207-b
विरेकवमनालेपसेचनासृग्विमोक्षणैः ।
उपाचरेद्यथादोषं विसर्पानविदाहिभिः ॥ १ ॥
पटोलपिचुमर्दाभ्यां पिप्पल्या मदनेन च ।
विसर्पे वमनं शस्तं तथैवेन्द्रयवैः सह ॥ २ ॥
त्रिफलारससंयुक्तं सर्पिस्त्रिवृतया सह ।
प्रयोक्तव्यं विरेकार्थं विसर्पज्वरशान्तये ॥ ३ ॥
रसमामलकानां वा घृतमिश्रं प्रदापयेत् ।
तृणवर्जं प्रयोक्तव्यं पञ्चमूलचतुष्टयम् ।
प्रदेहसेकसर्पिर्भिर्विसर्पे वातसम्भवे ॥ ४ ॥
कुष्टं शताह्वासुरदारुमुस्ता-
वाराहिकुस्तुम्बुरुकृष्णगन्धाः ।
वातेर्कवंशार्तगलाश्च योज्याः
सेकेषु लेपेषु तथा घृतेषु ॥ ५ ॥
प्रपौण्डरीकमञ्जिष्ठापद्मकोशीरचन्दनैः ।
सयष्टीन्दीवरैः पित्ते क्षीरपिष्टैः प्रलेपयेत् ॥ ६ ॥
कशेरुशृङ्गाटकपद्मगुन्द्राः
सशैवलाः सोत्पलकर्दमाश्च ।
वस्त्रान्तराः पित्तकृते विसर्पे
लेपा विधेयाः सघृताः सुशीताः ॥ ७ ॥
प्रदेहाः परिषेकाश्च शस्यन्ते पञ्चवल्कलैः ।
पद्मकोशीरमधुकचन्दनैर्वा प्रशस्यते ॥ ८ ॥
पित्ते तु पद्मिनीपङ्कं पिष्टं वा शङ्खशैवलम् ।
गुन्द्रामूलं तु शुक्तिर्वा गैरिकं वा घृतान्वितम् ॥ ९ ॥