षणिकत्व
निषेधे भवता क्रियमाणे चोद्यमेतदापतत्येव, न ह्यसत्युत्तरपदे नञः प्रयोगं पश्याम
इति । यच्चोक्तम्—कस्य वा शरीरे आत्मा विद्यत इति, तदप्यसम्यक् । तथा हि—
येषां दर्शनमङ्गुष्ठपर्वार्द्धश्यामकादिफलप्रमाण आत्मेति, तेषां मतेनात्मनो मूर्त्तत्वाच्छ
रीरस्थितिरस्त्येवेति, तान्प्रति (प्रति)षेधो युज्यत एव । यच्चोक्तम्—शरीरस्यात्मसंबन्धि
त्वनिषेधे दृष्टान्तो नास्तीति, तदसिद्धम् । परस्परमुपकार्योपकारकत्वाभावाद्विन्ध्यहिम
वतोरिव नात्मशरीरयोः संबन्धोऽस्तीति पूर्ववत्प्रसाधयितुं शक्यत्वात् । यच्चोक्तम्—
विशेषप्रतिषेधाच्च सामान्यं गम्यत इति, तदनेकान्तम् । भवद्भिः प्रदीपादीनां क्षणिकत्व
प्रतिषेधेऽपि कस्यचित्क्षणिकत्वसामान्येनानभ्युपगमात् । अथाऽपि स्यादिष्यत एवा
094 स्माभिरचिरकालावस्थायित्वनिबन्धना प्रदीपादौ क्षणिकशब्दप्रवृत्तिरतः सामान्येन
क्षणिकत्वं सिद्धमेवेति । यद्येवमात्मशब्दप्रवृत्तिरप्यस्माभिरहङ्कारसंमिश्रिते चेतसीष्टैवेति
सिद्धः सामान्येनात्मा । यच्चोक्तम्—अथात्मशब्दोऽनित्यत्वविषय इत्यादिपक्षद्वयम्,
तदप्यसङ्गतमेव । अनभ्युपगमात् । न ह्यात्मशब्दस्य कश्चित्परमार्थेन विषयोऽभ्युप
गतः । नापि रूपादिव्यतिरिक्तः । न चापि नित्यशब्दस्य परमार्थेन क्वचिन्नित्ये
वस्तुनि वृत्तिः सिद्धा, येन व्यभिचारः स्यात् । नापि शरीरादिष्वात्मशब्दस्योपचारा
द्वृत्तिरस्खलद्गतित्वादित्युक्तमतो न प्रसिद्धसाधनम् ॥ २२० ॥


इत्थमात्माप्रसिद्धौ च प्रक्रिया तत्र या कृता ।

निरास्पदैव सा सर्वा वन्ध्यापुत्र इव स्थिता ॥ २२१ ॥

इति नैयायिकवैशेषिकपरिकल्पितात्मपरीक्षा ।

तदेवमात्माख्यस्य धर्मिणः प्रमाणव्याहतत्वेनाप्रसिद्धत्वात्तत्र या कर्तृत्वभो
क्तृत्वादिप्रक्रिया भवद्भिरुपचरिता सा वन्ध्यापुत्र इव निरास्पदेति न पृथग्दूषण
मस्याः क्रियते । आश्रयनिराकरणेनैवास्याः प्रतिक्षिप्तत्वात् । कृतनाशाकृताभ्यागम
दोषश्च यथा न भवति तथा कर्मफलसंबन्धपरीक्षायां प्रतिपादयिष्यते ॥ २२१ ॥


इति नैयायिकवैशेषिकपरिकल्पितात्मपरीक्षा ।