148-b
शैरियौ शिरीषो दर्भो वरी वसुकचित्रकौ ।
बिल्वं चैवाजशृङ्गी च बृहतीद्वयमेव च ॥ २२ ॥
वरुणादिगणो ह्येष कफमेदोनिवारणः ।
विनिहन्ति शिरःशूलं गुल्माद्यन्तरविद्रधीन् ॥ २३ ॥
वरुणत्वक्कषायं तु पीतं च गुडसंयुतम् ।
अश्मरीं पातयत्याशु बस्तिशूलनिवारणम् ॥ २४ ॥
यवक्षारं गुडोन्मिश्रं पिबेत्पुष्पफलोद्भवम् ।
रसं मूत्रविबन्धघ्नं शर्काश्मरिविनाशनम् ॥ २५ ॥
पिबेद्वरुणमूलत्वक्क्वाथं तत्कल्कसंयुतम् ।
क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरिघातनः ॥ २६ ॥
नागरवारुणगोक्षुर-
पाषाणभेदकपोतवल्कजः क्वाथः ।
गुडयावशूकमिश्रः
पीतो हन्त्यश्मरीमुग्राम् ॥ २७ ॥
वरुणत्वक्शिलाभेदशुण्ठीगोक्षुरकैः कृतः ।
कषायः क्षारसंयुक्तः शर्करां च भिनत्त्यपि ॥ २८ ॥
श्वदंष्ट्रैरण्डपत्राणि नागरं वरुणत्वचम् ।
एतत्क्वाथवरं प्रातः पिबेदश्मरिभेदनम् ॥ २९ ॥
मूलं श्वदंष्ट्राक्षुरकोरुबूकात्
क्षीरेण पिष्टं बृहतीद्वयाच्च ।
आलोड्य दघ्ना मधुरेण पेयं
दिनानि सप्ताश्मरिभेदनार्थम् ॥ ३० ॥
पक्वेक्ष्वाकुरसः क्षारः सितायुक्तोऽश्मरीहरः ॥ ३१ ॥
पाषाणरोगपीडां सौवर्चलयुक्ता सुरा जयति ।
तद्वन्मधुदुग्धयुक्ता त्रिरात्रं तिलनालभूतिश्च ॥ ३२ ॥