Adhikāra 49
191-a१वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु ।
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्र्यम् ॥ १ ॥
प्रोञ्छनमल्पे कुष्ठे महति च शस्तं शिराव्यधनम् ।
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान् ॥ २ ॥
वचावासापटोलानां निम्बस्य फलिनीत्वचः ।
कषायो मधुना पीतो वान्तिकृन्मदनान्वितः ॥ ३ ॥
२विरेचनं तु कर्तव्यं त्रिवृद्दन्तीफलत्रिकैः ॥ ४ ॥
ये लेपाः कुष्ठानां
प्रयुज्यन्ते निर्गतास्रदोषाणाम् ।
संशोधिताशयानां
सद्यः सिद्धिर्भवति तेषाम् ॥ ५ ॥
मनःशिलाले मरिचानि तैल-
मार्कं पयः कुष्ठहरः प्रदेहः ।
करञ्जबीजैडगजः सकुष्ठो
गोमूत्रपिष्टश्च वरः प्रदेहः ॥ ६ ॥
पत्राणि पिष्ट्वा चतुरङ्गुलस्य
तक्रेण पर्णान्यथ काकमाच्याः ।
तैलाक्तगात्रस्य नरस्य कुष्ठा-
न्युद्वर्तयेदश्वहनच्छदैश्च ॥ ७ ॥
आरग्वधः सैडगजः करञ्जो
वासा गुडूची मदनं हरिद्रे ।
श्र्याह्वः सुराह्वः खदिरो धवश्च
निम्बो विडङ्गं करवीरकश्च ॥ ८ ॥
ग्रन्थिश्च भौर्जो लशुनः शिरीषः
सलोमशो गुग्गुलुकृष्णगन्धे ।
191-b
फणिज्जको वत्सकसप्तपर्णी-
पीलूनि कुष्टं सुमनःप्रवालः ॥ ९ ॥
वचाहरेणुत्रिवृतानि कुम्भी
भल्लातकं गैरिकमञ्जनं च ।
मनःशिलाले गृहधूम एला-
कासीसलोध्रार्जुनमुस्तसर्जाः ॥ १० ॥
इत्यर्धरूपैर्विहिताः षडेते
गोपित्तपीताः पुनरेव पिष्टाः ।
सिद्धाः परं सर्षपतैलयुक्ता-
श्चूर्णप्रदेहा भिषजा प्रयोज्याः ॥ ११ ॥
कुष्ठानि कृच्छ्राणि नवं किलासं
सुरेन्द्रलुप्तं किटिभं सदद्रुम् ।
भगन्दरार्शांस्यपचीं सपामां
हन्युः प्रयुक्ता अचिरान्नराणाम् ॥ १२ ॥
३मनःशिलात्वक्कुटजात्सकुष्टा-
त्सलोमशः सैडगजः करञ्जः ।
ग्रन्थिश्च भौर्जः करवीरमूलं
चूर्णानि साध्यानि तुषोदकेन ॥ १३ ॥
पलाशनिर्दाहरसेन वापि
कर्षोद्धृतान्याढकसंमितेन ।
दार्वीप्रलेपं प्रवदन्ति लेप-
मेतत्परं कुष्ठविनाशनाय ॥ १४ ॥
कुष्टं हरिद्रे सरसं पटोलं
निम्बाश्वगन्धे सुरदारुशिग्रु ।
ससर्षपं तुम्बुरुधान्यवन्य-
चण्डाश्च दूर्वाश्च समानि कुर्यात् ॥ १५ ॥
तैस्तक्रयुक्तैः प्रथमं शरीरं
तैलाक्तमुद्वर्तयितुं यतेत ।
तथास्य कण्डूः पिडकाः सकोठाः
कुष्ठानि शोथाश्च शमं प्रयान्ति ॥ १६ ॥
४धात्र्यक्षपथ्याक्रिमिशत्रुवह्नि-
भल्लातकावल्गुजलौहभृङ्गैः ।
भागाभिवृद्धैस्तिलतैलमिश्रैः
सर्वाणि कुष्ठानि निहन्ति लेपः ॥ १७ ॥
विडङ्गसैन्धवशिवाशशिरेखासर्षपकरञ्जरजनीभिः
गोजलपिष्टो लेपः कुष्ठदरो दिवसनाथसमः ॥ १८ ॥
विडङ्गैडगजाकुष्ठनिशासिन्धूत्थसर्षपैः ।
धान्याम्लपिष्टैर्लेपोऽयं दद्रूकुष्ठरुजापहः ॥ १९ ॥
दूर्वाभयासैन्धवचक्रमर्द-
