202-b
४०पक्षात्पक्षाच्छर्दनान्यभ्युपेया-
न्मासान्मासात्स्रंसनं चाप्यधस्तात् ।
त्र्यहात्त्र्यहान्नस्ततश्चावपीडा-
न्मासेष्वसृङ्मोक्षयेत्षट्सु षट्सु ॥ १६९ ॥
योषिन्मांससुरात्यागः शालिमुद्गयवादयः ।
पुराणास्तिक्तशाकं च जाङ्गलं कुष्ठिनां हितम् ॥ १७० ॥

Adhikāra 50

अभ्यङ्गः कटुतैलेन सेकश्चोष्णाम्बुभिस्ततः ।
उदर्धे वमनं कार्यं पटोलारिष्टवारिणा ॥ १ ॥
त्रिफलापुरकृष्णाभिर्विरेकश्चात्र शस्यते ।
त्रिफलां क्षौद्रसहितां पिबेद्वा नवकार्षिकाम् ।
विसर्पोक्तममृतादि भिषगत्रापि योजयेत् ॥ २ ॥
सितां मधुकसंयुक्तां गुडमामलकैः सह ।
सगुडं दीष्यकं यस्तु खादेत्पथ्यान्नभुङ्नरः ॥ ३ ॥
तस्य नश्यति सप्ताहादुदर्धः सर्वदेहजः ।
सिद्धार्थरजनीकल्कैः प्रपुन्नाडतिलैः सह ॥ ४ ॥
कटुतैलेन संमिश्रमेतदुद्वर्तनं हितम् ।
दूर्वानिशायुतो लेपः कच्छुपामाविनाशनः ॥ ५ ॥
क्रिमिदद्रुहरश्चैव शीतपित्तहरः परः ।
अग्निमन्थभवं मूलं पिष्टं पीतं च सर्पिषा ॥ ६ ॥
शीतपित्तोदर्धकोठान्सप्ताहादेव नाशयेत् ।
कुष्ठोक्तं च क्रमं कुर्यादम्लपित्तघ्नमेव च ॥ ७ ॥