27-a
१०तुलाद्रव्ये जलद्रोणो द्रोणे द्रव्यतुला मता ।
वत्सकस्य च बीजानि दार्व्याश्च त्वच उत्तमाः ॥ ९० ॥
पिप्पली शृङ्गवेरं च लाक्षा कटुकरोहिणी ।
षड्भिरेभिर्घृतं सिद्धं पेयं मण्डावचारितम् ।
अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम् ॥ ९१ ॥
११क्षीरिद्रुमाभिरुरसे विपक्वं
तज्जैश्च कल्कैः पयसा च सर्पिः ।
सितोपलार्धं मधु पादयुक्तं
रक्तातिसारं शमयत्युदीर्णम् ॥ ९२ ॥
जीर्णेऽमृतोपमं क्षीरमतीसारे विशेषतः ।
छागं तु भेषजैः सिद्धं देयं वा वारिसाधितम् ॥ ९३ ॥
बालं बिल्वं गुडं तैलं पिप्पलीविश्वभेषजम् ।
लिह्याद्वाते प्रतिहते सशूले सप्रवाहिके ॥ ९४ ॥
पयसा पिप्पलीकल्कः पीतो वा मरिचोद्भवः ।
त्र्यहात्प्रवाहिकां हन्ति चिरकालानुबन्धिनीम् ॥ ९५ ॥
कल्कः स्याद्बालबिल्वानां तिलकल्कश्च तत्समः ।
दध्नः साराम्लः स्नेहाढ्यः खण्डो हन्यात्प्रवाहिकाम्
बिल्वोषणं गुडं लोध्रं तैलं लिह्यात्प्रवाहणे ॥ ९६ ॥
दध्ना ससारेण समाक्षिकेण
भुञ्जीत निश्चारकपीडितस्तु ।
सुतप्तकुष्यक्वथितेन वापि
क्षीरेण शीतेन मधुप्लुतेन ॥ ९७ ॥
दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत् ।
स पिबेत्फाणितं शुण्ठीदधितैलपयोघृतम् ॥ ९८ ॥
शोथं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम् ।
छर्दिं मूर्च्छां च हिक्कां च दृष्ट्वातीसारिणं त्यजेत् ।
बहुमेही नरो यस्तु भिन्नविट्को न जीवति ॥ ९९ ॥