यद्येवं कथं तर्हि माध्यस्थ्यबुद्धिरित्याहि—शातकुम्भेत्यदि ।
शातकुम्भात्मकौ सुवर्णस्वभावौ वर्द्धमानरुचकाख्यौ भावौ क्रमेण यदा पश्यति
मूढमतिः, पश्यन्नपि स्वभावविवेकं सदृशापरोत्पत्तिविप्रलब्धो विवेचयितुमशक्त
त्वादतएव समानापरभावेन भ्रान्तिनिमित्तेन विप्रलब्धोऽवस्थाद्वयेऽपि हेम्नः स्थिरत्वं
मन्यते । समानापरभावेनेति । अहेमव्यावृत्तिमात्रसाधर्म्येण समानस्यापरस्य
भाव उत्पादः समानापरभावः । कथं पुनरवसीयते समानापरभावेन विप्रलब्धः
स्थिरत्वं मन्यते, न तु पुनर्वस्तुन एव तथाभावादित्याह—हेम्न इत्यादि । यदि हेम्नः
स्थिरत्वं स्यात्तदा तदव्यतिरिक्तं रुचकाद्यपि वर्द्धमानावस्थासु दृश्येत, उपलब्धिलक्ष
णप्राप्तत्वात् । अन्यथा—यदि रुचकस्य वर्द्धमानावस्थायां न दृष्टिर्वर्द्धमानस्य रुचका
वस्थायामुपलब्धिलक्षणप्राप्तस्य, तदानीं तयोः परस्परतो भेदः, ततश्च ताभ्याम
व्यतिरेकाच्च तत्स्वभाववद्धेम्नोऽपि भेदः सिद्धः स्यादित्यालोच्याह—अनेकताऽन्य
थेति । यच्चावधीकृतवस्तुभ्य इत्यादि भेदसाधनमुक्तं तत्र सिद्धसाध्यतैवेति दूषणमु
च्यते ॥ १७८४ ॥ १७८५ ॥
त्रैकाल्यपरीक्षा ।
असङ्क्रान्तिमित्यस्य समर्थनार्थमाह—हेमेत्यादि ।
नाऽवस्थानं तु कस्यचिदित्यत्रेदं चोद्यम् । ननु कथमिदमुच्यते नावस्थानं तु
कस्यचिदिति, यावता कैश्चिद्धर्मत्रातप्रभृतिभिर्बौद्धैरपि कालत्रयावस्थितो भाव इष्टोऽ
वस्थाभेदात्, हेमानुगमसाधर्म्येण ॥ १७८६ ॥
एतदेव द्वितीयेन श्लोकेन दर्शयति ।