भासमान इत्यादिना प्रतिविधत्ते ।
तत्र प्रत्यक्षसिद्धोऽर्थो बाह्यो भवन्ननेको वा परमाणुतोऽभिन्नो भवेत्, एको वा
तैरारब्धोऽवयवी, स्थूलोऽनारब्धो वेति पक्षाः । तत्र न तावदाद्यः, निरंशानामने
केषामणूनां मूर्त्तानां ग्राहकस्य प्रत्ययस्याप्रतिवेदनात् । नित्यं स्थूलाकारस्यैव ज्ञानस्या
नुभूयमानत्वात् । प्रत्यये तेषामप्रतिवेदनादिति सप्तम्यन्तस्य पाठोऽसमस्तः । प्रयोगः—
यः प्रत्यक्षाभिमते प्रत्यये न प्रतिभासते स्वेनाकारेण, न स प्रत्यक्षत्वेन ग्रहीतव्यः,
यथा गगननलिनम्, न प्रतिभासते च प्रत्यक्षाभिमते प्रत्यये स्थूलाकारोपग्राहिणि
परमाणुरनेको मूर्त्त इति व्यापकानुपलब्धिः । आत्माकारप्रतिभासित्वेन प्रत्यक्षस्य
व्याप्तत्वात् । तामेव व्याप्तिं प्रतिपादयन्नाह—व्यपेतेत्यादि ॥ १९६७ ॥ ११६८ ॥
॥ १९६९ ॥