विशेषपरीक्षा ।

263

विशेषदूषणमाह—ये पुनरित्यादि ।


ये पुनः कल्पिता एते विशेषा अन्त्यभाविनः ।

नित्यद्रव्यव्यपोहेन तेऽप्यसंभविताः क्षणाः ॥ ८१३ ॥

यत्तावन्नित्यद्रव्यवृत्तित्वमन्त्यद्रव्यभावित्वं च विशेषाणां लक्षणमुक्तं तदसम्भवदो
षदुष्टत्वादलक्षणमेव, नहि नित्यं किंचिद्द्रव्यमस्ति, तस्य पूर्वं द्रव्यपरीक्षायां व्यपोढ
त्वात्, तत्कथं तद्वृत्तित्वमेषां सिद्ध्येत् ॥ ८१३ ॥