190-a
आभाफलत्रिकैर्व्योषैः सर्वैरेभिः समीकृतैः ।
तुल्यो गुग्गुलुरायोज्यो भग्नसन्धिप्रसाधकः ॥ १५ ॥
सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तमैः ।
प्रतिसार्य कषायैश्च शेषं भग्नवदाचरेत् ॥ १६ ॥
भग्नं नैति यथा पाकं प्रयतेत तथा भिषक् ।
वातव्याधिविनिर्दिष्टान्स्नेहानत्र प्रयोजयेत् ॥ १७ ॥
रात्रौ रात्रौ तिलान्कृष्णान्वासयेदस्थिरे जले ।
दिवादिवैवं संशोष्य क्षीरेण परिभावयेत् ॥ १८ ॥
तृतीयं सप्तरात्रं च भावयेन्मधुकाम्बुना ।
ततः क्षीरं पुनः पीतान्सुशुष्कांश्चूर्णयेद्भिषक् ॥ १९ ॥
काकोल्यादिश्वदंष्ट्रां च मञ्जिष्ठां शारिवां तथा ।
कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम् ॥ २० ॥
शतपुष्पां च संचूर्ण्य तिलचूर्णेन योजयेत् ।
पीडनार्थं च कर्तव्यं सर्वगन्धैः शृतं पयः ॥ २१ ॥
चतुर्गुणेन पयसा तत्तैलं विपचेत्पुनः ।
एलामंशुमतीं पत्रं जीरकं तगरं तथा ॥ २२ ॥
लोध्रं प्रपौण्डरीकं च तथा कालानुशारिवाम् ।
शैलेयकं क्षीरशुक्लामनन्तां समधूलिकाम् ॥ २३ ॥
पिष्ट्वा शृङ्गाटकं चैव प्रागुक्तान्यौषधानि च ।
एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाग्निना ॥ २४ ॥
एततैलं सदा पथ्यं भग्नानां सर्वकर्मसु ।
आक्षेपके पक्षाघाते चाङ्गशोषे तथार्दिते ॥ २५ ॥
मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ।
बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः ॥ २६ ॥
पथ्यं पाने तथाभ्यङ्गे नस्ये वस्तिषु योजयेत् ।
ग्रीवास्कन्धोरसां वृद्धिरनेनैवोपजायते ॥ २७ ॥