कुठेरकाः काञ्जिकतक्रपिष्टाः ।
त्रिभिः प्रलेपैरतिबद्धमूलं
दद्रुं च कुष्ठं च निवारयन्ति ॥ २० ॥
तुल्यो रसः सालतरोस्तुषेण
सचक्रमर्दोऽप्यभयाविमिश्रः ।
पानीयभक्तेन तदाम्बुपिष्टो
लेपः कृतो दद्रुगजेन्द्रसिंहः ॥ २१ ॥
५प्रपुन्नाडस्य बीजानि धात्रीसर्जरसः स्नुही ।
सौवीरपिष्टं दद्रूणामेतदुद्वर्तनं परम् ॥ २२ ॥
चक्रमर्दकबीजानि करञ्जं च समांशकम् ।
स्तोकं सुदर्शनामूलं दद्रुकुष्ठविनाशनम् ॥ २३ ॥
लेपनाद्भक्षणाच्चैव तृणकं दद्रुनाशनम् ।
यूथीपुन्नागमूलं च लेपात्काञ्जिकपेषितम् ॥ २४ ॥
कासमर्दकमूलं च सौवीरेण च पेषितम् ।
दद्रुकिटिभकुष्ठानि जयेदेतत्प्रलेपनात् ॥ २५ ॥
शिखरिरसेन सुपिष्टं मूलकबीजं प्रलेपतः सिध्मः ।
क्षारेण वा कदल्या रजनीमिश्रेण नाशयति ॥ २६ ॥
गन्धपाषाणचूर्णेन यवक्षारेण पेषितम् ।
सिध्मनाशं व्रजत्याशु कटुतैलयुतेन वा ॥ २७ ॥
कासमर्दकबीजानि मूलकानां तथैव च ।
गन्धपाषाणमिश्राणि सिध्मानां परमौषधम् ॥ २८ ॥
धात्रीरसः सर्जरसः सपाक्यः
सौवीरपिष्टश्च तथा युतश्च ।
भवन्ति सिध्मानि यथा न भूय-
स्तथैवमुद्वर्तनकं करोति ॥ २९ ॥
६कुष्टं मूलकबीजं प्रियङ्गवः सर्षपास्तथा रजनी ।
एतत्केशरकुष्ठं निहन्ति बहुवार्षिकं सिध्म ॥ ३० ॥
नीलकुरुण्टकपत्रं स्वरसेनालिप्य गात्रमतिबहुशः
लिम्पेन्मूलकबीजैस्तक्रेणैतद्धि सिध्मनाशाय ॥ ३१ ॥
चक्राह्वयं स्नुहीक्षीरभावितं मूत्रसंयुतम् ।
रवितप्तं हि किञ्चित्तु लेपनात्किटिभापहम् ॥ ३२ ॥
आरग्वधस्य पत्राणि आरनालेन पेषयेत् ।
दद्रूकिटिभकुष्ठानि हन्ति सिध्मानमेव च ॥ ३३ ॥
बीजानि वा मूलकसर्षपाणां
लाक्षारजन्यौ प्रपुणाडवीजम् ।
श्रीवेष्टकव्योषविडङ्गकुष्ठं
पिष्ट्वा च मूत्रेण तु लेपनं स्यात् ॥ ३४ ॥
दद्रूणि सिध्मं किटिभानि पामां
कापालकुष्ठं विषमं च हन्यात् ॥ ३५ ॥
७एडगजकुष्ठसैन्धवसौवीरसर्षपैः क्रिमिघ्नैश्च ।
क्रिमिसिध्मदद्रुमण्डलकुष्ठानां नाशनो लेपः ॥ ३६ ॥
स्नुक्काण्डे सर्षपात्कल्कः कुकूलानलपाचितः ।
लेपाद्विचर्चिकां हन्ति रागवेग इव त्रपाम् ॥ ३७ ॥
स्नुक्काण्डे शुषिरे दग्ध्वा गृहधूमं ससैन्धवम् ।
अन्तर्धूमं तैलयुक्तं लेपाद्धन्ति विचर्चिकाम् ॥ ३८ ॥
एडगजातिलसर्षपकुष्ठमागधिकालवणत्रयमस्तु ।
पूतिकृतं दिवसत्रयमेतद्धन्ति विचर्चिकादद्रुसकुष्ठम् ॥ ३९ ॥
उन्मत्तकस्य बीजेन माणकक्षारवारिणा ।
कटुतैलं विपक्तव्यं शीघ्रं हन्याद्विपादिकाम् ॥ ४० ॥
नारिकेलोदके न्यस्तस्तण्डुलः पूतितां गतः ।
लेपाद्विपादिकां हन्ति चिरकालानुबन्धिनीम् ॥ ४१ ॥
सर्जरसः सिन्धुसम्भव-
गुडमधुमहिषाक्षगैरिकं सघृतम् ।
सिक्थकमेतत्पक्वं
पादस्फुटनापहं सिद्धम् ॥ ४२ ॥
