191-a
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु ।
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्र्यम् ॥ १ ॥
प्रोञ्छनमल्पे कुष्ठे महति च शस्तं शिराव्यधनम् ।
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान् ॥ २ ॥
वचावासापटोलानां निम्बस्य फलिनीत्वचः ।
कषायो मधुना पीतो वान्तिकृन्मदनान्वितः ॥ ३ ॥
विरेचनं तु कर्तव्यं त्रिवृद्दन्तीफलत्रिकैः ॥ ४ ॥
ये लेपाः कुष्ठानां
प्रयुज्यन्ते निर्गतास्रदोषाणाम् ।
संशोधिताशयानां
सद्यः सिद्धिर्भवति तेषाम् ॥ ५ ॥
मनःशिलाले मरिचानि तैल-
मार्कं पयः कुष्ठहरः प्रदेहः ।
करञ्जबीजैडगजः सकुष्ठो
गोमूत्रपिष्टश्च वरः प्रदेहः ॥ ६ ॥
पत्राणि पिष्ट्वा चतुरङ्गुलस्य
तक्रेण पर्णान्यथ काकमाच्याः ।
तैलाक्तगात्रस्य नरस्य कुष्ठा-
न्युद्वर्तयेदश्वहनच्छदैश्च ॥ ७ ॥
आरग्वधः सैडगजः करञ्जो
वासा गुडूची मदनं हरिद्रे ।
श्र्याह्वः सुराह्वः खदिरो धवश्च
निम्बो विडङ्गं करवीरकश्च ॥ ८ ॥
ग्रन्थिश्च भौर्जो लशुनः शिरीषः
सलोमशो गुग्गुलुकृष्णगन्धे ।