Adhikāra 60
१दघ्ना सौवर्चलाजाजी मधुकं नीलमुत्पलम् ।
पिबेत्क्षौद्रयुतं नारी वातासृग्दरपीडिता ॥ १ ॥
पिबेदैणेयकं रक्तं शर्करामधुसंयुतम् ।
वासकस्वरसं पैत्ते गुडूच्या रसमेव वा ॥ २ ॥
रोहीतकान्मूलकल्कं पाण्डुरेऽसृग्दरे पिबेत् ।
जलेनामलकाद्वीजकल्कं वा ससितामधु ॥ ३ ॥
धातक्याश्चाक्षमात्रं वा आमलक्या मधुद्रवम् ।
काकजानुकमूलं वा मूलं कार्पासमेव वा ॥ ४ ॥
पाण्डुप्रदरशान्त्यर्थं पिबेत्तण्डुलवारिणा ।
अशोकवल्कलक्वाथशृतं दुग्धं सुशीतलम् ।
यथाबलं पिबेत्प्रातस्तीव्रासृग्दरनाशनम् ॥ ५ ॥
दार्वीरसाञ्जनवृषाब्दकिरातबिल्व-
भल्लातकैरवकृतो मधुना कषायः ।
पीतो जयत्यतिबलं प्रदरं सशूलं
पीतासितारुणविलोहितनीलशुक्लम् ॥ ६ ॥
रसाञ्जनं तण्डुलीयस्य मूलं
क्षौद्रान्वितं तण्डुलतोयपीतम् ।
असृग्दरं सर्वभवं निहन्ति
श्वासं च भार्गी सह नागरेण ॥ ७ ॥
२दशमूलं समुद्धृत्य पेषयेत्तण्डुलाम्बुना ।
एतत्पीत्वा त्र्यहान्नारी प्रदरात्परिमुच्यते ॥ ८ ॥
क्षौद्रयुक्तं फलरसं कोष्ठोदुम्बरजं पिबेत् ।
असृग्दरविनाशाय सशर्करपयोऽन्नभुक् ॥ ९ ॥
प्रदरं हन्ति बलाया मूलं दुग्धेन मधुयुतं पीतम् ।
कुशवाट्यालकमूलं तण्डुलसलिलेन रक्ताख्यम् ॥ १० ॥
शमयति मदिरापानं तदुभयमपिरक्तसंज्ञशुक्लाख्यौ ॥ ११ ॥
गुडेन बदरीचूर्णं मोचमामं तथा पयः ।
पीता लाक्षा च सघृता पृथक्प्रदरनाशना ॥ १२ ॥
रक्तपित्तविधानेन प्रदरांश्चाप्युपाचरेत् ।
असृग्दरे विशेषेण कुटजाष्टकमाचरेत् ॥ १३ ॥
३पाठाजम्ब्वाम्रयोर्मेध्यं शिलाभेदरसाञ्जनम् ।
अम्बष्ठकीमोचरसः समङ्गापद्मकेशरान् ॥ १४ ॥
बाह्लीकातिविषामुस्तं बिल्वं लोध्रं सगैरिकम् ।
कट्फलं मरिचं शुण्ठीमृद्वीका रक्तचन्दनम् ॥ १५ ॥
कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम् ।
पुष्येणोद्धृत्य तुल्यानि श्लक्ष्णचूर्णानि कारयेत् ॥ १६ ॥
तानि क्षौद्रेण संयुज्य पाययेत्तण्डुलाम्बुना ।
असृग्दरातिसारेषु रक्तं यच्चोपवेश्यते ॥ १७ ॥
दोषागन्तुकृता ये च बालानां तांश्च नाशयेत् ।
योनिदोषं रजोदोषं श्वेतं नीलं सपीतकम् ॥ १८ ॥
स्त्रीणां श्यावारुणं यच्च तत्प्रसह्य निवर्तयेत् ।
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम् ॥ १९ ॥
४मुद्गमाषस्य निर्यूहे रास्नाचित्रकनागरैः ।
सिद्धं सपिप्पलीविल्वैः सर्पिः श्रेष्ठमसृग्दरे ॥ २० ॥
कुमुदं पद्मकोशीरं गोधूमो रक्तशालयः ।
मुद्गपर्णी पयस्या च काश्मरी मधुयष्टिका ॥ २१ ॥
बलातिबलयोर्मूलमुत्पलं तालमस्तकम् ।
विदारी शतमूली च शालपर्णी सजीवका ॥ २२ ॥
फलंत्रिकस्यबीजानि प्रत्यग्रं कदलीफलम् ।
एषामर्धपलान्भागान्गव्यं क्षीरं चतुर्गुणम् ॥ २३ ॥
पानीयं द्विगुणं हृत्त्वा घृतप्रस्थं विपाचयेत् ।
प्रदरे रक्तपित्ते च रक्तगुल्मे हलीमके ॥ २४ ॥
बहुरूपं चयत्पित्तं कामलावातशोणिते ।
अरोचके ज्वरे जीर्णे पाण्डुरोगे मदे भ्रमे ॥ २५ ॥
तरुणी चाल्पपुष्पा च या च गर्मं न विन्दति ।
अहन्यहनि च स्त्रीणां भवति प्रीतिवर्धनम् ।
शीतकल्याणकं नाम परमुक्तं रसायनम् ॥ २६ ॥
५शतावरीरसप्रस्थं क्षोदयित्वावपीडयेत् ।
घृतप्रस्थसमायुक्तं क्षीरं द्विगुणितं भिषक् ॥ २७ ॥
अत्र कल्कानिमान्दद्यात्स्थूलोदुम्बरसंमितान् ।
जीवनीयानि यान्यष्टौ यष्टिपद्मकचन्दने ॥ २८ ॥
श्वदंष्ट्रा चात्मगुप्ता च बला नागबला तथा ।
शालपर्णी पृश्निपर्णी विदारी शारिवाद्वयम् ॥ २९ ॥
शर्करा च समा देया काश्मर्याश्च फलानि च ।
सम्यक् सिद्धं तु विज्ञाय तद्धृतं चावतारयेत् ॥ ३० ॥
रक्तपित्तविकारेषु वातपित्तकृतेषु च ।
वातरक्तं क्षयं श्वासं हिक्कां कासं च दुस्तरम् ॥ ३१ ॥
अङ्गदाहं शिरोदाहं रक्तपित्तसमुद्भवम् ।
असृग्दरं सर्वभवं मूत्रकृच्छ्रं सुदारुणम् ।
एतान्रोगाञ्शमयति भास्करस्तिमिरं यथा ॥ ३२ ॥