अवल्गुजं कासमर्दं चक्रमर्दं निशायुतम् ।
माणिमन्थेन तुल्यांशं मस्तुकाञ्जिकपेषितम् ॥ ४३ ॥
कच्छूं कण्डूं जयत्युग्रां सिद्ध एष प्रयोगराट् ।
कोमलं सिंहास्यदलं
सनिशं सुरभिजलेन संपिष्टम् ॥ ४४ ॥
दिवसत्रयेण नियतं
क्षपयति कच्छूं विलेपनतः ।
194-a
८हरिद्राकल्कसंयुक्तं गोमूत्रस्य पलद्वयम् ॥ ४५ ॥
पिबेन्नरः कामचारी कच्छुपामाविनाशनम् ।
शोथपाण्ड्वामयहरी गुल्ममेहकफापहा ।
कच्छुपामाहरी चैव पथ्यागोमूत्रसाधिता ॥ ४६ ॥
पिबति सकटुतैलं गण्डपाषाणचूर्णं
रविकिरणसुतप्तं पामलो यः पलार्धम् ।
त्रिदिनतदनुसिक्तः क्षीरभोजी च शीघ्रं
भवति कनकदीप्त्या कामयुक्तो मनुष्यः ॥ ४७ ॥
९निशासुधारग्वधकाकमाची-
पत्रैः सदार्वीप्रपुणाडबीजैः ।
तक्रेण पिष्टैः कटुतैलमिश्रैः
पामादिषूद्वर्तनमेतदिष्टम् ॥ ४८ ॥
सिन्दूरमरिचचूर्णं महिषीनवनीतसंयुतं बहुशः ।
लेपाद्विनिहन्ति पामां तैलं करवीरसिद्धं वा ॥ ४९ ॥
मांसीचन्दनसम्पाककरञ्जारिष्टसर्षपम् ।
शटीकुटजदार्व्यब्दं हन्ति कुष्ठमयं गणः ॥ ५० ॥
भल्लातकद्वीपिसुधार्कमूलं
गुञ्जाफलं त्र्यूषणशङ्खचूर्णम् ।
तुत्थं सकुष्ठं लवणानि पञ्च
क्षारद्वयं लाङ्गलिकां च पक्त्वा ॥ ५१ ॥
स्नुहार्कदुग्धे घनमायसस्थं
शलाकया तं विदधीत लेपम् ।
कुष्ठे किलासे तिलकालके च
अशेषदुर्नामसु चर्मकीले ॥ ५२ ॥
विषवरुणहरिद्राचित्रकागारधूम-
मनलमरिचदूर्वाः क्षीरमर्कस्नुहाभ्याम् ।
दहति पतितमात्रात्कुष्ठजातीरशेषाः
कुलिशमिव सरोषाच्छक्रहस्ताद्विमुक्तम् ॥ ५३ ॥
१०शशाङ्कलेखा सविडङ्गसारा
सपिप्पलीका सहुताशमूला ।
सायोमला सामलका सतैला
सर्वाणि कुष्ठान्युपहन्ति लीढा ॥ ५४ ॥
तीव्रेण कुष्ठेन परीतदेहो
यः सोमराजीं नियमेन खादेत् ।
संवत्सरं कृष्णतिलद्वितीयां
स सोमराजीं वपुषातिशेते ॥ ५५ ॥
घर्मसेवी कदुष्णेन वारिणा वागुजीं पिबेत् ।
क्षीरभोजी त्रिसप्ताहात्कुष्ठरोगाद्विमुच्यते ॥ ५६ ॥
एकस्तिलस्य भागौ द्वौ सोमराज्यास्तथैव च ।
भक्ष्यमाणमिदं प्रातर्गुह्यदद्रुविनाशनम् ॥ ५७ ॥
अवल्गुजाद्बीजकर्षं पीत्वा कोष्णेन वारिणा ।
भोजनं सर्पिषा कार्यं सर्वकुष्ठप्रणाशनम् ॥ ५८ ॥
त्रिफलापटोलरजनीमञ्जिष्ठारोहिणीवचानिम्बैः ।
एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम् ॥ ५९ ॥
११छिन्नायाः स्वरसो वापि सेव्यमानो यथावलम् ।
जीर्णे घृतेन भुञ्जीत स्वल्पं यूषोदकेन वा ।
अतिपूतिशरीरोऽपि दिव्यरूपो भवेन्नरः ॥ ६० ॥
पटोलखदिरारिष्टत्रिफलाकृष्णवेत्रजम् ।
तिक्ताशनः पिबेत्क्वाथं कुष्ठी कुष्ठं व्यपोहति ॥ ६१ ॥
तिलाज्यत्रिफलाक्षौद्रव्योषभल्लातशर्कराः ।
वृष्याः सप्त समो मेध्यः कुष्ठहा कामचारिणः ॥ ६२ ॥
