82 द्रव्यपर्याययोरभेदोऽभ्युपगम्यते तदा घटपटयोरप्यभेदोऽभ्यु
पगन्तव्यः । अथ मन्यसे द्रव्यपर्याययोः परस्परतोऽनैका
न्तिको भेदो अभेदो वा अभ्युपगम्यते, किं तु देशकालस्व
भावाना21 मभेदात् उतोच्यते सङ्ख्यासंज्ञालक्षणार्थभेदात् भेदस्तु
वर्ण्यते । न हि कटकादीनामन्यो देशोऽन्यं एव सुवर्णस्य च!
न च कटकादयः सुवर्णाद्भिन्नकालाः! नापि कटकादीनां
सुवर्णस्य च स्वभावे नानात्वमस्ति! अतो देशकालस्वभावा
नामेकत्वादेकता द्रव्यपर्याययोः । एकं द्रव्यं बहवः पर्याया इति
सङ्ख्यासंज्ञाभेदः । अनुवृत्तिलक्षणं द्रव्यं । व्यावृत्तिलक्षणाः
पर्यायाः इति लक्षणभेदः । केयूरकटकाभ्यां च कफोणि पाणि
भूषणं क्रियते, सुवर्णेन तु केयूरादिकं तदेवेति कार्यमपि भिद्यते
द्रव्यपर्याययोः । अतः 22संख्यासंज्ञालक्षणप्रयोजनभेदात् भिन्नत्वं
द्रव्यपर्याययोरिति ॥


अत्रैवं चिन्त्यते; यदि तावत् द्रव्यपर्याययोः स्वभावा
भेदेन अभेदमभिधत्ते तदा द्रव्यपर्याययोरेकरूपतैव तात्त्वि
कीति संख्यादिभेदाद्भिन्नरूपता कल्पनामात्रकल्पिता स्यात् ।

  1. मभेदादेकतोच्यते इति स्यात्; उत्तरत्र एकत्वादेकता इति निगमनात् ॥

  2. Cf. Āptamīmāmsā IV 72

    संज्ञांसंख्याविशेषाच्च स्वलक्षणविशेषतः ।
    प्रयोजनादिभेदाच्च तन्नानात्वं न सर्वथा ॥