257-b
१३शतं मयूरमांसस्य दशमूलबलातुलाम् ।
द्रोणेऽम्भसः पचेत्क्षुण्वा तस्मिन्पादस्थिते ततः ॥ ६० ॥
निषिव्य पयसो द्रोणं पचेत्तत्र घृताढकम् ।
प्रपौण्डरीकवर्गोक्तैर्जीवनीयैश्च भेषजैः ॥ ६१ ॥
मेधाबुद्धिस्मृतिकरमूर्ध्वजत्रुगदापहम् ।
मायूरमेतन्निर्दिष्टं सर्वानिलहरं परम् ॥ ६२ ॥
मन्याकर्णशिरोनेत्ररुजापस्मारनाशनम् ।
विषवातामयश्वासविषमज्वरकासनुत् ॥ ६३ ॥

Adhikāra 60

दघ्ना सौवर्चलाजाजी मधुकं नीलमुत्पलम् ।
पिबेत्क्षौद्रयुतं नारी वातासृग्दरपीडिता ॥ १ ॥
पिबेदैणेयकं रक्तं शर्करामधुसंयुतम् ।
वासकस्वरसं पैत्ते गुडूच्या रसमेव वा ॥ २ ॥
रोहीतकान्मूलकल्कं पाण्डुरेऽसृग्दरे पिबेत् ।
जलेनामलकाद्वीजकल्कं वा ससितामधु ॥ ३ ॥
धातक्याश्चाक्षमात्रं वा आमलक्या मधुद्रवम् ।
काकजानुकमूलं वा मूलं कार्पासमेव वा ॥ ४ ॥