विडङ्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम् ।
हन्ति कुष्ठं क्रिमीन्मेहान्नाडीव्रणभगन्दरान् ॥ ६३ ॥
इन्द्राशनं समादाय प्रशस्तेऽहनि चोद्धृतम् ।
तच्चूर्णं मधुसर्पिर्भ्यां लिहेत्क्षीरघृताशनः ॥ ६४ ॥
हत्वा च सर्वकुष्ठानि जीवेद्वर्षशतद्वयम् ॥ ६५ ॥
यः खादेदभयारिष्टं मरिचामलकानि वा ।
स जयेत्सर्वकुष्ठानि मासादूर्ध्वं न संशयः ॥ ६६ ॥
दह्यमानाच्युतः कुम्भे मूलगे खदिराद्रसः ।
साज्यधात्रीरसक्षौद्रो हन्यात्कुष्ठं रसायनम् ॥ ६७ ॥
१२वयस्येडगजाकुष्ठकृष्णाभिर्गुडिका कृता ।
बास्तमूत्रेण संपिष्टा लेपाच्छ्वित्रविनाशिनी ॥ ६८ ॥
पूतीकार्कस्नुङ्नरेन्द्रद्रुमाणां
मूत्रे पिष्टाः पल्लवाः सौमनाश्च
लेपाच्छ्वित्रं घ्नन्ति दद्रुव्रणांश्च
कुष्ठान्यर्शांसि भग्ननाडीव्रणांश्च ॥ ६९ ॥
गजचित्रव्याघ्रचर्ममसीतैलविलेपनात् ।
श्वित्रं नाशं व्रजेत्किं वा पूतिकीटविलेपनात् ॥ ७० ॥
कुडवोऽवल्गुजबीजाद्धरितालचतुर्थभागसंमिश्रः ।
मूत्रेण गवां पिष्टः सवर्णकरणः परः श्वित्रे ॥ ७१ ॥
१३धात्रीखदिरयोः क्वाथं पीत्वा वल्गुजसंयुतम् ।
शङ्खेन्दुधवलं श्वित्रं तूर्णं हन्ति न संशयः ॥ ७२ ॥
क्षरेषु दग्धे गजलण्डजे च
गजस्य मूत्रेण बहु स्रुते च ।
द्रोणप्रमाणं दशभागयुक्ते
दत्त्वा पचेद्बीजमवल्गुजस्य ॥ ७३ ॥
एतद्यदा चिक्कणतामुपैति
तदा सुसिद्धां गुडिकां प्रयुञ्जयात् ।
विश्वं विलिम्पेदथ तेन घृष्टं
तदा व्रजत्याशु सवर्णभावम् ॥ ७४ ॥
श्वेतजयन्तीमूलं पिष्टं पीतं च गव्यपयसैव ।
श्वित्रं निहन्ति नियतं रविवारे वैद्यनाथस्याज्ञा ॥ ७५ ॥
१४पुष्पकाले तु पुष्पाणि फलकाले फलानि च ।
संचूर्ण्य पिचुमर्दस्य त्वङ्मूलानि दलानि च ॥ ७६ ॥
द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत् ।
त्रिफलात्र्यूषणं ब्राह्मी श्वदंष्ट्रारुष्कराग्निकाः ॥ ७७ ॥
विडङ्गसारवाराहीलोहचूर्णामृताः समाः ।
हरिद्राद्वयावल्गुजव्याधिघाताः सशर्कराः ॥ ७८ ॥
कुष्टेन्द्रयवपाठाश्च कृत्वा चूर्णं सुसंयुतम् ।
खदिरासननिम्बानां घनक्वाथेन भावयेत् ॥ ७९ ॥
सप्तधा पञ्चनिम्बं तु मार्कवस्वरसेन तु ।
स्निग्धशुद्धतनुर्धीमान्योजयेच्च शुभे दिने ॥ ८० ॥
मधुना तिक्तहविषा खदिराशनवारिणा ।
लेह्यमुष्णाम्बुना वापि कोलवृद्ध्या पलं पिबेत् ॥ ८१ ॥
जीर्णे च भोजनं कार्यं स्निग्धं लघु हितं च यत्
विचर्चिकोदुम्बरपुण्डरीक-
कपालदद्रूकिटिभालसादीन् ॥ ८२ ॥
शतारुविस्फोटविसर्पपामां
कफप्रकोपं त्रिविधं किलासम् ॥ ८३ ॥
भगन्दरश्लीपदवातरक्तं
जातान्ध्यनाडीव्रणशीर्षरोगान् ।
सर्वान्प्रमेहान्प्रदरांश्च सर्वान्
दंष्ट्राविषं मूलविषं निहन्ति ॥ ८४ ॥
