208-a
न्यग्रोधपादा गुन्द्रा च कदलीगर्भ एव च ।
विसग्रन्थिकलेपः स्याच्छतधौतघृताप्लुतः ॥ १० ॥
हरेणवो मसूराश्च मुद्गाश्चैव सशालयः ।
पृथक्पृथक्प्रदेहाः स्युः सर्वैर्वा सर्पिषा सह ॥ ११ ॥
द्राक्षारग्वधकाश्मर्यत्रिफलैरण्डपीलुभिः ।
त्रिवृद्धरीतकीभिश्च विसर्पे शोधनं हितम् ॥ १२ ॥
गायत्रीसप्तपर्णाब्दवासारग्वधदारुभिः ।
कुटन्नटैर्भवेल्लेपो विसर्पे श्लेष्मसम्भवे ॥ १३ ॥
अजाश्वगन्धा शरलाथ काला
सैकेशिका वाप्यथवाजशृङ्गी ।
गोमूत्रपिष्टो विहितः प्रलेपो
हन्याद्विसर्पं कफजं सुशीघ्रम् ॥ १४ ॥
मदनं मधुकं निम्बं वत्सकस्य फलानि च ।
वमनं च विधातव्यं विसर्पे कफसम्भवे ॥ १५ ॥
त्रिफला पद्मकोशीरसमङ्गाकरवीरकम् ।
फलमूलमनन्ता च लेपः श्लेष्मविसर्पहा ॥ १६ ॥
आरग्वधस्य पत्राणि त्वचः श्लेष्मातकोद्भवाः ।
शिरीषपुष्पकामाची हिता लेपावचूर्णनैः ॥ १७ ॥