स्थूलोदरः सिंहकृशोदरश्च
सुश्लिष्टसन्धिर्मधुनोपयोगात् ।
समोपयोगादपि ये दशन्ति
सर्पादयो यान्ति विनाशमाशु ॥ ८५ ॥
जीवेच्चिरं व्याधिजराविमुक्तः
शुभेरतश्चन्द्रसमानकान्तिः ॥ ८६ ॥
१५चित्रकं त्रिफला व्योषमजाजीं कारवीं वचाम्
सैन्धवातिविषे कुष्ठं चव्यैलायावशूकजम् ॥ ८७ ॥
विडङ्गान्यजमोदां च मुस्तान्यमरदारु च ।
यावन्त्येतानि सर्वाणि तावन्मात्रं तु गुग्गुलुम् ॥ ८८ ॥
संक्षुद्य सर्पिषा सार्धं गुडिकां कारयेद्भिषक् ।
प्रातर्भोजनकाले च भक्षयेत्तु यथाबलम् ॥ ८९ ॥
हन्त्यष्टादशकुष्ठानि क्रिमीन्दुष्टव्रणानि च ।
ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान् ॥ ९० ॥
गृध्रसीमथ भग्नं च गुल्मं चाशु नियच्छति ।
व्याधीन्कोष्ठगतांश्चान्याञ्जयेद्विष्णुरिवासुरान् ॥ ९१ ॥
१६पञ्च भल्लातकांश्छित्वा साधयेद्विधिवज्जले ।
कषायं तं पिबेच्छीतं घृतेनाक्तौष्ठतालुकः ॥ ९२ ॥
पञ्चवृद्ध्या पिबेद्यावत्सप्ततिं ह्रासयेत्ततः ।
जीर्णेऽद्यादोदनं शीतं घृतं क्षीरोपसंहितम् ॥ ९३ ॥
एतद्रसायनं मेध्यं वलीपलितनाशनम् ।
कुष्ठार्शःक्रिमिदोषघ्नं दुष्टशुक्रविनाशनम् ॥ ९४ ॥
तैलं भल्लातकानां च पिबेन्मासं यथाबलम् ।
सर्वोपतापनिर्मुक्तो जीवेद्वर्षशतं दृढम् ॥ ९५ ॥
प्रलेपोद्वर्तनस्नानपानभोजनकर्मणि ।
शीलितं खादिरं वारि सर्वत्वग्दोषनाशनम् ॥ ९६ ॥
निम्बं पटोलं दार्वीं
दुरालभां तिक्तकरोहिणीं त्रिफलाम् ।
कुर्यादर्धपलांशान्पर्पटकं त्रायमाणां च ॥ ९७ ॥
सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत्पूते
चन्दनकिराततिक्तकमागधिकात्रायमाणां च ॥ ९८ ॥
मुस्तावत्सकबीजं कल्कीकृतमर्धकर्षान्भागान् ।
नवसर्पिषश्च षट्पलमेतत्सिद्धं घृतं पेयम् ॥ ९९ ॥
कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथून् ।
हन्ति पामाविसर्पपीडकान्कण्डुमदगन्धसिद्धम् ॥ १०० ॥
१७निम्बं पटोलं व्याघ्रीं च गुडूचीं वासकं तथा
कुर्याद्दशपालान्भागानेकैकस्य सुकुट्टितान् ॥ १०१ ॥
जलद्रोणे विपक्तव्यं यावत्पादावशेषितम् ।
घृतप्रस्थं पचेत्तेन त्रिफलागर्भसंयुतम् ॥ १०२ ॥
पञ्चतिक्तमिदं ख्यातं सर्पिः कुष्ठविनाशनम् ।
अशीतिं वातजान्रोगांश्चत्वारिंशच्च पैत्तिकान् ॥ १०३ ॥
विंशतिं श्लैष्मिकांश्चैव पानादेवापकर्षति ।
दुष्टव्रणक्रिमीनर्शः पञ्चकासांश्च नाशयेत् ॥ १०४ ॥
१८त्रिफलाद्विनिशावासायासपार्पटकूलकान्
त्रायन्तीकटुकानिम्बान्प्रत्येकं द्विपलोन्मितान् ॥ १०५ ॥
क्वाथयित्वा जलद्रोणे पादशेषेण तेन तु ।
घृतप्रस्थं पचेत्कल्कैः पिप्पलीघनचन्दनैः ॥ १०६ ॥
त्रायन्तीशक्रभूनिम्बैस्तत्पीतं तिक्तकं घृतम् ।
हन्ति कुष्ठज्वरार्शांसि श्वयथुं ग्रहणीगदम् ।
पाण्डुरोगं विसर्पं च क्लीबानामपि शस्यते ॥ १०७ ॥
१९सप्तच्छदं प्रतिविषां सम्पाकं तिक्तरोहिणीं पाठाम् ।
मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम् ॥ १०८ ॥
धन्वायासं सचन्दनमुपकुल्ये पद्मकं रजन्यौ च ।
षड्ग्रन्थां सविशालां शतावरीशारिवे चोभे ॥ १०९ ॥
वत्सकबीजं वासां मूर्वाममृतां किराततिक्तं च ।
कल्कान्कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां च ॥ ११० ॥
कल्कस्तु चतुर्भागो
जलमष्टगुणं रसोऽमृतफलानाम् ।
द्विगुणो घृताच्च देय-
स्तत्सर्पिः पाययेत्सिद्धम् ॥ १११ ॥
कुष्ठानि रक्तपित्तं
प्रबलान्यर्शांसि रक्तवाहीनि ।
विसर्पमम्लपित्तं
वातासृक्पाण्डुरोगं च ॥ ११२ ॥
विस्फोटकान्सपामा-
नुन्मादकान्कामलां ज्वरं पाण्डुम् ।
हृद्रोगगुल्मपिडका-
मसृग्दरं गण्डमालां च ॥ ११३ ॥
हन्यादेतत्सद्यः
पीतं काले यथाबलं सर्पिः ।
योगशतैरष्यजिता-
न्महाविकारान्महातिक्तकम् ॥ ११४ ॥
२०खदिरस्य तुलाः पञ्च शिंशपाशनयोस्तुले ।
तुलार्धाः सर्व एवैते करञ्जारिष्टवेतसाः ॥ ११५ ॥
पर्पटः कुटजश्चैव वृष्यः क्रिमिहरस्तथा ।
हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत् ॥ ११६ ॥
सप्तपर्णस्तु संक्षुण्णो दशद्रोणे च वारिणः ।
अष्टभागावशेषं तु कषायमवतारयेत् ॥ ११७ ॥
धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत् ।
महातिक्तककल्कैश्च यथोक्तैः पलसंमितैः ॥ ११८ ॥
निहन्ति सर्वकुष्ठानि पानाभ्यङ्गान्निषेवणात् ।
महाखदिरमित्येतत्परं कुष्ठविनाशनम् ॥ ११९ ॥
२१निम्बामृतावृषपटोलनिदिग्धिकानां
भागान्पृथग्दशपलान्विपचेद्धटेऽपाम् ।
अष्टांशशेषितजलेन सुनिःसृतेन
प्रस्थं घृतस्य विपचेत्पिचुभागकल्कैः ॥ १२० ॥
पाठाविडङ्गसुरदारुगजोपकुल्या-
द्विक्षारनागरनिशामिशिचव्यकुष्ठैः ।
तेजोवतीमरिचवत्सकदीप्यकाग्नि
रोहिण्युरुष्करवचाकणमूलयुक्तैः ॥ १२१ ॥
मञ्जिष्ठयातिविषयावरया यमान्या
संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः ।
तत्सेवितं विषमतिप्रवलं समीरं
सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥ १२२ ॥
नाडीव्रणार्बुदभगन्दरगण्डमालां
जत्रूर्ध्वसर्वगतगुल्मगुदोत्थमेहान् ।
यक्ष्मारुचिश्वसनपीनसकासशोष-
हृत्पाण्डुरोगगलविद्रधिवातरक्तम् ॥ १२३ ॥
२२वासागुडूचीत्रिफलापटोल-
करञ्जनिम्बाशनकृष्णवेत्रम् ।
तत्क्वाथकल्केन घृतं विपक्वं
तद्वज्रकं कुष्ठहरं प्रदिष्टम् ॥ १२४ ॥
विशीर्णकर्णाङ्गुलिहस्तपादः
क्रिम्यर्दितो भिन्नगलोऽपि मर्त्यः ।
पौराणिकीं कान्तिमवाप्य जीवे-
दव्याहतो वर्षशतं च कुष्ठी ॥ १२५ ॥
२३आरग्वधं धवं कुष्ठं हरितालं मनःशिलाम् ।
रजनीद्वयसंयुक्तं पचेत्तैलं विधानवित् ।
एतेनाभ्यञ्जयेच्छ्वित्री क्षिप्रं श्वित्रं विनश्यति ॥ १२६ ॥
२४मञ्जिष्ठारुङ्निशाचक्रमर्दारग्वधपल्लवैः ।
तृणकस्वरसे सिद्धं तैलं कुष्ठहरं कटु ॥ १२७ ॥
२५हरिद्रात्रिफलादारुहयमारकचित्रकम् ॥ १२८ ॥
सप्तच्छदश्च निम्बत्वक्करञ्जो बालकं नखी ।
कुष्ठमेडगजावीजं लाङ्गलीगणिकारिका ॥ १२९ ॥
जातीपत्रं च दार्वी च हरितालं मनःशिलाः ।
कलिङ्गातिलपत्रं च अर्कक्षीरं च गुग्गुलुः ॥ १३० ॥
गुडत्वङ्मरिचं चैव कुङ्कुमं ग्रन्थिपर्णकम् ।
सर्जपर्णाशखदिरविडङ्गं पिप्पलीं वचाम् ॥ १३१ ॥
घनरेण्वमृतायष्टिकेशरं ध्यामकं विषम् ।
विश्वकट्फलमञ्जिष्ठावोलस्तुम्बीफलं तथा ॥ १३२ ॥
स्नुहीसम्पाकयोः पत्रं वागुजीवीजमांसिके ।
एलाज्योतिष्मतीमूलं शिरीषो गोमयाद्रसः ॥ १३३ ॥
चन्दने कुष्ठनिर्गुण्डी विशाला मल्लिकाद्वयम् ।
वासाश्वगन्धा ब्राह्मी च श्र्याह्वं चम्पककट्फलम् ॥ १३४ ॥
एतैः कल्कैः पचेत्तैलं तृणकस्वरसद्रवम् ।
सर्वत्वग्दोषहरणं महातृणकसंज्ञितम् ॥ १३५ ॥
२६सप्तपर्णकरञ्जार्कमालतीकरवीरजम् ।
मूलं स्नुहाशिरीषाभ्यां चित्रकास्फोतयोरपि ॥ १३६ ॥
करञ्जबीजं त्रिफलां त्रिकटुं रजनीद्वयम् ।
सिद्धार्थकं विडङ्गं च प्रपुन्नाडतिलैः सह ॥ १३७ ॥
मूत्रपिष्टैः पचेत्तैलमेभिः कुष्ठविनाशनम् ।
अभ्यङ्गाद्वज्रकं नाम नाडीदुष्टव्रणापहम् ॥ १३८ ॥
२७मरिचालशिलाह्वार्कपयोश्वारिजटात्रिवृत् ।
शकृद्रसविशालारुङ्निशायुग्दारुचन्दनैः ॥ १३९ ॥
कटुतैलात्पचेत्प्रस्थं द्व्यक्षैर्विषपलान्वितैः ।
सगोमूत्रं तदभ्यङ्गाद्दद्रुश्वित्रविनाशनम् ।
सर्वेष्वपि च कुष्ठेषु तैलमेतत्प्रशस्यते ॥ १४० ॥
२८मरिचं त्रिवृतादन्तीक्षीरमार्कं शकृद्रसः ।
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥ १४१ ॥
विशाला करवीरं च हरितालं मनःशिला ।
चित्रको लाङ्गलाख्या च विडङ्गं चक्रमर्दकम् ॥ १४२ ॥
शिरीषं कुटजो निम्बं सप्तपर्णस्नुहामृताः ।
सम्पाको नक्तमालोऽब्दः खदिरं पिप्पली वचा ॥ १४३ ॥
ज्योतिष्मती च पलिका विषस्य द्विपलं भवेत् ।
आढकं कटुतैलस्य गोमूत्रं तु चतुर्गुणम् ॥ १४४ ॥
मृत्पात्रे लौहपात्रे वा शनैर्मृद्वग्निना पचेत् ।
पक्त्वा तैलवरं ह्येतन्म्रक्षयेत्कौष्ठिकान्व्रणान् ॥ १४५ ॥
पामाविचर्चिकादद्रुकण्डूविस्फोटकानि च ।
वलयः पलितं छायानीलीव्यङ्गस्तथैव च ।
अभ्यङ्गेन प्रणश्यन्ति सौकुमार्यं च जायते ॥ १४६ ॥
प्रथमे वयसि स्त्रीणां यासां नस्यं तु दीयते ।
परामपि जरां प्राप्य न स्तना यान्ति नम्रताम् ॥ १४७ ॥
बलीवर्दस्तुरङ्गो वा गजो वा वायुपीडितः ।
एभिरभ्यञ्जनैर्गाढं भवेन्मारुतविक्रमः ॥ १४८ ॥
२९नक्तमालं हरिद्रे द्वे अर्कस्तगरमेव च ।
करवीरं वचाकुष्ठमास्फोता रक्तचन्दनम् ॥ १४९ ॥
मालती सप्तपर्णं च मञ्जिष्ठा सिन्धुवारिका ।
एषामर्धपलान्भागान्विषस्यापि पलं तथा ॥ १५० ॥
चतुर्गुणे गवां मूत्रे तैलप्रस्थं विपाचयेत् ।
श्वित्रविस्फोटकिटिभकीटलूताविचर्चिकाः ॥ १५१ ॥
कण्डूकच्छुविकाराश्च ये व्रणा विषदूषिताः ।
विषतैलमिदं नाम्ना सर्वव्रणविशोधनम् ॥ १५२ ॥
३०श्वेतकरवीररसो गोमूत्रं चित्रकं विडङ्गं च ।
कुष्ठेषु तैलयोगः सिद्धोऽयं संमतो भिषजाम् ॥ १५३ ॥
३१श्वेतकरवीरमूलं विषांशसाधितं गवां मूत्रे ।
चर्मदलपामासिध्मविस्फोटक्रिमिकिटिभजित्तैलम् ॥ १५४ ॥
३२सिन्दूरार्धपलं पिष्ट्वा जीरकस्य पलं तथा ।
कटुतैलं पचेन्मानीं सद्यः पामाहरंपरम् ॥ १५५ ॥
३३सिन्दूरं चन्दनं मांसी विडङ्गं रजनीद्वयम् ।
प्रियङ्गु पद्मकं कुष्ठं मञ्जिष्ठां खदिरं वचाम् ॥ १५६ ॥
जात्यर्कत्रिवृतानिम्बकरञ्जविषमेव च ।
कृष्णवेत्रकलोध्रं च प्रपुन्नाडं च संहरेत् ॥ १५७ ॥
श्लक्ष्णपिष्टानि सर्वाणि योजयेत्तैलमात्रया ।
अभ्यङ्गेन प्रयुञ्जीत सर्वकुष्ठविनाशनम् ॥ १५८ ॥
पामाविचर्चिकाकण्डूविसर्पादिविनाशनम् ।
रक्तपित्तोत्थितान्हन्ति रोगानेवंविधान्बहून् ॥ १५९ ॥
३४मञ्जिष्ठात्रिफलालाक्षानिशाशिलालगन्धकैः ।
चूर्णितैस्तैलमादित्यपाकं पामाहरं परम् ॥ १६० ॥
३५स्वरसेन च दूर्वायाः पचेत्तैलं चतुर्गुणम् ।
कच्छुविचर्चिकापामा अभ्यङ्गादेव नाशयेत् ॥ १६१ ॥
३६अर्कपत्ररसे पक्वं कटुतैलं निशायुतम् ।
मनःशिलायुतं वापि पामाकच्छ्वादिनाशनम् ॥ १६२ ॥
३७गण्डीरिकाचित्रकमार्कवार्क-
कुष्ठद्रुमत्वग्लवणैः समूत्रैः ।
तैलं पचेन्मण्डलदद्रुकुष्ठ-
दुष्टव्रणारुक्किटिभापहारि ॥ १६३ ॥
३८चित्रकस्याथ निर्गुण्ड्या हयमारस्य मूलतः ।
नाडी च बीजाद्विषतः काञ्जिपिष्टं पलंपलम् ॥ १६४ ॥
करञ्जतैलाष्टपलं काञ्जिकस्य पलं पुनः ।
मिश्रितं सूर्यसन्तप्तं तैलं कुष्ठव्रणास्रजित् ॥ १६५ ॥
३९सोमराजी हरिद्रे द्वे सर्षपारग्वधं गदम् ।
करञ्जैडगजाबीजं गर्भं दत्वा विपाचयेत् ॥ १६६ ॥
तैलं सर्षपसम्भूतं नाडीदुष्टव्रणापहम् ।
अनेनाशु प्रशाम्यन्ति कुष्ठान्यष्टादशैव तु ॥ १६७ ॥
नीलिकापिडकाव्यङ्गं गम्भीरं वातशोणितम् ।
कण्डूकृच्छ्रप्रशमनं कच्छुपामाविनाशनम् ॥ १६८ ॥
४०पक्षात्पक्षाच्छर्दनान्यभ्युपेया-
न्मासान्मासात्स्रंसनं चाप्यधस्तात् ।
त्र्यहात्त्र्यहान्नस्ततश्चावपीडा-
न्मासेष्वसृङ्मोक्षयेत्षट्सु षट्सु ॥ १६९ ॥
योषिन्मांससुरात्यागः शालिमुद्गयवादयः ।
पुराणास्तिक्तशाकं च जाङ्गलं कुष्ठिनां हितम् ॥ १७० ॥